बृहत्पाराशरहोराशास्त्रम् 82.82
अथ तिलादिलांछनफलाध्यायः ॥ ८२॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ तिलादिलांछनफलाध्यायः ॥ ८२॥
अथाऽहं देहजातानां लांछनानां फलं ब्रुवे ।
आवर्तानां तिलानां च मशकानां विशेषतः ॥ १॥
अङ्गनानां च वामांगे दक्षिणाङ्गे नृणां शुभम् ।
रक्ताभं तिलकाभं वा लोम्नां चक्रमथापि वा ॥ २॥
तिलादिलांछनं स्त्रीणां हृदि सौभाग्यसूचकम् ।
यस्या दक्षिणवक्षोजे रक्ते तिलकलांछने ॥ ३॥
सा सन्ततिततिं सूते सुखसौभाग्यसंयुताम् ।
रक्ताभं तिलकं यस्याः स्त्रिया वामे स्तने भवेत् ॥ ४॥
एक एव सुतस्तस्या भवतीत विदो विदुः ।
पुत्रीपुत्रयुता ज्ञेया तिलके दक्षिणे स्तने ॥ ५॥
भ्रुवोर्मध्ये ललाटे वा लांछनं राजसूचकम् ।
कपोले मशको रक्तो नित्यं मिष्ठान्नदायकं ॥ ६॥
भगस्य दक्षिणे भागे लांछनं यदि योषितः ।
सा हि पृथ्वीपतेः पत्नी सूते वा भूपतिं सुतम् ॥ ७॥
नासाग्रे लाञ्छने रक्तं राजपत्न्याः प्रजायते ।
कृष्णवर्णं तु यस्याः सा पुंश्चलि विधवाऽथ वा ॥ ८॥
नाभेरधो नृणां स्त्रीणां लाञ्छनं च शुभप्रदम् ।
कर्णे गण्डे करे वाऽपि कण्ठे वाऽप्यथ लाञ्छनं ॥ ९॥
प्राग्गर्भे पुत्रदं ज्ञेयं सुखसौभाग्यदं तथा ।
तिलादि लाञ्छनं विप्र गुल्फगेशे च दुःखदम् ॥ १०॥
त्रिशूलाकृति चिह्न च ललाटे यदि जायते ।
नारी राजप्रिया ज्ञेया भूपतिश्च नरो भवेत् ॥ ११॥
लोम्नां प्रदक्षिणावर्तो हृदि नाभौ करे श्रुतौ ।
दक्षपृष्ठे शुभो वस्तौ वामावर्तोऽशुभप्रदः ॥ १२॥
कट्यां गुह्येऽथवाऽवर्तो स्त्रीणां दौर्भाग्यसूचकः ।
उदरे हन्ति भर्तारं मध्यपृष्ठे च पुंश्चली ॥ १३॥
कण्ठे ललाटे सीमन्ते मध्यभागे च मूर्धनि ।
आवर्तो न शुभः स्त्रीणां पुसां वाऽपि द्विजोत्तम ॥ १४॥
सुलक्षणा सुचरिता अपि मन्दायुषं पतिम् ।
दीर्घायुषं प्रकुर्वन्ति प्रमदाश्च मुदास्पदम् ॥ १५॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 82 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AE%E0%A5%A8_(%E0%A4%A4%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%B2%E0%A4%BE%E0%A4%82%E0%A4%9B%E0%A4%A8%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85892