बृहत्पाराशरहोराशास्त्रम् 72.72
अथ समुदायाष्टकवर्गाध्यायः ॥ ७२॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ समुदायाष्टकवर्गाध्यायः ॥ ७२॥
द्वादशारं लिखेच्चकं जन्मलग्नादिभैर्युतम् ।
सर्वाष्टकफलान्यत्र संयोज्य प्रतिभं न्यसेत् ॥ १॥
समुदायाभिधानोऽयमष्टवर्गः प्रकथ्यते ।
अतः फलानि जातानां विज्ञेयानि द्विजोत्तम ॥ २॥
त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः ।
पञ्चविंशादित्रिंशान्तफला मध्यफला स्मृताः ॥ ३॥
अतः क्षीणफला ये ते राशयः कष्टदुःखदा ।
शुभे श्रेष्ठफलान् राशीन् योजयेन्मतिमान्नरः ॥ ४॥
कष्टराशीन् सुकार्येषु वर्जयेद् द्विजसत्तम ।
श्रेष्ठराशिगतः खेटः शुभोऽन्यत्राऽशुभप्रदः ॥ ५॥
तन्वादिव्ययपर्यन्तं दृष्ट्वा भाव्फलानि वै ।
अधिके शोभनं ज्ञेयं हीने हानिं विनिर्दिशेत् ॥ ६॥
मध्ये मध्यफलं ब्रूयाद् तत्तद्भावसमुद्भवम् ।
मध्यात् फलाधिके लाभो लाभात् क्षीणगतोव्ययः ॥ ७॥
लग्नं फलाधिकं यस्य भोगवानर्थवान् हि सः ।
विपरीतेन दारिद्र्यं भवत्येव न संशयः ॥ ८॥
दशावदिह भावानां कृत्वा खंडत्रयं बुधः ।
पश्येत् पापसमारूढं खंडे कष्टकरं वदेत् ॥ ९॥
सौम्यैर्युक्तं शुभं ब्रूयान्मिश्रैर्मिश्रफलं यथा ।
क्रमाद् बाल्याद्यवस्थासु खंडत्रयफलं वदेत् ॥ १०॥
रेखाभिः सप्तभिर्युक्ते मासेमृत्युभयं नृणाम् ।
सुवर्णं विंशतिपलं दद्यात् द्वौ तिलपर्वतौ ॥ ११॥
रेखाभिरष्टभिर्युक्ते मासे मृत्युबशो नरः ।
असत्फलविनाशाय दद्यात् कर्पूरजां तुलाम् ॥ १२॥
रेखाभिर्मवभियुक्ते मासे सर्पभयं वदेत् ।
अश्वैश्चतुर्भिः संयुक्तं रथं दद्याच्छुभाप्तये ॥ १३॥
रेखाभिर्दशभिर्युक्ते मासे शस्त्रभयं तथा ।
दद्याच्छुभफलावाप्त्यै कवचं वज्रसंयुतम् ॥ १४॥
अभिशापभयं यत्र रेखा रुद्रसमा द्विज ।
दिक्पलस्वर्णघटितां प्रदद्यात् प्रतिमां विधोः ॥ १५॥
युक्ते द्वादशरेखाभिर्जले मृत्युभयं वदेत् ।
सशस्यभूमिः विप्राय दत्वा शुभफलं भवेत् ॥ १६॥
विश्वप्रमितरेखाभिर्व्याघ्रान्मृत्युभयं तथा ।
विष्णोर्हिरण्यगर्भस्य दानं कुर्याच्चुभाप्तये ॥ १७॥
शत्रप्रमितरेखाभिर्युक्ते मासे मृतेर्भयम् ।
वराहप्रतिमां दद्यात् कनकेन विनिर्मिताम् ॥ १८॥
तिथितिश्च नृपाद् भीतिर्दद्यात् तत्र गजं द्विज ।
रिष्टं षोडशभिर्दद्यात् मूर्तिं कल्पतरोस्तथा ॥ १९॥
सप्तेन्दुभिर्व्याधिभयं दद्यात् धेनुं गुडं तथा ।
कलहोऽष्टेन्दुभिर्दद्याद् रत्नगोभूरिरण्यकम् ॥ २०॥
अङ्केन्दुभिः प्रवासः स्याच्छान्तिं कुर्याद् विधानतः ।
विंशत्या बुद्धिनाशः स्याद् गणेशं तत्र पूजयेत् ॥ २१॥
रोगपीडैकविंशत्या दद्याद् धान्यस्य पर्वतम् ।
यमाश्विभिर्बन्धुपीडा दद्यादादर्शकं द्विज ॥ २२॥
त्रयोविंशत्रिसंयुक्ते मासे क्लेशमवाप्नुयात् ।
सौवर्णीं प्रतिमां दद्याद्रवेः सप्तपलैर्बुधः ॥ २३॥
वेदाश्विभिर्बन्धुहीनो दद्याद् गिदशकं नृपः ।
सर्वरोगविनाशार्थं जपहोमादिकं चरेत् ॥ २४॥
धीहानिः पञ्चविंशत्या पूज्या वागीश्वरी तदा ।
षड्विंशत्याऽर्थहानिः स्यात् स्वर्णं दद्याद्विचक्षणः ॥ २५॥
तथा च सप्तविंशत्या श्रीसुक्तं तत्र संजपेत् ।
अष्टविंशतिसंयुक्ते मासे मासे हानिश्च सर्वथा ॥ २६॥
सूर्यहोमश्च विधिना कर्त्तव्यः शुभकांक्षिभिः ।
एकोनत्रिंशता चापि चिन्तव्याकुलितो भवेत् ॥ २७॥
घृतवस्त्रसुवर्णानि तत्र दद्यात् विचक्षणः ।
त्रिंशता पूर्णधान्याप्तिरिति जातकनिर्णयः ॥ २८॥
त्रिंशाधिकामी रेखाभिर्धनपुत्रसुखाप्तयः ।
चत्वारिंशाधिकाभिश्च पुण्यश्रीरुपचीयते ॥ २९॥
अष्टवर्गेण ये शुद्धास्ते शुद्धाः सर्वकर्मसु ।
अतोऽष्टवर्गसंशुद्धिरनेष्या सर्वकर्मसु ॥ ३०॥
तावद्गोचरमन्वेष्यं यावन्न प्राप्यतेऽष्टकम् ।
अष्टवर्गे तु सम्प्राप्ते गोचरं विफलं भवेत् ॥ ३१॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 72 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD%E0%A5%A8_(%E0%A4%B8%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A4%BE%E0%A4%AF%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85871