बृहत्पाराशरहोराशास्त्रम् 55.55
अथ रह्वन्तर्दशाफलाध्यायः ||५५||
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
स्रोत में दोहराए श्लोक क्रमांक मिले; पहली प्रति रखी गई।
अथ रह्वन्तर्दशाफलाध्यायः ||५५||
कुलीरे वृश्चिके राहौ कन्यत्यां चापगेऽपि वा |
तद्भुक्तो राजसम्मानं वस्त्रवाहनभूषणम् ||१||
व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् |
प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ||२||
लग्नादुपचये राहौ शुभग्रहयुतेक्षिते |
मित्रांशे तुङ्गभागांशे योगकारकसंयुते ||३||
राज्यलाभं महोत्साहं राजप्रीतिं शुभावहम् |
करोति सुखसम्पत्तिं दारपुत्रादिवर्द्धनम् ||४||
लग्नाष्ट्मे व्यये राहौ पापयुक्तेऽथ वीक्षिते |
चौरादिव्रणपीडा च सर्वत्रैवं भवेद्द्विज ||५||
राजद्वारजनद्वेष इष्टबन्धुविनाशनम् |
दारपुत्रादिपीडा च भवत्येव न संशयः ||६||
द्वितीयद्यूननाथे वा सप्तमस्थानमाश्रिते |
सदा रोगो महाकष्टं शान्तिं कुर्याद्यथाविधि |
आरोग्यं सम्पदश्चैव भविष्यन्ति तदा द्विज ||७||
राहुरन्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे स्वक्षेत्रगे वापि तुङ्गस्वर्क्षांशगेऽपि वा ||८||
स्थानलाभं मनोधैर्यं शत्रुनाशं महत्सुखम् |
राजप्रीतिकरं सौख्यं जनोऽतीव समश्नुते ||९||
दिनेदिने वृद्धिरपि सितपक्षे शशी यथा |
वाहनादिधनं भूरि गृहे गोधनसंकुलम् ||१०||
नैरृत्ये पश्चिमे भागे प्रयाणं राजदर्शनम् |
युक्तकार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ||११||
उपकारो ब्राह्मणानां तीर्थयात्रादिकर्मणाम् |
वाहनग्रामलाभश्च देवब्राह्मणपूजनम् ||१२||
पुत्रोत्सवादिसन्तोषो नित्यं मिष्ठान्नभोजनम् |
नीचे वाऽस्तङ्गते वापि षष्ठाष्टव्ययराशिगे ||१३||
शत्रुक्षेत्रे पापयुक्ते धनहानिर्भविष्यति |
कर्मविघ्नो भवेत्तस्य मानहानिश्च जायते ||१४||
कलत्रपुत्रपीडा च हृद्रोगो राजकारकृत् |
दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ||१५||
दुश्चिक्ये बलसम्पूर्णे गृहक्षेत्रादिवृद्धिकृत् |
भोजनाम्बरपश्वादिदानधर्मजपादिकम् ||१६||
भुक्त्यन्ते राजकोपाच्च द्विमासं देहपीडनम् |
ज्येष्ठभ्रातुर्विनाशश्च मातृपित्रादिपीडनम् ||१७||
दायेशात्षष्ठरन्ध्रे वा रिःफे वा पापसंयुते |
तद्भुक्तौ धनहानिः स्याद्देहपीडा भविष्यति ||१८||
द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति |
स्वर्णस्य प्र्तिमादानं शिवपूजं च कार्यते ||१९||
स्र्/ईशम्भोश्च प्रसादेन ग्रहस्तुष्टो द्विजोत्तम |
देहारोग्यं प्रकुरुते शान्तिं कुर्याद्विचक्षणम् ||२०||
राहोरन्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे मूलत्रिकोणे वा दुश्चिक्ये लाभराशिगे ||२१||
तद्भुक्तौ नृपतेः सेवा राजप्रीतिकरी शुभा |
विवाहोत्सवकार्याणि कृत्वा पुण्यानि भूरिशः ||२२||
आरामकरणे युक्तो तडागं कारयिष्यति |
शूद्रप्रभुवशादिष्टलाभो गोधनसंग्रहः ||२३||
प्रयाणं पश्चिमे भागे प्रभुमूलाद्धनक्षयः |
देहालस्यं फलाल्पत्वं स्वदेशे पुनरेष्यति ||२४||
नीचारिक्षेत्रगे मन्दे रन्ध्रे वा व्ययगेऽपि वा |
नीचारिराजभीतिश्च दारपुत्रादिपीडनम् ||२५||
आत्मबन्धुमनस्तापं दायादजनविग्रहम् |
व्यवहारे च कलहमकस्माद्भूषणं लभेत् ||२६||
दायेशात्षष्ठरिष्फे वा रन्ध्रे वा पापसंयुते |
