बृहत्पाराशरहोराशास्त्रम् 52.52
अथ विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः ||५२||
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
स्रोत में दोहराए श्लोक क्रमांक मिले; पहली प्रति रखी गई।
अथ विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः ||५२||
स्वोच्चे स्व्भे स्थितः सूर्यो लाभे केन्द्रे त्रिकोणके |
स्वदशायां स्वभुक्तौ च धनधान्यादिलाभकृत् ||१||
नीचाद्यशुभराशिस्थो विपरीतं फलं दिशेत् |
द्वितीयद्यूननाथेऽर्के त्वपमृत्युभयं वदेत् ||२||
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् |
सूर्यप्रीतिकरीं शान्तिं कुर्यादारोग्यलब्धये ||३||
सूर्यस्याऽन्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे |
विवाहं शुभकार्यं च धनधान्यसमृद्धिकृत् ||४||
गृहक्षेत्राभिवृद्धिं च पशुवाहनसम्पदाम् |
तुङ्गे वा स्वर्क्षगे वाऽपि दारसौख्यं धनागमम् ||५||
पुत्रलाभसुखं चैव सौख्यं राजसमागमम् |
महाराजप्रसादेन इष्टसिद्धिसुखवाहम् ||६||
क्षीणे वा पापसंयुक्ते दारपुत्रादिपोडनम् |
वैषम्यं जनसंवादं भृत्यवर्गविनाशनम् ||७||
विरोधं राजकलहं धनधान्यपशुक्षयम् |
षष्ठाष्टमव्यये चन्द्रे जलभीतिं मनोरुजम् ||८||
बन्धनं रोगपीडां च स्थानविच्युतिकारकम् |
दुःस्थानं चापि चित्तेन दायादजनविग्रहम् ||९||
निर्दिशेत् कुत्सितान्नं च चौरादिनृपपीडनम् |
मूत्रकृच्छादिरोगश्च देहपीडा तथा भवेत् ||१०||
दायेशाल्लभभाग्ये च केन्द्रे वा शुभसंयुते |
भोगभाग्यादिसन्तोषदारपुत्रादिवर्द्धनम् ||११||
राज्यप्राप्तिं महत्सौख्यं स्थानप्राप्तिं च शाश्वर्ताम् |
विविआहं यज्ञदीक्षां च सुमाल्यामबरभूषणम् ||१२||
वाहनं पुत्रपौत्रादि लभते सुखवर्द्धनम् |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ||१३||
अकाले भोजनं चैव देशाद्देशं गमिष्यति |
द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति |
श्वेतां गां महिषीं गद्याच्छान्ति कुर्यात्सुखाप्तये ||१४||
सूर्यस्यान्तर्गते भौमे स्वोच्चे स्वक्षेत्रलाभगे |
लग्नात्केन्द्रत्रिकोणे वा शुभकार्यं समादिशेत् ||१५||
भूलाभं कृषिलाभं च धनधान्यविवर्धनम् |
गृहक्षेत्रादि लाभं च रक्तवस्त्रादिलाभकृत् ||१६||
लग्नाधिपेन संयुक्ते सौख्यं राजप्रियं वदेत् |
भाग्यलाभाधिपैर्युक्ते लाभश्चैव भविष्यति ||१७||
बहुसेनाधिपत्यं च शत्रुनाशं मनोदृढम् |
आत्मबन्धुसुखम् चैव भ्रातृवर्द्धनकं तथा ||१८||
दायेशाद्व्ययरन्ध्रस्थे पापैर्युक्ते च वीक्षिते |
आधिपत्यबलैर्हीने क्रूरबुद्धिं मनोरुजम् ||१९||
कारागृहे प्रवेशं च कथयेद् बन्धुनाशनम् |
भ्राऋवगविरोधं च कर्मनाशमथापि वा ||२०||
नीचे वा दुर्बले भौमे राजमूलाद्धनक्षयः |
