बृहत्पाराशरहोराशास्त्रम् 53.53
अथ चन्द्रान्तर्दशाफलाध्यायः ||५३||
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
स्रोत में दोहराए श्लोक क्रमांक मिले; पहली प्रति रखी गई।
अथ चन्द्रान्तर्दशाफलाध्यायः ||५३||
स्वोच्चे स्वक्षेत्रगे चन्द्रे त्रिकोणे लाभगेऽपि वा |
भाग्यकर्माधिपैर्युक्ते गजाश्वाम्बरसंकुलम् ||१||
देवतागुरुभक्तिश्च पुण्यश्लोकादिकीर्तनम् |
राज्यलाभो महत्सौख्यं यशोवृद्धिः सुखावहा ||२||
पूर्णे चन्द्रे बलं पूर्णं सेनापत्यं महत्सुखम् |
पापयुक्तेऽथवा चन्द्रे नीचे वा रिष्फषष्ठगे ||३||
अतकाले धननाशः स्यात्स्थानच्युतिरथापि वा |
देहलस्यं मनस्तपो राजमन्त्रिविरोधकृत् ||४||
मातृक्लेशो मनोदुःखं निगडं बन्धुनाशनम् |
द्वितीयद्यूननाथे तु रन्ध्ररिष्फेशसंयुते ||५||
देहजाड्यं महाभङ्गमपमृत्योभयं वदेत् |
श्वेतां गां महिषीं दद्यात् स्वदशान्तर्गते विधौ ||६||
चन्द्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे |
सौभाग्यं राजसन्मानं वस्त्रभरणभूषणम् ||७||
यत्नात् कार्यार्थसिद्धिस्तु भविष्यति न सम्शयः |
गृहक्षेत्राभिवृद्धिश्च व्यवहारे जयो भवेत् ||८||
कार्यलाभो महत्सौख्यं स्वोच्चे स्वक्षेत्रगे फलम् |
तथाऽष्टमव्यये भौमे पापयुक्तेऽथ वा यदि ||९||
दायशादशुभस्थाने देहार्तिः परवीक्षिते |
गृहक्षेत्रादिहानिश्च व्यवहारे तथा क्षतिः ||१०||
मृत्युवर्गेषु कलहो भूपालस्य विरोधनम् |
आत्मबन्धुवियोगश्च नित्यं निष्ठुरभाषणम् ||११||
द्वितीये द्यूननाथे तु रन्ध्रे रन्ध्राधिपो यदा |
तत्तोषपरिहारार्थं ब्राह्मणस्याऽर्चनं चरेत् ||१२||
चन्द्रस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे |
आदौ स्वल्फलं ज्ञेयं शत्रुपीडा महद्भयम् ||१३||
चौराहिराजभीतिश्च चतुष्पाज्जिवपीडनम् |
बन्धुनाशो मित्रहानिर्मानहानिर्मनोव्यथा ||१४||
शुभयुक्ते शुभैर्दृष्टे लग्नादुपचयेऽपि वा |
योगकारकसम्बन्धे सर्वकार्यार्थसिद्धिकृत् ||१५||
नैरृत्ये पश्चिमे भावे क्वचित्प्रभुसमागमः |
वाहनामबरलाभश्च स्वेष्टकार्यार्थसिद्धिकृत् ||१६||
दायेशादथ रन्ध्रथे व्यये वा बलवर्जिते |
स्थानभ्रंशो मनोदुखं पुत्रक्लेशो महद्भयम् ||१७||
दारपीडा क्वचिज्ज्ञेया क्वचित्स्वाङ्गे रुजोभयम् |
वृश्चिकादिविषाद्भीतिश्चौराहिनृपपीडनम् ||१८||
दायेशात्केन्द्रकोणे व दुश्चिक्ये लाभगेऽपि वा |
पुण्यतीर्थफलावाप्तिर्देवतादर्शनं महत् ||१९||
परोपकारकर्मादिपुण्यकर्मादिसंप्रहः |
द्वितीयद्यूनराशिअथे देहबाधा भविष्यति ||२०||
तद्दोषपरिहारार्थं रुद्रजाप्यं समाचरेत् |
छागदानं प्रकुर्वीत देहारोग्यं प्रजायते ||२१||
चन्द्रस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे |
स्वगेहे लाभगे स्वोच्चे राज्यलाभो महोत्सवः ||२२||
वस्त्राऽलङ्कारभूषाप्ती राजप्रीतिर्धनागमः |