हृद्रोगो मानहानिश्च विवादः शत्रुपीडनम् ||२७||
अन्यदेशादिसञ्चारो गुल्मवद्वयाधिभाग्भवेत् |
कुभोजनं कोद्रवादि जातिदुःखाद्भयं भवेत् ||२८||
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति |
कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ||२९||
राहोरन्तर्गते सौम्ये भाग्ये वा स्वर्क्षगेऽपि वा |
तुङ्गे वा केन्द्रराशिस्थे पुत्रे वा बलगेऽपि वा ||३०||
राजयोगं प्रकुरुते गृहे कल्याणवर्द्धनम् |
व्यापारेण धनप्राप्तिविद्यावाहनमुत्तमम् ||३१||
विवाहोत्सवकार्याणि चतुष्पाज्जीवलाभकृत् |
सौम्यमासे महत्सौख्यं स्ववारे राजदर्शनम् ||३२||
सुगन्धपुष्पशय्यादि स्त्रीसौख्यं चातिरोभनम् |
महाराजप्रसादेन धनलाभो महद्यशः ||३३||
दायेशात्केन्द्रलाभे वा दुश्चिक्ये भाग्यकर्मगे |
देहारोग्यं हृदुत्साह इष्टसिद्धिः सुखावहा ||३४||
पुण्यश्लोकादिकीर्तिश्च पुराणश्रवणादिकम् |
विवाहो यज्ञदीक्षा च दानधर्मदयादिकम् ||३५||
षष्ठाष्टमव्यये सौम्ये मन्देनापि युतेक्षिते |
दायेशात्षष्ठरिःफे वा रन्ध्रे वा पापसंयुते ||३६||
देवभाह्मणनिन्दा च भोगभाग्यविवर्जितः |
सत्यहीनश्च दुर्बुद्धिश्चौराहिनृपपीडनम् ||३७||
अकस्मात्कलहश्चैव गुरुपुत्रादिनाशनम् |
अर्थव्ययो राजकोपो दारपुत्रादिपीडनम् ||३८||
द्वितीयद्यूननाथे वा ह्यपमृत्युभयं वदेत् |
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ||३९||
राहोरन्तर्गते केतौ भ्रमणं राजतो भयम् |
वातज्वरादिरोगश्च चतुष्पाज्जीवहानिकृत् ||४०||
अष्टमाधिसंयुक्ते देहजाड्यं मनोव्यथा |
शुभयुक्ते शुभैर्दृष्टे देहसौख्यं धनागमः |
राजसम्मानभूषाप्तिर्गृहे शुभकरो भवेत् ||४१||
लग्नाधिपेन सम्बन्धे इष्टसिद्धिः सुखावहा |
लग्नाधिपसमायुक्ते लाभो वा भवति ध्रुवम् ||४२||
चतुष्पाज्जिवलाभः स्यात्केन्द्रे वाथ त्रिकोणगे |
रन्ध्रस्थानगते केतौ व्यये वा बलवर्जिते ||४३||
तद्भुक्तौ बहुरोगः स्याच्चोराहिव्रणपीडनम् |
पितृमातृवियोगश्च भातृद्वेषो मनोरुजा ||४४||
द्वितीयद्यूननाथे तु देहबाधा भविष्यति |
तद्दोषपरिहारार्थं छागदानं च कारयेत् ||४५||
राहोरन्तर्गते शुक्रे कग्नात्केन्द्गत्रिकोणगे |
लाभे वा बलसंयुक्ते योगप्राबल्यमादिशेत् ||४६||
विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् |
पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ||४७||
सम्मानं राजसम्मनं राज्यलाभो महत्सुखम् |
स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ||४८||
नूतनं गृहनिर्माणं नित्यं मिष्ठान्नभोजनं |
कलत्रपुत्रविभवं मित्रसंगः सुभोजनम् ||४९||
अन्नदानं प्रियं नित्यं दानधर्मादिसंग्रहः |
महाराजप्रसादेन वाहनाम्बरभूषणं ||५०||
व्यवसायात्फलाधिक्यं विवाहो मौञ्जिबन्धनम् |
षष्ठाष्टमव्यये शुक्रे नीचे शत्रुगृहे स्थिते ||५१||
मन्दारफणिसंयुक्ते तद्भुक्तौ रोगमादिशेत् |
अकस्मात्कलहं चैव पितृपुत्रवियोगकृत् ||५२||
स्वबन्धुजनहानिश्च सर्वत्र जनपीडनम् |
दायादकलहश्चैव स्वप्रभोः स्वस्य मृत्युकृत् ||५३||
कलत्रपुत्रपीडा च शूलरोगादिसम्भवः |
दायेशात्केन्द्रराशिस्थे त्रिकोणे वा समन्विते ||५४||
छत्रचामरभूषाप्तिः प्रियवस्तुसमन्विता |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ||५६||
विप्राहिनृपचौरादिमूत्रकृच्छ्रान्महद्भयम् |
