Astrological HarshAuthor · Teacher · Researcher
अध्ययन · संस्कृत · शास्त्रीय संदर्भSTUDY · SANSKRIT · CLASSICAL REFERENCES

फलदीपिका · अध्याय 15 · पञ्चदशोऽध्यायः (भावचिन्ता)

शास्त्रीय ग्रंथ केन्द्र / फलदीपिका

28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।

मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।

फलदीपिका 15.1

भावचिन्ता
भावाह् सर्वे शुभपतियुता वीक्षिता वा शुभेशै-
स्तत्तद्भावाः सकलफलदाः पापदृग्योगहीनाः |
पापाः सर्वे भवनपतयश्चेदिहाहुस्तथैव
खेटैः सर्वैः शुभफलमिडं नीचमूढारिहीनैः || १||

फलदीपिका 15.2

तत्तद्भावात् त्रिकोणे स्वसुखमदनभे चास्पदे सौम्ययुक्ते
पापानां दृष्टिहीने भवनपसहिते पापखेटैरयुक्ते
भावानां पुष्टिमाहुः सकलशुभकरीमन्यथा चेत्प्रणाशं |
मिश्रं मिश्रैर्ग्रहेन्द्रैः सकलमपि तथा मुर्तिभावादिकानाम् || २||

फलदीपिका 15.3

नाशस्थानगतो देवाकरकरैर्लुप्तस्तु युद्भावपो
नीचारातिगृहं गतो यदि भवेत्सौम्यैरयुक्तेक्षितः |
तद्भावस्य विनाशनं वितनुते तादृग्वधोऽन्योऽस्ति चेत्
तद्भावोऽपि फलप्रदो न हि शुभश्चेन्नाशमुग्रग्रहः || ३||

फलदीपिका 15.4

लग्नादिभावाद्रिपुरन्ध्ररिःफे पापग्रहास्तद्भवनादिनाशम् |
सौम्यास्तु नात्यन्तफलप्रदाः स्युर्भवादिकानां फलमेवमाहुः || ४||

फलदीपिका 15.5

यद्भावनाथो रिपुरन्ध्ररिःफे दुःस्थानपो यद्भवनस्थितो वा |
तद्भावनाशं कथयन्ति तज्ज्ञाः शुभेक्षितस्तद्भवनस्य सौख्यम् || ५||

फलदीपिका 15.6

भावाधीशे च भाबे सति बलरहिते च ग्रहे कारकाख्ये
पापान्तह्स्थे च पापैररिभिरपि सनेक्षिते नान्यखेटैः |
पापैस्तद्बन्धुमृत्युव्ययभवनगतैस्तत्त्रिकोणस्थितैर्वा
वाच्या तद्भावहानिः स्फुटमिह भवति द्वित्रिसंवादभावात् || ६||

फलदीपिका 15.7

तत्तद्भावपराभवेश्वरखरद्रेष्काणपा दुर्बला
भावार्यष्टमकामगा निजदशायां भावनाशप्रदाः |
पापा भावगृहात् त्रिशत्रुभवगाः केन्द्रत्रिकोणे शुभाः
वीर्यढ्याः खलु भावनाथसुहृदो भावस्य सिद्धिप्रदाः || ७||

फलदीपिका 15.8

राश्तोजन्मविलग्नयोर्धृतिपतिर्भृत्युस्थतद्वीक्षकौ
मन्दः क्रूरदृगाणपो गुलिकपस्तैर्युक्तराश्यंशपा
राहुश्चैष सुदुर्बलः स जननेभावानभीष्टस्थितः
पापालोकितसंयुतो निजदशायां भावनाशावहाः || ८||

फलदीपिका 15.9

भावस्योदयपाश्रितस्य कुशलं यद्भावपेनोदय-
स्वामी तिष्ठति संयुतोऽपि कलयेत्तद्भावजातं फलम् |
दुःस्थाने विपरीतमेतदुदितं भावेश्वरे दुर्बले
दोषोऽतीव भवेद्बलेन सहिते दोषाल्पता जल्पिता || ९||

फलदीपिका 15.10

यद्भावेष्वशुभोऽपि वोदयपतिस्तद्भाववृद्धिं दिशे-
द्दुःस्थानाधिपतिः स चेद्यदि तनोः प्राबल्यमन्यस्य न |
अत्रोदाहरणं कुजे सुतगते सिंहे बुषे वा स्थिते
पुत्राप्तिं शुभवीक्षिते भुटिति तत्प्राप्तिं वदन्त्युत्तमाः || १०||

फलदीपिका 15.11

द्विस्थानाधिपतित्वमस्ति यदि चेन्मुख्यं त्रिकोणर्क्षजं
तस्यार्द्धं स्वगृहेऽथ पूर्वमुभयोर्यत्तदृषादौ वदेत् |
पश्चद्भावमिहापरार्द्धसमये युग्मे गृहे युग्मजं
त्वोजस्थे सति चौजभावजफलं शंसन्ति केचिज्जनाः || ११||

फलदीपिका 15.12

यद्भावेशस्याधिशत्रुग्रहो वा
यो वा खेटो बिन्दुशून्यर्क्षयुक्तः
तत्तत्पाके मूर्तिभावादिकानां
नाशं क्रूयादृऐववित्प्राश्रिकाय || १२||

फलदीपिका 15.13

स्वोच्चे सुहृत्क्षेत्रगतो ग्रहेन्द्रः
षड्भिर्बलैर्मुख्यबलान्वितोऽपि |
सन्धौ स्थितः सन्नफलप्रदः स्यत्
एवं विचिन्त्यात्र वदेद्विपाके || १३||

