बृहत्पाराशरहोराशास्त्रम् 90.90
अथ संक्रान्तिजन्मशान्त्यध्यायः ॥ ९०॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ संक्रान्तिजन्मशान्त्यध्यायः ॥ ९०॥
घोराध्वांक्षीमहोदर्यो मन्दा मन्दाकिनी तथा ।
मिश्रा च राक्षसी सूर्यसंक्रान्तिः सूर्यवासरात् ॥ १॥
संक्रान्तौ च नरो जातो भवेद् दारिद्र्य दुःखभाक् ।
शान्त्या सुखमवाप्नोति ततः शान्तिविधि ब्रुवे ॥ २॥
नवग्रहमखं कुर्यात् तस्य दोषोपशान्तये ।
गृहस्य पूर्वदिग्भागे गोमयेनोपलिप्य च ॥ ३॥
स्वलंकृतप्रदेशे तु ब्रीहिराशिं प्रकल्पयेत् ।
पञ्चद्रोणमितं धान्यैस्तदर्धं तण्डुलैस्तथा ॥ ४॥
तदर्धं च तिलैः कुर्याद्राशिं च द्विजसत्तम ।
पृथक् त्रितयराशौ तु लिखेदष्टदलं बुधैः ॥ ५॥
पुण्याहं वाचयित्वा तु आचार्यं वृणुयात् पुरा ।
धर्मज्ञं मन्त्रतत्त्वज्ञं शान्तिकर्मणि कोविदम् ॥ ६॥
राशिषु स्थापयेत् कुम्भानव्रणान् सुमनोहरान् ।
तीर्थोदकेन सम्पूर्य समृदौषधपल्लवम् ॥ ७॥
पंचगव्यं क्षिपेत्तत्र वस्त्रयुग्मेन वेष्टयेत् ।
कुम्भोपरि न्यसेत् पात्रं सूक्ष्मवस्त्रेण वेष्टितम् ॥ ८॥
प्रतिमां स्थापयेत् तत्र साधिप्रत्यधिदैवताम् ।
अधिदैवं भवेत् सूर्यश्चन्द्रः प्रत्यधिदैवतम् ॥ ९॥
चन्द्रादित्याकृती पार्श्वे मध्ये संक्रान्तिमर्चयेत् ।
प्रतिमां पूजने पूर्वं वस्त्रयुग्मं निवेदयेत् ॥ १०॥
ततो व्याहृतिपूर्र्वेण तत्तन्मन्त्रेण पूजयेत् ।
त्रैयम्बकेण मन्त्रेण प्रधानप्रतिभां पूजयेत् ॥ ११॥
उत्सूर्य इति मन्त्रेण सूर्यपूजां समाचरेत् ।
आप्यायस्वेति मन्त्रेण चन्द्रपूजां समाचरेत् ॥ १२॥
उपचारैः षोडशभिर्यद्वा पञ्चोपचारकैः ।
मृत्युंजयन मन्त्रेण प्रधानप्रतिमां स्पृशन् ॥ १३॥
अष्टोत्तरसहस्रं चाऽप्यष्टोत्तरशतं जपेत् ।
अथाऽष्टाविंशतिं वापि जपेन्मन्त्रं स्वशक्तितः ॥ १४॥
कुम्भेभ्यः पश्चिमे देशे स्थण्डिलेऽग्निं प्रकल्पयेत् ।
स्वगृह्योक्तविधानेन कारयेत् संस्कृतानलम् ॥ १५॥
त्रयम्बकेन मन्त्रेण समिदाज्यचरून् हुनेत् ।
अष्टोत्तरसहस्रं वा अष्टोत्तरशतं यथा ॥ १६॥
अष्टविंशतिमेवापि कुर्याद् होमं स्वशक्तितः ।
मृत्युंजयेन मन्त्रेण तिलहोमश्च कारयेत् ॥ १७॥
ततः स्विष्टकृतं हुत्वाअभिषेकं च कारयेत् ।
ब्रह्मणान् भोजयेत् पश्चादेवं शान्तिमवाप्नुयात् ॥ १८॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 90 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AF%E0%A5%A6_(%E0%A4%B8%E0%A4%82%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%AE%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85909