बृहत्पाराशरहोराशास्त्रम् 33.1
अथाऽहं सम्प्रवक्ष्यामि कारकांशफलं द्विज।
मेषादिराशिगे स्वांशे यथावद् ब्रह्मभाषितम्॥ १॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथाऽहं सम्प्रवक्ष्यामि कारकांशफलं द्विज।
मेषादिराशिगे स्वांशे यथावद् ब्रह्मभाषितम्॥ १॥
गृहे मूषकमार्जारा मेषांशे ह्वात्मकारके।
सदा भयप्रदा विप्र पापयुक्ते विशेषतः॥ २॥
वृषांशकगते स्वस्मिन् सुखदाश्च चतुष्पदाः।
मिथुनांशगते तस्मिन् कण्ड्वादिव्याधिसम्भवः॥ ३॥
कर्कांशे च जलाद्भीतिः सिम्हांशे श्वपदाद्भयम्।
कण्डूः स्थौल्यञ्च कन्यांशे तथा वह्निकणाद्भयम्॥ ४॥
तुलांशे च वणिग् जातो वस्रादिनिर्मितौ पटुः।
अल्यंशे सर्पतो भीतिः पीडा मातुः पयोधरे॥ ५॥
धनुरंशे क्रमादुच्चात् पतनं वाहनादपि।
मरकांशे जलोद्भूतैर्जन्तुभिः खेचरस्तथा॥ ६॥
शंखमुक्ताप्रवालाद्यैर्लाभो भवति निश्चितः।
कुम्भांशे च तडागादिकारको जायते जनः॥ ७॥
मीनांशे कारके जातो मुक्तिभाग् द्विजसत्तम।
नाऽशुभं शुभसंदृष्टे न शुभं पापवीक्षिते॥ ८॥
कारकांशे शुभे विप्र लग्नांशे च शुभग्रहे।
शुभसंवीक्षिते जातो राजा भवति निश्चितः॥ ९॥
स्वांशाच्छुभग्रहाः केन्द्रे कोणे वा पापवर्जिताः।
धनविद्यायुतो जातो मिश्रैर्मिश्रफलं वदेद्॥ १०॥
उपग्रहे च विप्रेन्द्र स्वोच्चस्वर्क्षंसुभर्क्षगे।
पापदृग्रहिते चाऽन्त्ये कैवल्यंतस्य निर्दिशेत्॥ ११॥
चन्द्राऽरभृगुवर्गस्थ कारके पारदारिकः।
विपर्यस्थेऽन्यथा ज्ञेयं फलं सर्वं विचक्षणैः॥ १२॥
कारकांशे रवौ जातो राजकार्यपरो द्विज।
पूर्णेन्द्रौ भोगवान् विद्वान् शुक्रदृष्टे विशेषतः॥ १३॥
स्वांशे बलयुते भौमे जातः कन्तायुघी भवेत्।
वह्निजीवी नरो वाऽपि रसवादी च जायते॥ १४॥
बुधे बलयुते स्वांशे कलाशिल्पविचक्षनः।
वाणिज्यकुशलश्चापि बुद्धिविद्यासमन्वितः॥ १५॥
सुकर्मा ज्ञाननिष्ठश्च वेदवित् स्वांशगे गुरौ।
शुक्रे शतेन्द्रियः कामी राजकीतो भवेन्नरः॥ १६॥
शनौ स्वांशगते जातः स्वकुलोचितकर्मकृत्।
राहौ चौरश्च धनुष्को जातो वा लोहयन्त्रकृत्॥ १७॥
विषवैद्योऽथवा विप्र जायते नाऽत्र संशयः।
व्ययहारी गजादीनां केतौ चौरश्च जायते॥ १८॥
रविराहू यदा स्वांशे सर्पाद् भीतिः प्रजायते।
शुभदृष्टौ भयं नैव पापदृष्टौ मृतिभवेत्॥ १९॥
