बृहत्पाराशरहोराशास्त्रम् 94.94
अथ ज्येष्ठादि गण्डशान्त्यध्यायः ॥ ९४॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ ज्येष्ठादि गण्डशान्त्यध्यायः ॥ ९४॥
ज्येष्ठागण्डान्तजातस्तु पितुः स्वस्य च नाशकः ।
तस्य शान्तिविधिं वक्ष्ये सर्वविघ्नोपशान्तये ॥ १॥
मूलशान्तिसमं सर्वमात्रापि मण्डपादिकम् ।
इन्द्रोऽत्र देवता तद्वदधिदेवोऽनलस्तथा ॥ २॥
विज्ञेयं च तथा विप्र रक्षः प्रत्यधिदैवतम् ।
यथाशक्ति सुवर्णेन कुर्यादिन्द्रस्वरूपकम् ॥ ३॥
वज्राङ्कुशधरं दिव्यं गजराजोपरिस्थितम् ।
शालितण्डुलसंयुक्तकुम्भस्योपरि पूजयेत् ॥ ४॥
स्वस्वगृह्योक्तमन्त्रेण गन्धपुष्पाक्षतादिभिः ।
अभिषेकं च होमं च कुर्याद् ब्राह्मणभोजनम् ॥ ५॥
इन्द्रसूक्तं जपेद् भक्त्या मन्त्रं मृत्युञ्जयं तथा ।
प्रार्थयेदिन्द्रदेवं च ततः शान्तिमवाप्नुयात् ॥ ६॥
अथ वा शक्त्यभावे तु कुर्याद् गोदानमेव हि ।
यतः समस्तभूदानाद् गोदानमतिरिच्यते ॥ ७॥
मूलेन्द्राहिमघागण्डजाते दद्याद् गवां त्रयम् ।
गोयुग्मं पौष्णदास्रोत्थे गण्डान्ते च द्विजन्मने ॥ ८॥
अन्यगण्डे च दुर्योगे गामेकां हि प्रदापयेत् ।
गोरभावे च विप्राय दद्यात् तन्मूल्यमेव हि ॥ ९॥
ज्येष्ठनक्षत्रजा कन्या विनिहन्ति धवाग्रजम् ।
विशाखान्त्यपदोत्पन्ना कन्या देवरघातिनी ॥ १०॥
तस्याः प्रदानकालेऽतो गोदानमपि कारयेत् ।
आश्लेषान्त्यत्रिपादोत्थौ मूलाद्यत्रिपदोद्भवौ ॥ ११॥
कन्यासुतौ हतः श्वश्रूं श्वशुरञ्च यथाक्रमम् ।
तयोर्विवाहकालेऽतः शान्तिं कुर्याद् विचक्षणः ॥ १२॥
तत्तदोषविनाशाय यथावित्तानुसारतः ।
धवाग्रजद्यभावे तु न दोषाय प्रजायते ॥ १३॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 94 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AF%E0%A5%AA_(%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%BE%E0%A4%A6%E0%A4%BF_%E0%A4%97%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85917