Astrological HarshAuthor · Teacher · Researcher
अध्ययन · संस्कृत · शास्त्रीय संदर्भSTUDY · SANSKRIT · CLASSICAL REFERENCES

फलदीपिका · अध्याय 16 · षोडशोऽध्यायः (द्वादशभावफलम्)

शास्त्रीय ग्रंथ केन्द्र / फलदीपिका

28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।

मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।

फलदीपिका 16.1

द्वाद्श भावफल
लग्ननवंशपतुल्यतनुः स्याद्वीर्ययुत्तग्रहतुल्यतनुर्वा
चन्द्रसमेतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः || १||

फलदीपिका 16.3

लग्नेशे केन्द्रकोणे स्फुटकरनिकरे स्वोच्चभे वा स्वभे वा
केन्द्रादन्यत्रसंस्थे निधनभवनपे सौम्ययुक्ते विलग्ने |
दीर्घयुष्मान्धनाढ्यो महितगुणयुतो भूमिपालप्रशस्तो
लक्ष्मीवान् सुन्दराङ्गो दृढतनुरभयो धार्मिकः सत्कुटुम्बी || २
सत्संबन्धयुते कलेवरपतौ सद्ग्रामवासोऽथवा
सत्सङ्गः प्रबलग्रहेण सहिते विख्यातभूपाश्रयः |
स्वोच्चस्थे नृपतिः स्वयं स्वगृहगे तज्जन्मभूमौ स्थितिः
सञ्चारश्चरभे स्थितिः स्थिरगृहे द्वद्वं द्विरूपं फलम् || ३||

फलदीपिका 16.4

विख्यातः किरणोज्वले तनुपतौ सुस्थे सुखी वर्धनो
दुःस्थे दुःख्यसदृक्षनीचभवने वासो निकृष्टस्थले |
स्वस्थो जीवति शक्तिमत्युदयभे वर्द्धिष्णरूर्जस्वलो
निःशक्तौ निहतो विपद्भिरसकृत्खिन्नो भवेदातुरः || ४||

फलदीपिका 16.5

अर्थस्वामिनि मुख्यभावजुषि सत्स्वर्थे कुटुम्बश्रिया
सर्वोत्कृष्टगुणो धनी च सुमुखी स्याद्दूरदर्शी नरः |
सम्बन्धे सवितुर्द्वितीयपतिना लोपकारक्षमाण्
विद्यामर्थमवाप्नुयादथ शनेः क्षुद्राल्पविद्यारतः || ५||

फलदीपिका 16.6

जैवे वैदिकधर्मशास्त्रनिपुणो बौधेऽर्थशस्त्रे पदुः
शृ~गरोक्ति पटुर्भृगोर्हिमरुचेः किञ्चित्कलाविध्भवेत् |
कौजे क्रूरकला पटुश्च पिशुनो राहौ स्थिते लोहलः
केतौ भ्रश्यदलीकवाग्धनगतिः पापैश्च मूढोऽधनः || ६||

फलदीपिका 16.7

बन्धो यदि स्यात्तनुशौर्यनाथगो-
रन्योन्यराशिस्थतयोर्बलाढ्ययोः |
धैर्यं च शौर्यं सहजानुकूलतां
प्राप्नोत्ययं साहसकार्यकर्तृताम् || ७||

फलदीपिका 16.8

शौर्यपे बलिनि सद्ग्रहयुक्ते कारकेऽपि शुभभावमुपेते |
भ्रातृ वृद्धिरथ वीर्यविहीने दुःस्थने भवति सोदरनाशः || ८||

फलदीपिका 16.9

अयुग्मराशौ यदि कारकेशौ
गुर्वर्कभूसूनुनिरीक्षितौ चेत् |
ओजो गृहः स्याददि विक्रमाख्यः
पुंभ्रातरस्त्वंशवशाड्भवेयुः || ९||