शुभषड्वर्गसंयुक्तौ विषवैद्यो भवेन् तदा।
भौमेक्षिते कारकांशे भानुस्वर्भानुसंयुते॥ २०॥
अन्यग्र्हा न पश्यन्ति स्ववेश्मपरदाहकः।
तस्मिन् बुधेक्षि ते चापि वह्निदो नैव जायते॥ २१॥
पापर्क्षे गुरुणा दृष्टे समीपगृहदाहकः।
शुक्रदृष्टे तु विप्रेन्द्र गृहदाहो न जायते॥ २२॥
गुलिकेन युते स्वांशे पूर्णचन्द्रेण वीक्षिते।
चौरैर्हृतधनो जातः स्वयं चौरोऽथवा भवेत्॥ २३॥
गृहादृष्टे सगुलिके विपदो वा विषैर्हतः।
बुधदृष्टे बृहद्वीजो जायते नाऽत्र संशयः॥ २४॥
सकेतौ कारकांशे च पापदृष्टे द्विजोत्तम।
जातस्य कर्णरोगो वा कर्णच्छेदः प्रजायते॥ २५॥
भृगुपुत्रेक्षिते तस्मिन् दीक्षितो जायते जनः।
बुधार्किदृष्टे निर्वीर्यो जायते मानवो ध्रुवम्॥ २६॥
बुधशुक्रेक्षिते तस्मिन् दासीपुत्रः प्रजायते।
पुनर्भवासुतो वाऽपि जायते नाऽत्र संशयः॥ २७॥
तपस्वी सनिना दृष्टे जातः प्रेष्योऽथवा भवेत्।
शनिमात्रेक्षिते तस्मिन् जातः संन्यासिवेषवान्॥ २८॥
रविसुक्रेक्षिते तस्मिन् राजप्रेष्यो जनो भवेत्।
इतिसंक्षेपतः प्रोक्तं कारकांशफलं द्विज॥ २९॥
स्वांशाद्धने च शुक्रारवर्गे स्यात् पारदारिकः।
तयोर्दृग्योगतो ज्ञेयमिदमामरणं फलम्॥ ३०॥
केतौ तत्प्रतिबन्धः स्यात् गुरौ तु स्रैण एव सः।
राहौ चाऽर्थनिवृत्तिः स्यात् कारकांशाद् द्वितीयगे॥ ३१॥
स्वांशात् तृतीयगे पापे जातः शूरः प्रतापवान्।
तस्मिन् शुभग्रहे जातः कातरो नात्र संशयः॥ ३२॥
स्वांशाच्चतुर्थभावे तु चन्द्रशुक्रयुतेक्षिते।
तत्र वा स्वोच्चगे खेटे जातः प्रासादवान् भवेत्॥ ३३॥
शनिराहुयुते तस्मैन् जातस्य च शिलागृहम्।
ऐष्टिकं कुजकेतुभ्यां गुरुणा दारवं गृहम्॥ ३४॥
तार्ण तु रविणा प्रोक्तं जातस्य भवनं द्विज।
चन्द्रे त्वनावृते देशे पत्नीयोगः प्रजायते॥ ३५॥
पञ्चमे कुजराहुभ्यां क्षयरोगस्य संभवः।
रात्रिनाथेन दृष्टाभ्यां निश्चयेन प्रजायते॥ ३६॥
कुजदृष्टौ तु जातस्य पिटकादिगदो भवेत्।
केतुदृष्टौ तु ग्रहणी जलरोगोऽथवा द्विज॥ ३७॥
सराहुगुलिके तत्र भयं क्षुदविषोद्भवम्।
बुधे परमहंसश्च लगुडी वा प्रजायते॥ ३८॥
रवौ खेड्गधरो जातः कुजे कुन्तायुधी भवेत्।
शनौ धनुर्धरो ज्ञेयो राहौ च लोहयन्त्रवान्॥ ३९॥
केतौ च घटिकायन्त्री मानवो जायते द्विज।