फलदीपिका 15.14

भावेषु भावस्फुटतुल्भागस्त-
द्भावजं पूर्णफलं विधत्ते |
सन्धौ फलं नास्ति तदन्तराले
चिन्त्योऽनुपातः खलु खेचराणम् || १४||

फलदीपिका 15.15

सूर्यादात्मपितृप्रभावनिविजां शक्तिं श्रियं चिन्तयेत्
चेतोबुद्धिनृपप्रसादजननीसंपत्करश्चन्द्रमाः |
सत्वं रोगगुणानुजावनिरिपुज्ञातीन्धरासूनुना
विद्याबन्धुविवेकमातुलसुहृद्वाक्कर्मकृद्बोधनः || १५||

फलदीपिका 15.16

प्रज्ञावित्तशरीरपुष्टितनयज्ञानानि वागीश्वरात्
पत्नीवाहनभूषणानि मदनव्यापारसौख्यं भृगोः |
आयुर्जीवन्मृत्युकारणविपद्भृत्यांश्च मन्दाद्वदेत्
सर्पेणैव पितामहंतु शिखिना मातामहं चिन्तयेत् || १६||

फलदीपिका 15.17

द्युमणिरमन्त्री भूसुतः सौमसौम्यौ
गुरुरिनतनयारौ भार्गवो भानुपुत्रः |
दिनकरद्विजेजौ जीवभानुज्ञमन्दाः
सुरगुरुरिनसूनुः कारकाः स्युविलग्नात् || १७||

फलदीपिका 15.18

सुहृदरिपरकीयस्वर्क्षतुङ्गस्थितानां
फलमनुपरिचिन्त्यं लग्नदेहादिभावैः |
समुपचयविपत्ती सौम्यपापेषु सत्यः
कथयति विपरीतं रिःफषष्टमेषु || १८||

फलदीपिका 15.19

पापग्रहाः षष्ठमृतिव्ययस्था-
स्तद्भाववृद्धिं कलयन्ति दोषैः |
शुभास्तु तद्भावलयं हि
तस्माच्छत्रवादि भावोत्फलप्रणाशः || १९||

फलदीपिका 15.20

भावस्य यस्यैव फलं विचिन्त्यं
भावं च तं लग्नमिति प्रकल्प्य |
तस्माद्वदेद्द्वादशभावजानि
फलानि तद्रूपधनादिकानि || २०||

फलदीपिका 15.21

एवं हि तत्कारकतो विचिन्त्यं
पितुश्च मातुश्च सहोदरस्य |
तन्मातुलस्यापि सुतस्य पत्यु-
र्भृत्यस्य सूर्यादिखगस्थितर्क्षात् || २१||

फलदीपिका 15.22

सूर्यास्थितर्क्षाज्जनकस्वरूपं
वृद्धिं द्वितीयेन तु तत्प्रकाशम् |
तद्भ्रातरं तस्य गुणं तृतीयात्
तन्मातरं चापि सुखं चतुर्थात् || २२||

फलदीपिका 15.23

बुधिं प्रसादं सुतभाच्च षष्ठा-
त्पीडा पितुर्दोषर्मारं च रोगम् |
कामं मदं तस्य तु सप्तमेन
दुःखं मृतिं मृत्युगृहात्तदयुः || २३||

फलदीपिका 15.24

पुण्यं शुभं तत्पितरं शुभेन
व्यापारमस्यैव हि कर्मभावात् |
लाभं ह्युपान्त्यात् क्षयमन्त्य-
भावाच्चन्द्रादिकानां फलमेवमाहुः || २४||

फलदीपिका 15.25

तत्तद्भावात्कारकादेवमूह्यं
तत्तन्मातृभ्रातृपित्रात्मजाद्यम् |
तस्मिन् भावे कारके भावनाथे
वीर्योपेते तस्य भावस्य सौखम् || २५||

फलदीपिका 15.26

धर्मे सूर्यः शीतगुर्बन्धुभावे
शौर्ये भौमः पञ्चमे देवमन्त्री
कामे शुक्रश्चाष्टमे भानुपुत्रः
कुर्यात्तस्य क्लेशमित्याहुरन्ये || २६||

फलदीपिका 15.27

लग्नेश्वरो यद्भवनेशयुक्तो
यद्भावगस्तस्य फलं ददाति |
भावे तदीशे बलभाजि तेन
भावेन सौख्यं व्यसनं बलोने || २७||

फलदीपिका 15.28

यद्भावप्रभुणा युतो बलवता मुख्याङ्गगो लग्नप-
स्तद्भावानुभवं वितनुते यद्भावगस्तस्य च |
संयुक्तो बलहीनभावपतिना निन्द्याङ्गभाजां फलं
कुर्यात्तद्विपरीतमेवमुदितं सर्वेषु भावेष्वपि || २८||

फलदीपिका 15.29

दुःस्थानपस्तदितरस्वगृहस्थितश्चेत्
स्वक्षेत्रभावफलमेव करोति नान्यति
मन्दो मृगे सुतगृहे यदि पुत्रसिद्धिः
षष्ठाधिपतकृतदोषफलं च नात्र || २९||

फलदीपिका 15.30

राशौ स्थितिर्मिथो योगो दृष्तिः केन्द्रेषु संस्थितः |
त्रिकोणे वा स्थितिः पञ्चप्रकारो बन्ध ईरितः || ३०||

← पिछला अध्याय अगला अध्याय →

पाठ का स्रोत और उपयोग अधिकार

संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11

विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।

CC BY-SA 4.0

अध्याय 15 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%AA%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%A6%E0%A4%B6%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%9A%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE)&oldid=73748