फलदीपिका 16.10

दुःस्थाने सुखपे शशिन्यपि सतां योगेक्षणैर्वजिते
पापान्तःस्थितिमत्यसद्ग्रहयुते दृष्टे जनन्या मृतिः
एतौ द्वावपि वीर्यगौ शुभयुतौ दृष्टौ शुभैर्बन्धुगै-
र्मातुः सौख्यकरौ विधोश्च सुखगैः सौम्यैर्वदेत्तत्सुखम् || १०||

फलदीपिका 16.11

लग्नेशे सुखगेऽथवा सुखपतौ लग्ने तयोरीक्षणी
योगे वा शशिनस्तथा यदि करोत्यन्त्यां स्वमातुः क्रियाम् |
अन्योन्यं यदि शत्रुनीचभवने षष्ठाष्ठमे वा तयो
र्मातुर्नोपकरोति नाशसगये बन्धस्तयोर्वा न चेत् || ११||

फलदीपिका 16.12

मात्रृभावोक्तवद्वाच्यं पितृभ्रातृसुतादिषु |
भावकरकभावेशलग्नलग्नेश्वरैर्वदेत् || १२||

फलदीपिका 16.13

सुस्थौ सुखेशभृगुजौ तनुबन्धुयुक्ता
वान्दोलिकां जनपतेश्वरतां विधत्तः |
स्वर्णद्यनर्ध्यमणिभूषणपट्टशय्या-
कामोपभोगकरणानि च गोगजाश्वान् || १३||

फलदीपिका 16.14

दुःस्थे सुखेशे कुजसूर्यक्ते
सुखेऽपि वा जन्मगृहं प्रदग्धम् |
जीर्णं तमोमन्दयुतेऽरियुक्ते
परैर्हृतं गोक्षितिवाहनाद्यम् || १४||

फलदीपिका 16.15

सौम्यर्क्षंशे सौम्ययुक्ते पञ्चमे वा तदीश्वरे |
वैशेषिकांशे सद्भावे धीमान्निष्कपटी भवेत् || १५||

फलदीपिका 16.16

स्थितिः पापानां वा द्विषति बलयुक्तारिपतिना
युतो वा दृष्टो वा यदि रिपुगृहे वा तनुपतिः |
अरीशः केन्द्रे वाऽप्यशुभखगसंवीक्षितयुतो
रिपूणां पीडां द्राग्भृशमपरिहार्यं वितनुते || १६||

फलदीपिका 16.17

षष्ठेश्वरादतिबलिन्युदयाधिनाथे
सौम्यग्रहांशसहिते शुभदृष्टयुक्ते |
सौख्येश्वरेऽपि सबले यदि केन्द्रकोणे-
ष्वारोग्यमाग्यसहितो दृढगात्रयुक्तः || १७||

फलदीपिका 16.18

शत्रुनाथे तु दुःस्थाने नीचमूढारिसंयुते
टस्माद्बलाध्येलग्नेशे शत्रुनाशं रवौ शुभे || १८||

फलदीपिका 16.19

यद्भावेशयुतो वैरिनाथो यद्भावसंश्चितः |
षष्टस्थितो यद्भावेशस्ते भावाःशत्रुतां ययुः || १९||

फलदीपिका 16.20

सत्संबन्धयुते सप्तर्क्षे तदीशे बलान्विते |
पतिपुत्रवती षढ्वी भार्या सर्क्गुणैर्वृता || २०||

फलदीपिका 16.21

केन्द्रादन्यत्र रध्रेशे लग्नेशाद्दुर्बले सति |
नाधिर्न विघ्नो न क्लेशो नृणामायुश्चिरं भवेत् || २१||

फलदीपिका 16.22

धर्मे कुजे वा सूर्य वा दुःस्थे तन्नायके सति |
पापमध्यगते वाऽपि पितुर्मरणमादिशेत् || २२||

फलदीपिका 16.23

दिवा सूर्ये निशा मन्दे सुस्थे शुभनिरीक्षिते |
धर्मेशे बलसंयुक्ते चिरं जीवति तत्पिता || २३||