भार्गवे तु कविर्वाग्मी काव्यज्ञो जायते जनः॥ ४०॥
स्वांशे तत्पञ्चमे वाऽपि चन्द्रेज्याभ्यां च ग्रन्थकृत्।
शुक्रेण किञ्चिदूनोऽसौ ततोऽप्यल्पो बुधेन च॥ ४१॥
गुरुणा केवलेनैव सर्वविद् ग्रन्थकृत् तथा।
वेदवेदान्तविच्चापि न वाग्मी शाब्दकोऽपि सन्॥ ४२॥
नैयायिकः कुजेनासौ ज्ञेन मीमांसकस्तथा।
सभाजडस्तु शनिना गीतज्ञो रविणा स्मृतः॥ ४३॥
चन्द्रेण सांख्ययोगज्ञः साहित्यज्ञश्च गायकः।
केतुना गणितज्ञोऽसौ राहणाऽपि तथैव च॥ ४४॥
सप्रदायस्य सिध्हिः स्यात् गुरुसम्बन्धतो द्विज।
स्वांशाद् द्वितीयतः केचित् फलमेवं वदन्ति हि॥ ४५॥
स्वांशात् षष्ठगते पापे कर्षको जायते जनः।
शुभग्रहेऽलसश्चेति तृतीयेऽपि फलं स्मृतम्॥ ४६॥
द्यूने चन्द्रगुरु यस्य भार्या तस्यातिसुन्दरी।
तत्र कामवती शुक्रे बुधे चैव कलावती॥ ४७॥
रवौ च स्वकुले गुप्ता शनौ चापि वयोऽधिका।
तपस्विनी रुजाढ्य वा राहौ च विधवा स्मृता॥ ४८॥
शुभस्वामियुते रन्ध्रे स्वांशाद् दीर्घायुरुच्यते।
पापेक्षितयुतेऽल्पायुर्मध्यायुर्मिश्रदृग्युते॥ ४९॥
कारकांशाच्च नवमे शुभग्रहयुतेक्षित।
सत्यवादी गुरौ भक्तः स्वधर्मनिरतो नरः॥ ५०॥
स्वांशाच्च नवमे भावे पापग्रहयुतेक्षिते।
स्वधर्मनिरतो बाल्ये मिथ्यावादी च वार्धके॥ ५१॥
नवमे कारकांशाच्च शनिराहुयुतेक्षिते।
गुरुद्रोही भवेद् बालः शास्त्रेषु विमुखो नरः॥ ५२॥
कारकांशाच्च नवमे गुरुभानुयुतेक्षिते।
तदाऽपि गुरुद्रोही स्यात् गुरुवाक्यं न मन्यते॥ ५३॥
कारकांशाच्च नवमे शुक्रभौमयुतेक्षिते।
षड्वर्गादिकयोगे तु मरणं पारदारिकम्॥ ५४॥
कारकांशाच्च नवमे ज्ञेन्दुयुक्तेक्षिते द्विज।
परस्त्री सङ्गमाद् बालो बन्धको भवति ध्रुवम्॥ ५५॥
नवमे केवलेनैवे गुरुणा च युतेक्षिते।
स्त्रीलोतुपो भवेज्जातो विषयी चैव जायते॥ ५६॥
कारकांशाच्च दशमे शुभल्हेटयुतेक्षिते।
स्थिरवित्तो भवेद् बालो गम्भीरो बलबुद्धिमान्॥ ५७॥
दशमे कारकांशाच्च पापखेटयुतेक्षिते।
व्यापारे जायते हानिः पितृसौख्येन वर्जितः॥ ५८॥
दशमे कारकांशाच्च बुधशुक्रयुतेक्षिते।
व्यापारे बहुलाभश्च महत्कर्मकर् नरः॥ ५९॥
कारकांशाच्च दशमे रविचन्द्रयुतेक्षिते।
गुरुदृष्टयुते विप्र जातको राज्यभाग् भवेत्॥ ६०॥
स्वांशादेकादशे स्थाने शुभखेटयुतेक्षिते।
