बृहत्पाराशरहोराशास्त्रम् 48.48
अथ विशेषनक्षत्रदशाफलाध्यायः ||४८||
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ विशेषनक्षत्रदशाफलाध्यायः ||४८||
स्थानस्थितिवशेनैवं फलं प्रोक्तं पुरातनैः |
मिथो भावेशसम्बन्धात्फलानि कथयाम्यहम् ||१||
लग्नेशस्य गशाकाले सत्कीतिर्देहजं सुखम् |
धनेशस्य दशायां तु क्लेशो वा मृत्युतो भयम् ||२||
सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् |
सुखाधीशदशायां तु गृहभूमिसुखं भवेत् ||३||
पञ्चमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् |
रोगेशस्य दशाकाले देहपीडा रिपोर्भयम् ||४||
सप्तमेशस्य पाके तु स्त्रीपीडा मृत्युतो भयम् |
अष्टमेशदशाकाले मृत्युभीतिर्धनक्षतिः ||५||
धर्मशस्य दशायां च भूरिल्लाभो यशःसुखम् |
दशमेशदशाकाले सम्मानं नृपसंसदि ||६||
लाभेशस्य दशाकाले लाभे बाधा रुजोभयम् |
व्ययेशस्य दशा नृणां बहुकष्टप्रदा द्विज ||७||
दशारम्भे शुभस्थाने स्थितस्यापि शुभं फलम् |
अशुभस्थानगस्यैवं शुभस्यापि न शोभनम् ||८||
पञ्चमेशेन युक्तस्य कर्मेशस्य दशा शुभा |
नवमेशेन युक्तस्य कर्मेशस्यातिशभना ||९||
पञ्चमेशेन युक्तस्य ग्रहस्यापि दशा शुभा |
तथा धर्मपयुक्तस्य दशा परमशोभना ||१०||
सुखेशसहितस्यापि धर्मेशस्य दशा शुभा |
पञ्चमस्थानगस्यापि मानेशस्य दशाशुभा ||११||
एवं त्रिकोणनाथानां केन्द्रस्थानां दशाः शुभाः |
तथा कोणस्थितानां च केन्द्रेशानां दशाः शुभाः ||१२||
केन्द्रेशः कोणभावस्थः कोणेशः केन्द्रगो यदि |
तयोर्दशां शुभां प्राहुर्ज्योतिःशास्त्रविदो जनाः ||१३||
षष्ठाष्टमव्ययाधीशा अपि कोणेशसंयुता |
तेषां दशाऽपि शुभदा कथिता कालकोविदैः ||१४||
कोणेशो यदि केम्द्रस्थः केन्द्रेशो यदि कोणगः |
ताभ्यां युक्तस्य खेटस्य दृष्टियुक्तस्य चैतयोः ||१५||
दशां शुभप्रदां प्राहुर्विद्वांसो दैवचिन्तकाः |
लग्नेशो धर्मभावस्थो धर्मेशो लग्नगो यदि ||१६||
एतयोस्तु दशाकाले सुखधर्मसमुद्भवः |
कर्मेशो लग्नराशिस्थो लग्नेशः कर्मभावगः ||१७||
तयोर्दशाविपाके तु राज्यलाभो भवेद्ध्रुवम् |
त्रिषडायगतानां च त्रिषडायाधिपैर्युजम् ||१८||
शुभानामपि खेटानां दशा पापफलप्रदा |
मारकस्थानगानां च मारकेशयुजामपि ||१९||
रन्ध्रस्थानगतानां च दशाऽनिष्टफलप्रदा |
एवं भावेशसम्बन्धादूरनीयं दशाफलम् ||२०||
-
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 48 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AA%E0%A5%AE_(%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%87%E0%A4%B7%E0%A4%A8%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85831