लघुपाराशरी 5.29
न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु ।
शुभाशुभफलं नृणामात्मभावानुरूपतः ॥ २९ ॥
5/5 संस्कृत अध्याय संग्रहित; स्रोत का अलग हिन्दी अर्थ शामिल नहीं।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु ।
शुभाशुभफलं नृणामात्मभावानुरूपतः ॥ २९ ॥
आत्मसम्बन्धिनो ये च ये वा निजसधर्मिणः ।
तेषामन्तर्दशास्वेव दिशन्ति स्वदशाफलम् ॥ ३० ॥
इतरेषां दशानाथविरुद्धफलदायिनाम् ।
तत्तत्फलानुगुण्येन जलान्यूह्यानि सूरिभिः ॥ ३१ ॥
स्वदशायां त्रिकोणेशः भुक्तौ केन्द्रपतिः शुभम् ।
दिशेत् सोऽपि तथा नोचेदसम्बन्धेन पापकृत् ॥ ३२ ॥
आरम्भो राजयोगस्य भवेन्मारकभुक्तिषु ।
प्रथयन्ति तमारभ्य क्रमशः पापभुक्तिषु ॥ ३३ ॥
तत्सम्बन्धिशुभानां च तथा पुनरसंयुजाम् ।
शुभानां तु समत्वेन संयोगो योगकारिणाम् ॥ ३४ ॥
शुभस्यास्य प्रसक्तस्य दशायां योगकारकाः ।
स्वभुक्तिषु प्रयच्छन्ति कुत्रचिद्योगजं फलम् ॥ ३५ ॥
तमोग्रहौ शुभारूढावसम्बन्धेन केनचित् ।
अन्तर्दशानुसारेण भवेतां योगकारकौ ॥ ३६ ॥
पापा यदि दशानाथाः शुभानां तदसंयुजाम् ।
भुक्तयः पापफलदास्तत्संयुक्शुभभुक्तयः ॥ ३७ ॥
भवन्ति मिश्राफलदा भुक्तयो योगकारिणाम् ।
अत्यन्तपापफलदा भवन्ति तदसंयुजाम् ॥ ३८ ॥
सत्यपि स्वेन सम्बन्धे न हन्ति शुभभुक्तिषु ।
हन्ति सत्यप्यसम्बन्धे मारक्ः पापभुक्तिषु ॥ ३९ ॥
परस्परदशायां स्वभुक्तौ सूर्यजभार्गवौ ।
व्यत्ययेन विशेषेण प्रदिशेतां शुभाशुभम् ॥ ४० ॥
लग्नकर्माधिनेतारावन्योन्याश्रयसंस्थितौ ।
राजयोगविति प्रोक्तं विख्यातो विजयी भवेत् ॥ ४१ ॥
धर्मकर्माधिनेतारावन्योन्याश्रयसंस्थितौ ।
राजयोगविति प्रोक्तं विख्यातो विजयी भवेत् ॥ ४२ ॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 5 · स्रोत संस्करण: https://sa.wikisource.org/wiki/%E0%A4%B2%E0%A4%98%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A5%80