भ्रातृसौख्ययुतो बालः सर्वकार्येषु लाभकृत्॥ ६१॥
एकादशे सपापे तु कुमार्गाल्लाबकृन्नरः।
विख्यातो विक्रमी चैव जायते नाऽत्र संशयः॥ ६२॥
कारकांशाद् व्ययस्थाने सद्ग्रहे सद्व्ययो भवेत्।
असद्व्ययोऽशुभे ज्ञयो ग्रहाभावे च सत्फलम्॥ ६३॥
कारकांशाद् व्ययस्थाने स्वभोच्चस्थे शुभग्रहे।
सद्गतिर्जायते तस्य शुभलोकमवाप्नुयात्॥ ६४॥
कारकांशाद् व्यये केतौ शुभखेटयुतेक्षिते।
तदा तु जायते मुक्तिः सायुज्यपदमाप्नुयात्॥ ६५॥
मेषे धनुषि वा केतौ कारकांशात् व्यये स्थिते।
शुभखेटेन सन्दृष्टे सायुजपदमाप्नुयात्॥ ६६॥
व्यये च केवले केतौ पापयुक्तेक्षितेपि वा।
न तदा जायते मुक्तिः शुभलोकं न पश्यति॥ ६७॥
रविणा संयुते केतौ कारकांशाद् व्ययस्थिते।
शिवभक्तिर्भवेस्यत्त निर्विशंकं द्विजोत्तम॥ ६८॥
चन्द्रेण संयुते केतौ कारकांशाद् व्ययस्थिते।
गौर्यां भक्तिर्भवेत्तस्य शाक्तिको जायते नरः॥ ६९॥
शुक्रेण संयुते केतौ कारकांशाद् व्ययस्थिते।
लक्ष्म्यां सञ्जायते भक्तिर्जातको सौ समृद्धिमान्॥ ७०॥
कुजेन संयुते केतौ स्कन्दभक्तौ भवेन्नरः।
वैष्णवो बुधसौरिभ्यां गुरुणा शिवभक्तिमान्॥ ७१॥
राहुणा तामसीं दुर्गां सेवते क्षुद्रदेवताम्।
भक्तिः स्कन्देऽथ हेरभ्भे शिखिना केवलेन वा॥ ७२॥
कारकांशाद् व्यये सौरिः पापराशौ यदा भवेत्।
तदाऽपि क्षुद्रदेवस्य भक्तिस्तस्य न संशयः॥ ७३॥
पापर्क्षेऽपि शनौ सुक्रे तदाऽपि क्षुद्रसेवकः।
अमात्यकारकात् षष्ठेप्तेवमेव फलं वदेत्॥ ७४॥
कारकांशात् त्रिकोणस्थे पापखेतद्वये द्विज।
मानवो मन्त्रतन्त्रज्ञो जायते नाऽत्र संशयः॥ ७५॥
पापेन वीक्षिते तत्र जातो निग्राहको भवेत्।
शुभैर्निरीक्षिते तस्मिन् नरोऽनुग्राहको भवेत्॥ ७६॥
शुक्रदृष्टे विधौ स्वांशे रसवादी भवेन्नरः।
बुधदृष्टे च सद्वैद्यः सर्वरोगहरो भवेत्॥ ७७॥
शुक्रदृष्टे सुखे चन्द्रे पाण्डुश्वित्री भवेन्नरः।
भौमदृष्टे महारोगी रक्तपित्तार्दितो भवेत्॥ ७८॥
केतुदृष्टे सुखे चंद्रे नीलकुष्ठी प्रजायते।
चतुर्थे पञ्चमेवाऽहि स्थितौ राहुकुजौ यदि॥ ७९॥
क्षयरोगो भवेत् तस्य चन्द्रदृष्टौ तु निश्चितः।
स्वांशात् सुखे सुते वाऽपि केवलः संस्थितः कुजः॥ ८०॥
पिट्कादिर्भवेत् तस्य तदा रोगो न संशयः।