इष्टदेवप्रसादेन गर्भाधानादिकं फलम् ||२३||
तथा शोभनकार्याणि गृहे लक्ष्मीः कटाक्षकृत् |
राजाश्रयं धनं भूमिगजवाजिसमन्वितम् ||२४||
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा |
ष.ष्ठाष्टमव्यये जीवे नीच वास्तङ्गते यदि ||२५||
पापयुक्तेऽशुभं कर्म गुरुपुत्रादिनाशनम् |
स्थानभ्रंशो मनोदुःखमकस्मात्कलहो ध्रुवम् ||२६||
गृहक्षेत्रादिनाशश्च वाहनाम्बरनाशनम् |
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ||२७||
भोजनाम्बरपरवादि=लाभं सौख्यं करोति च |
ब्र्हात्रादिसुखसम्पत्तिं धैर्यं वीर्यपराक्रमम् ||२८||
यज्ञव्रतविवाहादिराज्यश्रीधनसम्पदः |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ||२९||
करोति कुत्सिनान्नं च विदेशगमनं तथा |
भुक्त्यादौ शोभनं प्रोक्तमन्ते क्लेशकरं भवेत् ||३०||
द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति |
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् |
स्वर्णदानमिति प्रोक्तं सर्वकष्टनिवारकम् ||३१||
चन्द्रस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे |
स्वक्षेत्रे स्वांशगे चैव मन्दे तुङ्गांशसंयुते ||३२||
शुभदृष्टयुते वाऽपि लाभे वा बलसंयुते |
पुत्रमित्रार्थसम्पत्तिः शूद्रप्रभुसमागमात् ||३३||
व्ययसायात्फलाधिक्यं गृहे क्षेत्रादिवृद्धिदम् |
पुत्रलाभश्च कल्याणं राजानुग्रहवैभवम् ||३४||
षष्ठाष्टमव्यये मन्दे नीचे वा धनगेऽपि वा |
तद्भुक्त्यादौ पुण्यतीर्थे स्नानं चैव तु दर्शनम् ||३५||
अनेकजनत्रासश्च शस्त्रपीडा भविष्यति |
दायेशात्केन्द्रराशिस्थे त्रिकोणे बलगेऽपि वा ||३६||
क्वचित्सौख्यं धनाप्तिश्च दारपुत्रविरोधकृत् |
द्वितीयद्यूनरन्ध्रस्थे देहबाधा भविष्यति ||३७||
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् |
कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ||३८||
चन्द्रस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे |
स्वर्क्षे निजांशके सौम्ये तुङ्गे वा बलसंयुते ||३९||
धनागमो राजमानप्रियवस्त्रादिलाभकृत् |
विद्याविनोदसद्गोष्ठी ज्ञानवृद्धिः सुखावहा ||४०||
सन्तानप्राप्तिः सन्तोषो वाणिज्याद्धनलाभ्कृत् |
वाहनच्छत्रसंयुक्तनानालङ्कारलाभकृत् ||४१||
दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा |
विवाहो यज्ञदीक्षा च दानधर्मशुभादिकम् ||४२||
राजप्रीतिकरश्चैव विद्वज्जनसमागमः |
मुक्तामणिप्रवालानि वाहनाम्बरभूषणम् ||४३||
आरोग्यप्रीतिसौख्यं च सोमपानादिकं सुखम् |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा नीचगेऽपि वा ||४४||
तद्भुक्तौ देहबाधा च कृर्षिगोभूमिनाशनम् |
कारागृहप्रवेशाश्च दारपुत्रादिपीडनम् ||४५||
द्वितीयद्यूननाथे तु ज्वरपीडा महद्भयम् |
छागदानं प्रकुर्वीत विष्णुसाहस्रकं जपेत् ||४६||
चन्द्रस्यान्तर्गते केतौ केन्द्रलाभत्रिकोणगे |
