बृहत्पाराशरहोराशास्त्रम् 91.91
अथ ग्रहणजातशान्त्यध्यायः ॥ ९१॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ ग्रहणजातशान्त्यध्यायः ॥ ९१॥
सूर्येन्दुग्रहणे काले येषां जन्म भवेद् द्विज ।
व्याधिः कष्टं च दारिद्र्यं तेषां मृत्युभयं भवेत् ॥ १॥
अतः शान्तिं प्रवक्ष्यामि जनानां हितकाङ्क्षया ।
सूर्यस्येन्दोश्च ग्रहेणं यस्मिनृक्षे प्रजायते ॥ २॥
तन्नक्षत्रपते रूपं सुवर्णेन प्रकल्पयेत् ।
सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः ॥ ३॥
चन्द्रग्रहे चन्द्ररूपं रजतेन तथैव च ।
राहुरूपं प्रकुर्वीत सीसकेन विचक्षणः ॥ ४॥
शुचौ देशे समं स्थानं गोमयेन प्रलेपयेत् ।
तत्र च स्थापयेद् वस्त्रं नूतनं सुमनोहरम् ॥ ५॥
त्रयाणामेव रूपाणां स्थापनं तत्र कारयेत् ।
सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरं च यत् ॥ ६॥
रक्ताक्षतं रक्तगन्धं रक्तमाल्याम्बरादिकम् ।
चन्द्रग्रहे प्रदातव्यं चन्द्रप्रीतिकरं च यत् ॥ ७॥
श्वेतगन्धं श्वेतपुष्पं श्वेतमाल्याम्बरादिकम् ।
राहवे च प्रदातव्यं कृष्णपुष्पाम्बरादिकम् ॥ ८॥
दद्यान्नक्षत्रनाथाय श्वेतगन्धादिकं तथा ।
सूर्यं सम्पूजयेद्धीमानाकृष्णेति च मन्त्रतः ॥ ९॥
अथा चन्द्रं इमे देवा इति मन्त्रेण भक्तितः ।
दूर्वाभि पूजयेद्राहुं कया न इति मन्त्रतः ॥ १०॥
सूर्येन्द्वोरर्कपालाशमिद्भिर्जुहुयात् क्रमात् ।
तथा च राहोः प्रीत्यर्थं दूर्वाभिर्द्विजसत्तम ॥ ११॥
ब्रह्मवृक्षसमिद्भिश्च भेशाय जुहुयात् पुनः ।
अभिषेकं ततः कुर्यात् जातस्य कलहोदकैः ॥ १२॥
आचार्यं पूजयेद्भक्त्या सुशान्तो विजितेन्द्रियः ।
ब्राह्मणान् भोजयेत्वा तु यथाशक्ति विसर्जयेत् ॥ १३॥
एवं ग्रहणजातस्य शान्तिं कृत्वा विधानतः ।
सर्वविघ्नं विनिर्जित्वा सौभाग्यं लभते नरः ॥ १४॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 91 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AF%E0%A5%A7_(%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%A3%E0%A4%9C%E0%A4%BE%E0%A4%A4%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85911