बृहत्पाराशरहोराशास्त्रम् 93.93
अथ अभुक्तमूलशान्त्यध्यायः ॥ ९३॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ अभुक्तमूलशान्त्यध्यायः ॥ ९३॥
ज्येष्ठामूलमयोर्यस्मादधिपाविन्द्रराक्षसौ ।
महावैरात् तयोः सन्धिर्महादोषप्रदः स्मृतः ॥ १॥
अभुक्तमूलजं पुत्रं पुत्रीं वाऽपि परित्यजेत् ।
अथवाऽब्दाष्टकं तातस्तन्मुखं न विलोकयेत् ॥ २॥
तद्दोषपरिहारार्थमथ शान्तिविधिं ब्रुवे ।
तत्राऽदौ दोषबहुल्यान् मूलशान्तिर्निगद्यते ॥ ३॥
जन्मतो द्वादशाहे वा तदृक्षे वा शुभे दिने ।
जातस्य वाऽष्टमे वर्षे शान्तिं कुर्याद् विधानतः ॥ ४॥
सुसमे च शुभे स्थाने गोमयेनोपलेपिते ।
मण्डपं स्वगृहात् प्राच्यामुदीच्यां वा प्रकल्पयेत् ॥ ५॥
चतुर्द्वारसमायुक्तं तोरणाद्यैरलङ्कृतम् ।
कुण्डं ग्रहादियज्ञार्थं तद्बहिश्च प्रकल्पयेत् ॥ ६॥
सुवर्णेन तदर्धेन तदर्धार्धेन वा पुनः ।
नक्षत्रदेवतारूपं कुर्याद् वित्तानुसारतः ॥ ७॥
श्यामवर्णं महोग्रं च द्विशिरस्कं वृकाननम् ।
खड्गचर्मधरं तद्वद् ध्येयं कुणपवाहनम् ॥ ८॥
सुवर्णस्य च मूल्यं वा स्थापयित्वा प्रपूजयेत् ।
सुवर्णं सर्वदैवत्यं यतः शास्त्रेषु निश्चितम् ॥ ९॥
आचार्यं वरयेत् पश्चात् स्वस्तिवाचनुपूर्वकम् ।
कलशस्थापनं कुर्यात् स्वगृह्योक्तविधानतः ॥ १०॥
पञ्चगव्यादिकं क्षेप्यं कलशे तीर्थवारि च ।
शतौषध्यादिकं तत्र शतच्छिद्रघटे क्षिपेत् ॥ ११॥
वंशपात्रं च संस्थाप्य तत्र वै पश्चिमामुखम् ।
अर्चेयेन्निरृतिं देवं शुक्लवस्त्राक्षतादिभिः ॥ १२॥
इन्द्रं तदधिदेवं च जलं प्रत्यधिदैवतम् ।
स्वस्वशाखोक्तमन्त्रेण प्रधानादीन्प्रपूजयेत् ॥ १३॥
देवाधिदेवप्रीत्यर्थं होमं कुर्याद्यथाविधि ।
अष्टोत्तरं सहस्रं वा शतं वा नियतेन्द्रियः ॥ १४॥
मृत्युप्रशमनार्थं च मन्त्रं त्रयम्बकं जपेत् ।
प्रार्थयेच्च ततो देवमभिषेकार्थमादरात् ॥ १५॥
भद्रासनोपविष्टस्य सस्त्रीपुत्रस्य मन्त्रवित् ।
आचार्यो यजमानस्य कुर्यात् प्रीत्याभिषेचनम् ॥ १६॥
वस्त्रान्तरितकुम्भाभ्यां स्नापयेत्तदनन्तरम् ।
शुक्लाम्बरधरस्तद्वत् श्वेतगन्धानुलेपनः ॥ १७॥
धेनुं पयस्विनीं दद्यादाचार्याय च शक्तितः ।
ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत् ॥ १८॥
यत्पापं यच्च मे दौःस्थ्यं सर्वगात्रेष्ववस्थितम् ।
तत्सर्वं भक्षयाज्य त्वं लक्ष्मीं पुष्टिं च वर्धय ॥ १९॥
अनेनैव तु मन्त्रेण सम्यगाज्यं विलोकयेत् ।
मूलगण्डोद्भवस्तैवं सर्पपापं प्रणश्यति ॥ २०॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 93 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AF%E0%A5%A9_(%E0%A4%85%E0%A4%AD%E0%A5%81%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%AE%E0%A5%82%E0%A4%B2%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85915