फलदीपिका 16.24

मन्दारयोः शीतरुचौ च सूर्ये त्रिकोणगे तज्जननीपितृभ्याम् |
त्यत्को भवेच्छक्रपुरोहितेन दृष्टे तनूजोऽस्ति सुखी चिरायुः || २४||

फलदीपिका 16.25

शनिर्भग्याधिपः स्याच्चेच्चरस्थो न शुभेक्षितः |
सूर्ये दुःस्थानगेऽप्यन्यपितरं ह्युपजीवति || २५||

फलदीपिका 16.26

धर्मे तदीशे वा मन्दयुक्ते दृष्टेऽपि वा चरे |
जातो दत्तो भवेन्नूनं व्ययेशे बलशालिनि || २६||

फलदीपिका 16.27

नभसि शुभखगे वा तत्पतौ केन्द्रकोणे
बलिनि निजगृहोच्चे कर्मगे लग्नपि वा |
महितपृथुयशाः स्याद्धर्मकर्मप्रदृत्तः
नृपतिसदृशभाग्यं दीर्घमायुश्च तस्य || २७||

फलदीपिका 16.28

उर्जस्वी जनवल्लभे दशमगे सूर्ये कुजे वा महत्
कार्यं साधयति प्रतापबहुलं खेशश्च सुस्थो यदि |
सव्द्यापारव्तीं क्रियं वितनुते सौम्येषु सच्छलाधितां
कर्मस्थेष्वहिमन्दकेतुषु भवेद्दुषर्मकारी नरः || २८||

फलदीपिका 16.29

लाभेशे यद्भावनाथयुक्ते यद्भावगेऽपि वा |
भावं तदनुरूपस्य वस्तुनो लाभगैरपि || २९||

फलदीपिका 16.30

व्ययस्थितो यद्भावेशो व्ययेशो यत्र तिष्ठति |
तस्य भावस्यानुरूपवस्तुनो नाशमादिशेत् || ३०||

फलदीपिका 16.31

भावेशस्थितभंशकोणमपि वा भावं तु वा लग्नपो
लग्नेशस्थितभांशकोणमुदयं वाऽयाति भावाधिपः |
संयोगेऽपि विलोकनेऽपि च तयोस्तद्भावसिद्धिं तदा
ब्रूयात्कारकयोगतस्तनुपतेर्लग्नाच्च चन्द्रादपि || ३१||

फलदीपिका 16.32

यद्भावेशास्थतर्क्षांशत्रिकोणस्थे गुरुर्यदा |
गोचरे तस्य भावस्य फलप्राप्तिं विनिर्दिशेत् || ३२||

फलदीपिका 16.33

लग्नारिनाथयोगे तु लग्नेशाद्दुर्बले रिपौ |
तदा तद्वशगः शत्रुवीपरितमतोऽन्यथा || ३३||

फलदीपिका 16.34

यद्भावपस्य तनुपस्य भवत्यरित्वा-
त्तत्कालशत्रु वशतोऽरिमृतिस्थितो वा |
स्पर्धां तदा वदतु नेत च गोचरस्थ-
स्तद्वत्सुहृत्वमपि संयुतिमैत्रतश्च || ३४||

फलदीपिका 16.35

लग्नेशयद्भावपयोस्तु योगो
यदा तदा तत्फलसिद्धिकालः |
भावेशवीर्ये शुभमन्यथान्य-
ल्लग्नाच्च चन्द्रादपि चिन्तनीयम् || ३५||

← पिछला अध्याय अगला अध्याय →

पाठ का स्रोत और उपयोग अधिकार

संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11

विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।

CC BY-SA 4.0

अध्याय 16 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%B7%E0%A5%8B%E0%A4%A1%E0%A4%B6%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%B6%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%AB%E0%A4%B2%E0%A4%AE%E0%A5%8D)&oldid=73747