प्रमेहाद्रौधिरो रोगः कुत्सितान्नं शिरोव्यथा ||५७||
कारागृहप्रवेशश्च राजदण्डाद्धनक्षयः |
द्वितीयद्यूननाथे वा दारपुत्रादिनाशनम् ||५८||
आत्मपीडा भयं चैव ह्यपमृत्युभयं भवेत् |
दुर्गालक्ष्मीजपं कुर्यात् ततःसुखमवाप्नुयात् ||५९||
राहोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे |
त्रिकोणे लाभगे वाऽपि तुङ्गांशे स्वांशगेऽपि वा ||६०||
शुभग्रहेण सन्दृष्टे राजप्रीतिकरं शुभम् |
धनधान्यसमृद्धिश्च ह्यल्पमान सुखवाहम् ||६१||
अल्पग्रामाधिपत्यं च स्वल्पलाभो भविष्यति |
भाग्यलग्नेशसंयुक्ते कर्मेशेन निरीक्षिते ||६२||
राजाश्रयो महाकीर्तिर्विदेशगमनं तथा |
देशाधिपत्ययोगश्च गजश्वाम्बरभूषणम् ||६३||
मनोऽभिष्टप्रदानं च पुत्रकल्याणसम्भवम् |
दयेशाद्रिःफरन्ध्रस्थे षष्ठे वा नीचगेऽपि वा ||६४||
ज्वरातिसाररोगश्च कलहो राजविग्रहः |
प्रयाणं शत्रुवृद्धिश्च न्रिपचौराग्निपीडनम् ||६५||
दायेशात्केन्द्रकोणे वा दश्चिक्ये लाभगेऽपि वा |
विदेशे राजसम्मानं कल्याणं च शुभावहम् ||६६||
द्वितीयद्यूननाथे तु महारोगो भविष्यति |
सूर्यप्रणामं शान्तिं च कुर्यादारोग्यसम्भवाम् ||६७||
राहोरन्तर्गते चन्द्रे स्वक्षेत्रे स्वोच्चगेऽपि वा |
केन्द्रत्रिकोणलाभे वा मित्रर्क्षे शुभसंयुते ||६८||
राजत्वं राजपूज्यत्वं धनार्थं धनलाभकृत् |
आरोग्यं भूषण्ं चैव मित्रस्त्रीपुत्रसम्पदः ||६९||
पूर्णे चन्द्रे फलं पूर्णं राजप्रीत्या शुभावहम् |
अश्ववाहनलाभः स्यद्गृहक्षेत्रादिवृद्धिकृत् ||७०||
दायेशात्सुखभाग्यस्थे केन्द्रे वा लाभगेऽपि वा |
लक्ष्मीकटाक्षचिह्नानि गृहे कल्याणसम्भवः ||७१||
सर्वकार्यसिद्धिः स्याद्धनधान्यसुखावहा |
सत्कीर्तिलाभसम्मानं देव्याराधनमाचरेत् ||७२||
दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते |
पिशाचक्षुद्रव्याघ्राद्य्सिर्गृहक्षेत्रार्थनाशनम् ||७३||
मार्गे चौरभयं चैव व्रणाधिक्य महोदयम् |
द्वितीयद्यूननाथे तु अपमृत्युस्तदा भवेत् ||७४||
श्वेतां गां महिषीं दद्याद् विप्रायारोग्यसिद्धये |
ततः सौख्यमवाप्नोति चन्द्रग्रहप्रसादतः ||७५||
राहोरन्तर्गते भौमे लग्नाल्लाभत्रिकोणगे |
केन्द्रे वा शुभसंयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ||७६||
नष्टराज्यधन्प्राप्तिर्गृहक्षेत्राभिवृद्धिकृत् |
इष्टदेवप्रसादेन सन्तानसुखभाग्भवेत् ||७७||
क्षिप्रभोज्यान्महत्सौख्यं भूषणश्वाम्बरादिकृत् |
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ||७८||
रक्तवस्त्रादिलाभः स्यात्प्रयाणं राजदर्शनम् |
पुत्रवर्गेषु कल्याणं स्वप्रभोश्च महत्सुखम् ||७९||
सेनपत्यं महोत्साहो भ्रातृवर्गधनागमः |
दायेशाद्रन्ध्ररिःफे वा षष्ठे पापसमन्विते ||८०||
पुत्रदारादिहानिश्च सोदराणां च पीडनम् |
स्थानभ्रंशो बन्धुवर्गदारपुत्रविरोधनम् ||८१||
चौराहिव्रणभीतिश्च स्वदेहस्य च पीडनम् |
आदौ क्लेशकरं चैव मध्यान्ते सौखमाप्नुयात् ||८२||
द्वितीयद्यूननाथे तु देहालस्यं महद्भयम् |
अनड्वाहं च गां दद्यादारोग्यसुखलब्धये ||८३||
-
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 55 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AB%E0%A5%AB_(%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%B5%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=402968