बृहत्पाराशरहोराशास्त्रम् 32.1
अथाऽहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान्।
सप्तरव्यादिशन्यन्तान् राह्वन्तान् वाऽष्टसंख्यकान्॥ १॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथाऽहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान्।
सप्तरव्यादिशन्यन्तान् राह्वन्तान् वाऽष्टसंख्यकान्॥ १॥
अंशैः समौग्नहौ द्वौ चेद्राह्वन्तन् चिन्तयेत् तदा।
सप्तैव कारकानेवं केचिदष्टौ प्रचक्षते॥ २॥
अत्मा सूर्यादिखेटानां मध्ये ह्यंशाधिको ग्रहः।
अंशसाम्ये कलाधिक्यात् तत्साम्ये विकलाधिकः॥ ३॥
बुधौ राशिकलाधिक्यत् ग्राह्वो नैवात्मकारकः।
अंशाधिकः कारकः स्यादल्पभागोऽन्त्यकारकः॥ ४॥
मध्यांशो मध्यखेटः स्यादुपखेटः स एव हि।
विलोमगमनाद्राहोरंशाः शोध्याः खवह्नितः॥ ५॥
अंशक्रमादधोऽधःस्थाश्चराख्याः कारका इति।
आत्माख्यकारकस्तेषु प्रधानं कथ्यते द्विज॥ ६॥
स एव जातकाधीशो विज्ञेयो द्विजसत्तम।
यथा भूमौ प्रसिद्धोऽस्ति नराणां क्षितिपालकः॥ ७॥
सर्ववार्ताधिकारी च बन्धकृन्मोक्षक्रत् तथा॥ ८॥
यथा राजाज्ञया विप्रा पुत्रामात्यादयो जनाः।
समर्था लोककार्येषु तथैवान्येपि कारकाः॥ ९॥
आत्मानुकूलमेवात्र भवन्ति फलदायकः।
प्रतिकूले यथा भूपे सर्वेऽमात्यादयो द्विज॥ १०॥
कर्य कर्तुं मनुष्यानां न समर्था भवन्ति हि।
तथाऽत्मकारके क्रूरे नाऽन्ये स्वशुभदायकः॥ ११॥
अनुकूले नृपे यद्वत् सर्वेऽमात्यादयो द्विज।
नाशुभं कुर्वते तद्वनान्ये स्वाशुभदायकाः॥ १२॥
आत्माकारकभागेभ्यो न्यूनांशोऽमात्यकारकः।
तस्मान्न्यूनांशको भ्राता तन्न्यूनोमातृसंज्ञकः॥ १३॥
तन्न्यूनांशः पितातस्मादल्पांशः पुत्रकारकः।
पुत्रान्न्यूनांशको ज्ञतिर्ज्ञातेर्न्यूनांशको हि यः॥ १४॥
स दारकारको ज्ञेयो निर्विशंके द्विजोत्तम।
चराख्यकारला एते ब्राह्मणा कथिताः पुरा॥ १५॥
मातृकारकमेवाऽन्ये वदन्ति सुतकारकम्।
द्वौ ग्रहौ भागतुल्यौ चेज्जायेतां यस्य जन्मनि॥ १६॥
तदग्रकारकस्यैवं लोपो ज्ञेयो द्विजोत्तम।
स्थिरकारकवशात्तस्य फलं ज्ञेयं शुभाऽशुभम्॥ १७॥
अधुना सम्प्रवक्ष्यामि स्थिराख्यान् करकग्रहान्।
स पितृकारको ज्ञेयो यो बली रविशुक्रयोः॥ १८॥
चन्द्रारयोर्बली खेटो मातृकारक उच्यते।
भौमतो भगिनी श्यालः कनीयान् जननीत्यपि॥ १९॥
बुधान्मातृसजातीया मातुलाद्याश्च बान्धवाः।
गुरोः पितामहः शुक्रात् पितः पुत्रः शनैश्चरात्॥ २०॥
विप्रान्तेवासिनः पत्नी पितरौ श्वशुरौ तथा।
मातामहादयश्चिन्त्या एते च स्थिरकारका॥ २१॥
अथाऽहं कारकान् वक्ष्ये खेटभाववशाद्द्विज।
रवितः पुन्यभे तातश्चन्द्रान्माता चतुर्थके॥ २२॥
कुजात् तृतीयतो भ्राता बुधात् षष्थे च मातुलः।
देवेज्यात् पञ्चमात् पुत्रो दाराः शुक्राच्च सप्तमे॥ २३॥
मन्दादष्टमतो मृत्युः पित्रादीनां विचिन्तयेत्।
इति सर्व विचार्यैव बुधस्तत्तत् फलं वदेत्॥ २४॥
अथाऽहं सम्प्रवक्ष्यामि प्रसङ्गाद्योगकारकान्।
खेटान् जन्मनि जातस्य मिश्रः स्थितिवशाद् द्विज॥ २५॥
स्वर्क्षे स्वोच्चे च मित्रर्क्षे मिथः केन्द्रगता ग्रहाः।
ते सर्वे कारकास्तेषु कर्मगस्तु विशेषतः॥ २६॥
यथा लग्ने सुखे कामे स्वोर्क्षोच्चस्था ग्रहा द्विज।
भवन्ति कारकाख्यास्ते विशेषेण च खे स्थिताः॥ २७॥
स्वमित्रोच्चर्क्षगो हेतुरन्योऽन्यं यदि केन्द्रगः।
सुहृत् तद्गुणसम्पन्नः सोऽपि कारक उच्यते॥ २८॥
नीचान्वयेऽपि यो जातः विद्यमाने च कारके।
सोऽपि राजमनो विप्र धनवान् सुखसंयुतः॥ २९॥
राजवंशसमुत्पन्नो राजा भवति निश्चयात्।
एवं कुलानुसारेण कारकेभ्यः फलं वदेत्॥ ३०॥
अथाऽहं सम्प्रवक्ष्यामि विशेषं भावकारकान्।
जनस्य जन्मलग्नं यत् विन्द्यादात्मकारकम्॥ ३१॥
धनभावं विजानीयाद् दारकारकमेव हि।
एकादशेऽग्रजातस्य तृतीये तु कनीयसः॥ ३२॥
सुते सुतं विजानीयात् पत्नीं सप्तमभावतः।
सुतभवे ग्रहो यः स्यात् सोऽपि कारक उच्यते॥ ३३॥
सूर्यो गुरुः कुजः सोमो गुरुर्भौभः सितः शनिः।
गुरुश्चन्द्रसुतो जीवो मन्दश्च भवकारकाः॥ ३४॥
पुनस्तन्वादयो भावः स्थाप्यास्तेषां शुभाऽशुभम्।
लाभस्तृतीयो रन्ध्रश्च शत्रुसंज्ञधनव्ययाः॥ ३५॥
एते भावाः समाख्याताः क्रूराख्या द्विजसत्तम।
एषां योगेन यो भावस्तस्य हानिः प्रजायते॥ ३६॥
भावा भद्राश्च केन्द्रारव्याः कोणाख्यौ द्विजसत्तम।
एषां संयोगमात्रेण ह्वशुभोऽपि शुभो भवेत्॥ ३७॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 32 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%A8_(%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=74909