दुश्चिक्ये बलसंयुक्ते धनलाभं महत्सुखम् ||४७||
पुत्रदारादिसौख्यं च विधिकर्म करोति च |
भुक्त्यादौ धनहानिः स्यान्मध्यगे सुखमाप्नुयात् ||४८||
दायेशात्केन्द्रलाभे वा त्रिकोणे बलसंयुते |
क्वचित्फलं दशादौ तु दद्यात् सौख्यं धनागमम् ||४९||
गोमहिष्यादिलाभं च भुक्त्यन्ते चार्थनाशनम् |
पापयुक्तेऽथवा दृष्टे दायेशाद्रन्ध्ररिःफगे ||५०||
शत्रुतः कार्यहानिः स्यादकस्मात्कलहो ध्रुवम् |
द्वितीयद्यूनराशिस्त्य्हे ह्यनारोग्यं महद्भयम् ||५१||
मृत्युञ्जयजपं कुर्यात् सर्वसम्पत्प्रदायकम् |
ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ||५२||
महाराजप्रसादेन वाहनाम्बरभूषणम् |
चतुष्पाज्जिवलाभः स्याद्दारपुत्रादिवर्धनम् ||५४||
नूतनागारनिर्माणं नित्यं मिष्ठान्नभोजनं |
सुगन्धपुष्पमाल्यादिरम्यस्त्र्यारोग्यसम्पदम् ||५५||
दशाधिपेन संयुक्ते देहसौख्यं महत्सुखम् |
सत्कीर्तिसुखसम्पत्तिगृहक्षेत्रादिवृद्धिकृत् ||५६||
नीचे वाऽस्तङ्गते शुक्रे पापग्रहयुतेक्षिते |
भूनाशः पुत्रमित्रादिनाशनं पत्निनाशनम् ||५७||
चतुष्पाज्जिवहानिः स्याद्राजद्वारे विरोधकृत् |
धनस्थानगते शुक्रे स्वच्चे स्वक्षेत्रसंयुते ||५८||
निधिलाभं महत्सौख्यं भू लाभं पुत्रसम्भवम् |
भाग्यलाभादिपैर्युक्ते भाग्यवृद्धिः करोत्यसौ ||५९||
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा |
देवब्राह्मणभक्तिश्च मुक्तविद्रुमलाभकृत् ||६०||
दायशाल्लाभगे शुक्रे त्रिकोणे केन्द्रगेऽपि वा |
गृहक्षेत्राभिवृद्धिश्च वित्तलाभो महत्सुखम् ||६१||
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते |
विदेशवासदुःखार्तिमृत्युचौरादिपीडनम् ||६२||
द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् |
तद्दोषविनिवृत्त्यर्थं रुद्रजाप्यं च कारयेत् ||६३||
श्वेतां गां रजतं दद्याच्छन्तिमाप्नोत्यसंशयः |
शङ्करस्य प्रसादेन नाऽत्र कार्या विचारणा ||६४||
चन्द्रस्यान्तर्गते भानौ स्वोच्चे स्वक्षेत्रसंयुते |
केन्द्रे त्रिकोणे लाभे वा धने वा सोदरालये ||६५||
नष्टराज्यधनप्राप्तिर्गृहे कल्याणशोभनम् |
मित्रराजप्रसादेन ग्रामभूम्यादिलाभ्कृत् ||६६||
गर्भाधानफलप्राप्तिर्गृहे लक्ष्मीः कटाक्षकृत् |
भुक्त्यन्ते देह आलस्यं ज्वरपीडा भविष्यति ||६७||
दायेशादपि रन्ध्रस्थे व्यये वा पापसंयुते |
नृपचौराहिभीतिश्च ज्वररोगादिसम्भवः ||६८||
विदेशगमने चार्ति लभते न संशयः |
द्वितीयद्यूननाथे तु ज्वरपीडा भविष्यति ||६९||
तद्दोषपरिहारार्थं शिवपूजां च कारयेत् |
ततः शान्तिभवाप्नोति शाङ्करस्य प्रसादतः ||७०||
-
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 53 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AB%E0%A5%A9_(%E0%A4%9A%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85839