द्वितीयद्यूननाथे तु देहे जाड्यं मनोरुजम् ||२१||
सुब्रह्मजपदानं च वृषोत्सर्गं तथैव च |
शान्तिं कुर्वीत विद्यिवदायुरारोग्यसिद्धिदाम् ||२२||
सूर्यस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे |
आदौ द्विमासपर्यन्तं धननाशो महद्भयम् ||२३||
चौरादिव्रणभीतिश्च दारपुत्रादिपीडनम् |
तत्परं सुखमाप्नोति शुभयुक्ते शुभांशके ||२४||
देहारोग्यं मनस्तुष्टि राजप्रीतिकरं सुखम् |
लग्नादुपचये राहौ योगकारकसंयुते ||२५||
दायेशाच्छुभराशिस्थे राजसन्मानमादिशेत् |
भाग्यवृद्धिं यशोलाभं दारपुत्रादिपीडनम् ||२६||
पुत्रोत्सवादिसन्तोषं गृहे कल्याणशोभनं |
दायेशादथ रिष्फस्थे रन्ध्रे वा बलवर्जिते ||२७||
बन्धनं स्थाननाशश्च कारागृहनिवेशनम् |
चौरादिव्रणभीतिश्च दारपुत्रादिवर्द्धनम् ||२८||
चतुष्पाज्जीवनाशश्च गृहक्षेत्रादिनाशनं |
गुल्मक्षयादिरोगश्च ह्यतिसारादिपीडनं ||२९||
द्विस्फस्थे तथा राहौ तत्स्थानाधिपसंयुते |
अपमृत्युभयं चैव सर्पभीतिश्च सम्भवेत् ||३०||
दुर्गाजपं च कुर्वीत् छागदानं समाचरेत् |
कृष्णां गां महिषीं दद्यच्छान्तिमाप्नोत्यसंशयम् ||३१||
सूर्यस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे मित्रस्य वर्गस्थे विवाहं राजदर्शनम् ||३२||
धनधान्यादिलाभ च पुत्रलाभं महत्सुखं |
महाराजप्रसादेन इष्टकार्यार्थलाभकृत् ||३३||
ब्राह्मण्प्रियसन्मानं प्रियवस्त्रादिलाभकृत् |
भाग्यकर्माधिपवशाद्राज्यलाभं वदेद् द्विज ||३४||
नरवाहनयोगश्च स्थानाधिक्यं महत्सुखम् |
दायेशाच्छुभराशिस्थे भाग्यवृद्धिः सुखावहा ||३५||
दीनधर्मक्रियायुक्तो देवताराधनप्रियः |
गुरुभक्तिर्मनःसिद्धिः पुण्युकर्मादिसंग्रहः ||३६||
राशेशाद्रिपुरन्ध्रस्थे नीचे वा पापसंयुते |
दारपुत्रादिपीडा च देहपीडा महद्भयम् ||३७||
राजकोपं प्रकुरुतेऽभीष्टवस्तुविनाश्नम् |
पापमूलद्द्रव्यनाशं देहभ्रष्टं मनोरुजम् ||३८||
स्वर्णदानं प्रकुर्वीत स्वेष्टजाप्यं च कारयेत् |
गवां कपिलवर्णानां दानेनारोग्यमादिशेत् ||३९||
सूर्यस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे |
शत्रुनाशो महत्सौख्यं स्वल्पधान्यार्थलाभकृत् ||४०||
विवाहादिसुकार्यञ्च गृहे तस्य शुभावहम् |
स्वोच्चे स्वक्षेत्रगे मन्दे सुहृद्ग्रहसमन्विते ||४१||
गृहे कल्याणसम्पत्तिर्विवाहादिषु सत्क्रिया |
राजसन्मानकीर्तिश्च नानावस्त्रधनागमम् ||४२||
दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते |
वातशूलमहाव्याधिज्वरातीसारपीडनम् ||४३||
बन्धनं कार्यहानिश्च वित्तनाशो महद्भयम् |
अकश्मात्कलहश्चैव दायादजनविग्रहः ||४४||
भुक्त्यादौ मित्रहानिःस्यान्मध्ये किञ्चित्सुखावहम् |
