बृहत्पाराशरहोराशास्त्रम् 54.54
अथ कुजदशान्तर्दशाफलाध्यायः ||५४||
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
स्रोत में दोहराए श्लोक क्रमांक मिले; पहली प्रति रखी गई।
अथ कुजदशान्तर्दशाफलाध्यायः ||५४||
कुजे स्वान्तर्गते विप्र लग्नात्केन्द्रत्रिकोणगे |
लाभे वा शुभसंयुक्ते दुष्चिक्ये धनसंयुते ||१||
लग्नाधिपेन संयुक्ते राजाऽनुग्रहवैभवम् |
लक्ष्मीकटोक्षचिह्नानि नष्टराज्यार्थलाभकृत् ||२||
पुत्रोत्सवादिसन्तोषो गृहे गोक्षीरसङ्कलम् |
स्वोच्चे वा स्वर्क्षगे भौमे स्वांशे वा बलसंयुते ||३||
गृहक्षेत्राभिवृद्धिश्च गोमहिष्यादिलाभकृत् |
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ||४||
अथाऽष्टमव्यये भौमे पापदृग्योगसंयुते |
मूत्रकृर्च्छादिरोगश्च कष्टाधिक्यं व्रणाद्भयम् ||५||
चौराहिराजपीडा च धनधान्यपरुक्षयः |
द्वितीये द्यूननाथे तु देहजाड्यं मनोव्यथा ||६||
तद्दोषपरिहारार्थं रुद्रजाप्यं च कारयेत् |
अनड्वाहं प्रदद्वाच्च कुजदोषनिवृत्तये ||७||
तेन तुष्टो भवेद् भौमः शङ्करस्य प्रसादतः |
आरोग्यं कुरुते तस्य सर्वसम्पत्तिदायकम् ||८||
कुजस्यान्तर्गते राहौ स्वोच्चे मूलत्रिकोणगे |
शुभैर्युक्ते शुभैर्दृष्टे केन्द्रलाभतृकोणगे ||९||
तत्काले राजसम्मानं गृहभूम्यादिलाभकृत् |
कलत्रपुत्रलाभः स्याद्व्यवसायात्फलाधिकम् ||१०||
गङ्गास्नानफलावाप्तिं विदेशगमनं तथा |
तथाऽष्टमव्यये राहौ पापयुक्तेऽथ वीक्षिते ||११||
चौराहिव्रणभीतिश्च चतुष्पाज्जीवनशनम् |
वातपित्तरुजोभीतिः कारागृहनिवेशनम् ||१२||
धनस्थानगते राहौ धननास्अं महद्भयम् |
सप्तमस्थानगे वाऽपि ह्यपमृत्युभयं महत् ||१३||
नागपूजां प्रकुर्वीत देवब्राह्मणभोजनं |
मृत्युञ्जयजपं कुर्यादायुरारोग्यलब्धये ||१४||
कुजस्यान्तर्गते जीवे त्रिकोणे केन्द्रगेऽपि वा |
लाभे वा धनसंयुक्ते तुङ्गांशे स्वांशगेपि वा ||१५||
सत्कीर्ती राजसम्मानं धनधान्यस्य वृद्धिकृत् |
गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ||१६||
दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा |
भाग्यकर्माधिपैर्युक्ते वाहनाधिपसंयुते ||१७||
लग्नाधिपसमायुक्ते शुभांशे शुभवर्गगे |
गृहक्षेत्राभिवृद्धिश्च गृहे कल्याणसम्पदः ||१८||
देहारोग्यं महत्कीर्तिगृहे गोकुलसंग्रहः |
चतुष्पाज्जीवलाभः स्याद्व्यवसायात्फलाधिकम् ||१९||
कलपुत्रसौख्यं च राजसम्मानवैभवम् |
षष्ठाष्टमव्यये जीवे नीचे वास्तंगते सति ||२०||
पापग्रहेण संयुक्ते दृष्टे वा दुर्बले सति |
चौराहिनृपभीतिश्च पित्तरोगादिसम्भवम् ||२१||
प्रेतबाधा भृत्यनाशः सोदराणां विनाशनम् |
द्वितीयद्यूननाथे तु ह्यपमृत्युज्वरादिकम् |
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ||२२||
कुजस्यान्तर्गते मन्दे स्वर्क्षे केन्द्रत्रिकोणगे |
मूलत्रिकोणकेन्द्रे वा तुङ्गांशे स्वांशगे सति ||२३||
लग्नाधिपतिना वापि शुभदृष्टियुतेऽसिते |
