बृहत्पाराशरहोराशास्त्रम् 73.73
अथ रश्मिफलाध्यायः ॥ ७३॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ रश्मिफलाध्यायः ॥ ७३॥
अथ रश्मीन् प्रवक्ष्यामि ग्रहाणां द्विजसत्तम ।
दिन् नवेष्विषुसप्ताष्टशराः स्वोच्चे करो रवेः ॥ १॥
नीच खं चान्तरे प्रोक्ता रश्मयश्चानुपात्तः ।
नीचोनं तु ग्रहं भार्धाधिकं चक्राद्विशोधयेत् ॥ २॥
स्वीयरश्मिहतं षड्भिर्भजेत् स्यू रश्मयः स्वकाः ।
अपरैरत्र संस्कारविशेषः कथितो यथा ॥ ३॥
स्वोच्चभे ते त्रिगुणिताः स्वत्रिकोणे द्विसंगुणाः ।
स्वमे त्रिघ्ना द्विसंभक्ता अधिमित्रगृहे तथा ॥ ४॥
वेदघ्ना रामसंभक्ता मित्रमे षड्गुणास्ततः ।
पञ्चभक्तास्तथा शत्रुगृहे चेद् दलिताः कराः ॥ ५॥
अधिशत्रुगृहे द्विघ्नाः पञ्चभक्ताः समे समाः ।
शनिशुक्रौ विना ताराग्रहा अस्ते गता यदि ॥ ६॥
विरश्मयो भवन्त्येवं ज्ञेयाः स्पष्टकरा द्विज ।
रश्मियोगवशादेवं फलं वाच्यं विचक्षणैः ॥ ७॥
एकादि पञ्चपर्यन्तं रश्मिसंख्या भवेद्यदि ।
दरिद्रा दुःखसंतप्ता अपि जाताः कुलोत्तमे ॥ ८॥
परतो दशकं यावत् निर्धना भारवासकाः ।
स्त्रीपुत्रगृहहीनाश्च जायन्ते मनुजा भुवि ॥ ९॥
अकादशस्वल्पपुत्राः स्वल्पवित्ताश्च मानवाः ।
द्वादशस्वल्पवित्ताश्च धूर्ता मूर्खाश्च निर्बलाः ॥ १०॥
चौर्यकर्मरता नित्यं चेत् त्रयोदश रश्मयः ।
चतुर्दशसु धर्मात्मा कुटुम्बानां च पोषकाः ॥ ११॥
कुलोचितक्रियासक्तो धनविद्यासमन्वितः ।
रश्मिभिः पञ्चदशभिः सर्वविद्यागुणान्वितः ॥ १२॥
स्ववंशमुख्यो धनवानित्याह भगवान् विधिः ।
परतश्च कुलेशाना बहुभृत्या कुटुम्बिनः ॥ १३॥
कीर्तिमन्तो जनैः पूर्णाः सर्वे च सुखिनः क्रमात् ।
पञ्चाशज्जनपालश्चेदेकविंशतिरश्मयः ॥ १४॥
दानशीलः कृपायुक्तो द्वाविंशतिसुरश्मिषु ।
सुखयुक् सौम्यशीलश्चेत् त्रयोविंशतिरश्मयः ॥ १५॥
आत्रिंशत् परतः श्रीमान् सर्वसत्त्वसमन्वितः ।
राजप्रियश्च तेजस्वी जनैश्च बहुभिर्वृतः ॥ १६॥
अत ऊर्ध्वं तु सामन्तश्चत्वारिंशत् करावधि ।
जनानां शतमारब्य सहस्रावधिपोषकः ॥ १७॥
अत ऊर्ध्वन्तु भूपालः पंचाशत् करिणावधि ।
तत ऊर्ध्वकरैर्विप्र चक्रवर्ती नृपो भवेत् ॥ १८॥
एवं प्रसूतिकालोत्थनभोगकरसम्भवम् ।
कुलक्रमनुसारेण जातकस्य फलं वदेत् ॥ १९॥
क्षत्रियश्चक्रवर्ती वैश्यो राजा प्रजायते ।
शूद्रश्च सधनो विप्रो यज्ञकर्मक्रियारतः ॥ २०॥
उच्चाभिमुखखेटस्य कराः पुष्टफलप्रदाः ।
नीचाभिमुखखेटस्य ततो न्यूनफलप्र्दाः ॥ २१॥
सर्वेषामेव खेटानामेवं रश्मिवशाद्द्विज ।
शुभं वाऽप्यशुभं चापि फलं भवति देहिनाम् ॥ २२॥
रश्मिज्ञानं विना सम्यक् न फलं ज्ञातुमर्हति ।
तस्माद्रश्मीन् प्रसाध्यैव फलं वाच्यं विचक्षणैः ॥ २३॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 73 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD%E0%A5%A9_(%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%AE%E0%A4%BF%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85874