ग्रहणी जलरोगो वा तत्र केतौ स्थिते सति॥ ८१॥
ख्वर्भानुगुलिकौ तत्र विषवैद्यो विषार्दितः।
स्वांशकात् पञ्चमे भावे केवले संस्थिते शनौ॥ ८२॥
धनुर्विद्याविदा जाता भवन्त्यत्र न संशयः।
केतौ च केवले तत्र घटिकायन्त्रकारकः॥ ८३॥
बुधे परमहंसो वा दण्डी भवति मानवः।
लोहयन्त्री तथा राहौ रवौ खेड्गधरो भवेत्॥ ८४॥
केवले च कुजे तत्र जातः कुन्तास्त्रधारकः।
स्वांशे वा पन्ऽचमे स्वांशाच्चन्द्रेज्यौ संस्थितौ तदा॥ ८५॥
ग्रन्थकर्ता भवेज्जातः सर्वविद्याविशारदः।
तत्र दैत्यगुरौ किञ्चिदूनग्रन्थकरो भवेत्॥ ८६॥
बुधे तत्र ततोऽप्यूनग्रन्थकर्त्ता प्रजायते।
तत्र शुक्रे कविर्वाग्मी काव्यज्ञश्च प्रजायते॥ ८७॥
सर्वविद्ग्रान्थिको जीवे न वाग्मी च सभादिषु।
शब्दज्ञश्च विशेषेण वेदवेदान्तवित् तथा॥ ८८॥
सभाजडो भवेद् बाल उक्तस्थानगते शनौ।
मीमांसको भवेन्नूनमुक्तस्थानगते बुधे॥ ८९॥
स्वांशे वा पञ्चमे भौमे जातो नैयायिको भवेत्।
चन्द्रे च सांख्ययोगज्ञः साहित्यज्ञश्च गायकः॥ ९०॥
रवौ वेदान्तविच्चैव गीतज्ञश्च प्रजायते।
केतौ च गणितज्ञः स्याज्ज्योतिःशास्त्रविशारदः॥ ९१॥
सम्प्रदायस्य संसिद्धिर्गुरुसम्बन्धतो भवेत्।
द्वितीये च तृतीये च स्वांशादेवं विचारयेत्॥ ९२॥
भावे सूक्ष्मफलं ज्ञात्वा जातकस्य फलं वदेत्।
केतौ स्वांशाद्द्वितीये वा तृतीये स्तब्धवाग् भवेत्॥ ९३॥
पापदृष्टे विशेषेण मानवो वक्तुमक्षमः।
स्वांशाल्लग्नात् पदाद्वाऽपि द्वितीयाष्टमभावयोः॥ ९४॥
केमद्रुमः पापसाम्ये चन्द्रदृष्टौ विशेषतः।
अत्राऽध्याये च ये योगाः सफलाः कथिता मया॥ ९५॥
योगकर्तृदशायान्ते ज्ञेयाः सर्वे फलप्रदाः।
एवं दशाप्रदाद्राशैर्द्वितीयाष्टमयोर्द्विज॥ ९६॥
ग्रहसाम्ये च विज्ञेयो योगः केमद्रुमोऽशुभः।
दशाप्रारम्भसमये सलग्नान् साधयेद् ग्रहान्॥ ९७॥
ज्ञेयस्तत्रापि योगोऽयं पापसाम्येऽर्थरन्ध्रयोः।
एवं तन्वादिभावानां सूर्यादीनां नभसदाम्॥ ९८॥
तत्तत्स्थित्यनुसारेण फलं वाच्यं विपश्चिता।
इति संक्षेपतः प्रोक्तं कारकांशफलं मया॥ ९९॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 33 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%A9_(%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=74910