राज्यसौख्यं यशोवृद्धिः स्वग्रामे धान्यवृद्धिकृत् ||२४||
पुत्रपौत्रसमायुक्तो गृहे गोधनसंग्रहः |
स्ववारे राजसम्मानं स्वमासे पुत्रवृद्धिकृत् ||२५||
नीचादिक्षेत्रगे मन्दे तथाऽष्टव्ययराशिगे |
म्लेच्छवर्गप्रभुभयं धनधन्यादिनाशनम् ||२६||
निगडे बन्धनं व्याधिरन्ते क्षेत्रनाशकृत् |
द्वितीयद्यूननाथे तु पापयुक्ते महद्भयम् ||२७||
धननाशश्च सञ्चारे राजद्वेषो मनोव्यथा |
चौराग्निनृपपीडा च सहोदरविनाशनम् ||२८||
बन्धुद्वेषः प्रमाद्यैश्च जीवहानिश्च जायते |
अकस्माच्च मृतेर्भीतिः पुत्रदारादिपीडनम् ||२९||
कारागृहादिभीदिश्च राजदण्डो महद्भयम् |
दायेशात्केन्द्रराशिस्थे लाभस्थे वा त्रिकोणगे ||३०||
विदेशयानं लभते दुष्कीर्तिर्विविधा तथा |
पापकर्मरतो नित्यं बहुजीवादिहिंसकः ||३१||
विक्रयः क्षेत्रहानिश्च स्थानभ्रंशो मनोव्यथा |
रणे पराजयश्चैव मूत्रकृर्च्छान्महद्भयम् ||३२||
दायेशादथ रन्ध्रे वा व्यये वा पापसंयुते |
तद्भुक्तौ मरणं ज्ञेयं नृपचौरादिपीडनम् ||३३||
वातपीडा च शूलादिज्ञातिश्त्रुभयं भवेत् ||३४||
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् |
ततः सुखमवाप्नोति शङ्करस्य प्रसादतः ||३५||
कुजस्यान्तर्गते सौम्ये लग्नात्केन्द्रत्रिकोणगे |
सत्कथाश्चाऽजपादानं धर्मबुद्धिर्महद्यशः ||३६||
नीतिमार्गप्रसङ्गश्च नित्यं मिष्टान्नभोजनम् |
वाहनाम्बरपश्वादिर्राजकर्म सुखानि च ||३७||
कृषिकर्मफले सिद्धिर्वारणाम्बरभूषणम् |
नीचे वास्तङ्गते वापि षष्ठाष्टव्ययगेऽपि वा ||३८||
हृद्रोगं मानहानिश्च निगडं बन्धुनाशनम् |
दारपुत्रार्थनाशः स्याच्चतुष्पाज्जीवनाशनम् ||३९||
दशाधिपेन संयुक्ते शत्रुवृद्धिर्महद्भयम् |
विदेशगमनं चैव नानारोगास्तथैव च ||४०||
राजद्वारे विरोधश्च कलहः स्वजनैरपि |
दायेशात्केन्द्रत्रिकोणे वा स्वोच्चे युक्तार्थलाभकृत् ||४१||
अनेकधननाथत्वं राजसम्मनमेव च |
भूपालयोगं कुरुते धनम्बरविभूषणम् ||४२||
भूरवाद्यमृदंगादि सेनापत्यं महत्सुखम् |
विद्याविनोदविमला वस्त्रवाहनभूषणम् ||४३||
दारपुत्रादिविभवं गृहे लक्ष्मीः कटाक्षकृत् |
दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ||४४||
तद्दाये मानोहानिः स्यात्क्रूरबुद्धिस्तु क्रूरवाक् |
चौराग्निनृपपीडा च मार्गे दस्युभयादिकम् ||४५||
अकस्मात्कलहश्चैव बुधमुक्तौ न संशयः |
द्वितीयद्यूननाथे तु महाव्याधिर्भयङ्करः ||४६||
अश्वदानं प्रकुर्वीत विष्णोर्नामसहस्रकम् |
सर्वसम्पत्प्रदं विप्र सर्वारिष्टप्रशान्तये ||४७||
कुजस्यान्तर्गते केतौ त्रिकोणे केन्द्रगेऽपि वा |
दिश्चिक्ये लाभगे वाऽपि शुभयुक्ते शुभेक्षिते ||४८||
राजानुग्रहशान्तिश्च बहुसौख्यं धनागमः |
किञ्चित्फलं दशादौ तु भूलाभः पुत्रलाभकृत् ||४९||
राजसंलाभकार्याणि चतुष्पाज्जीवलाभकृत् |
योगकारकसंस्थाने बलवीर्यसमन्विते ||५०||
पुत्रलाभो यशोवृद्धिर्गृहे लक्ष्मीः कटाक्षकृत् |
भृत्यवर्गधनप्राप्तिः सेनापत्यं महत्सुखम् ||५१||
भूपालमित्रं कुरुते यागाम्बरादिभूषणम् |
दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ||५२||
कलहो दन्तरोगश्च चौरव्याघ्रादिपीडनम् |
ज्वरातिसारकुष्ठादिदारपुत्रादिपीडनम् ||५३||
कुजस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे |
स्वोच्चे वा स्वर्क्षगे वाऽपिशुभस्थानाधिपेऽथवा ||५५||
राज्यलाभो महत्सौख्यं गजाश्वाम्बरभूषणम् |
लग्नाधिपेन सम्बन्धे पुत्रदारादिवर्धनम् ||५६||
आयुषो वृद्धिरैश्वर्यं भाग्यवृद्धिसुखं भवेत् |
दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ||५७||
तत्काले श्रियमाप्नोति पुत्रलाभं महत्सुखम् |
स्वप्रभोश्च महत्सौख्यं धनवस्त्रादिलाभकृत् ||५८||
महारजप्रसादेन ग्रामभूम्यादिलाभदम् |
भुक्त्यन्ते फलमाप्नोति गीतनृत्यादिलाभकृत् ||५९||
पुण्यतीर्थस्नानलाभं कर्माधिपसमन्विते |
पुण्यधर्मदयाकूपतडागं कारयिष्यति ||६०||
दायेशाद्रन्ध्ररिष्फस्थे षष्ठे वा पापसंयुते |
करोति दुःखबाहुल्यं देहपीडां धनक्षयं ||६१||
राजचौरादिभीतिञ्च गृहे कलहमेव च |
दारपुत्रादिपीडां च गोमहिष्यादिनाशकृत् ||६२||
द्वितीयद्यूननाथे तु देहबाधा भविष्यति |
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ||६३||
कुजस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे |
मूलत्रिकोणलाभे वा भाग्यकर्मेशसंयुते ||६४||
तद्भुक्तौ वाहनं कीर्तिं पुत्रलाभं च विन्दति |
धनधान्यसमृद्धिः स्याद् गृहे कल्याणसम्पदः ||६५||
क्षेमारोग्यं महद्धैर्यं राजपूज्यं महत्सुखम् |
व्यवसायात्फलाधिक्यं विदेशे राजदर्शनम् ||६६||
दायेशात्षष्ठरिष्फे वा व्यये वा पापसंयुते |
देहपीडा मनस्तापः कार्यहानिर्महद्भयम् ||६७||
शिरोरोगो ज्वरादिश्च अतिसारमथापि वा |
द्वितीयद्यूननाथे तु सर्पज्वरविषाद्भयम् ||६८||
सुतपीडाभयं चैव शान्ति कुर्याद्यथाविधि |
देहारोग्यं प्रकुरुते धनधान्यचयं तथा ||६९||
कुजस्यान्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे |
भार्यवाहनकर्मेशलग्नाधिपसमन्विते ||७०||
करोति विपुलं राज्यं गन्धमाल्याम्बरादिकम् |
तडागं गोपुरादीनां पुण्यधर्मादिसंग्रहम् ||७१||
विवाहोत्सवकर्माणि दारपुत्रादिसौख्यकृत् |
पितृमातृसुखावाप्तिं गृहे लक्ष्मीः कटाक्षकृत् ||७२||
महारजप्रसादेन स्वेष्टसिद्धिसुखादिकम् |
पूर्णे चन्द्रे पूर्णफलं क्षीणे स्वल्पफल्ं भवेत् ||७३||
नीचारिस्थऽष्टमे षष्ठे दायेशाद्रिपुरन्ध्रके |
मरणं दारपुत्राणां कष्टं भूमिविनाशनम् ||७४||
पशुधान्यक्षयश्चैव चौरादिरणभीतिकृत् |
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ||७५||
देहजाड्यं मनोदुःखं दुर्गा लक्ष्मीजपं चरेत् |
श्वेतां गां महिषीं दद्यादनेमारोग्यमादिशेत् ||७६||
-
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 54 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AB%E0%A5%AA_(%E0%A4%95%E0%A5%81%E0%A4%9C%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85841