अन्ते क्लेशकरं चैव नीचे तेषां तथैव च ||४५||
पितृमातृवियोगश्च गमनागममं तथा |
द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् ||४६||
कृष्णां गां महिषीं दद्यान्मृत्युञ्जयजपं चरेत् |
छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ||४७||
सूर्यास्यान्तर्गते सौम्ये स्वोच्चे वा स्वर्क्षगेऽपि वा |
केन्द्रत्रिकोणलाभस्थे बुधे वर्गबलैर्युते ||४८||
राज्यलाभो महोत्साहो दारपुत्रादिसौख्यकृत् |
महारजप्रसादेन वाहनाम्बरभूषणं ||४९||
पुण्यतीर्थफलावाप्तिर्गृहे गोधनसंकुलम् |
भाग्यलाभाधिपैर्युक्ते लाभवृद्धिकोरो भवेत् ||५०||
भाग्यपंचमकर्मस्थे सन्मानो भवति ध्रुवम् |
सुकर्मधर्मबुद्धिश्च गुरुदेवद्विजार्जनम् ||५१||
वैवाहिकं यज्ञकर्म दानधर्मजपादिकम् |
स्वनामाङ्कितपद्यानि नामद्वयमथाऽपि वा ||५३||
भोजनाम्बरभूषाप्तिरमरेशो भवेन्नरः |
दायेशाद्रिपुरन्ध्रस्थे रिष्फगे नीचगेऽपि वा ||५४||
देहपीडा मनस्तापो दारपुत्रादिपीडनम् |
भुक्त्यादौ दुःखमाप्नोति मध्ये किञ्चित्सुखावहम् ||५५||
अन्ते तु राजभीतिश्च गमनागमनं तथा |
द्वितीये द्यूननाथे तु देहजाड्यं ज्वरादिकम् ||५६||
विष्णुनामसहस्रं च ह्यन्नदानं च कारयेत् |
रजतप्रतिमादानं कुर्यादारोग्यसिद्धये ||५७||
सूर्यस्यान्तर्गते केतौ देहपीडा मनोव्यथा |
अर्थव्ययं राजकोपं स्वजनादेरुपद्रवम् ||५८||
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमम् |
मध्ये तत्क्लेशमाप्नोति मृतवार्तागमं वदेत् ||५९||
अथाष्टमव्यये चैवं दायेशात्पापसंयुते |
कपोलदन्तरोगश्च मूत्रकृर्च्छस्य सम्भवः ||६०||
स्थानविच्युतिरर्थस्य मित्रहानिः पितुर्मृतिः |
विदेशगमनं चैव शत्रुपीडा महद्भयम् ||६१||
लग्नादुपचये केतौ योगकारकसंयुते |
शुभांशे शुभवर्गे च शुभकर्मफलोदयः ||६२||
पुत्रदारादिसौख्यं च सन्तोषं प्रियवर्द्धनम् |
विचित्रवस्त्रलाभश्च यशोवृद्धिः सुखावहा ||६३||
द्वितीयाद्यूननाथे वा ह्यपमृत्युभयं वदेत् |
दुर्गाजपं च कुर्वीत छागदानं सुखाप्तये ||६४||
सूर्यस्यान्तर्गते शुक्रे त्रिकोणे केन्द्रगेऽपि वा |
स्वोच्चे मित्रस्ववर्गस्थेऽभीष्टस्त्रीभोग्यसम्पदः ||६५||
ग्रामान्तरप्रयाणं च भाह्मणप्रभुदर्शनम् |
राज्यलाभो महोत्साहश्छत्रचामरवैभवम् ||६६||
गृहे कल्याणसम्पत्तिर्नित्यं मिष्ठान्नभोजनम् |
विद्रुमादिरत्नलाभो मुक्तावस्त्रादि लाभकृत् ||६७||
चतुष्पाज्जीवलाभः स्याद्बहुधान्यधनादिकम् |
उत्साहः कीर्तिसम्पत्तिर्नरवाहनसम्पदः ||६८||
षष्ठाष्टमव्यये शुक्रे दायेशाद्बलवर्जिते |
राजकोपो मनःक्लेशः पुत्रस्त्रीधननाशनम् ||६९||
भुक्त्यादौ मध्यमं मध्ये लाभः शुभकरो भवेत् |
अन्ते यशोनाशनं च स्थानभ्रंशमथापि वा ||७०||
बन्धुद्वेषं वदेद् वापि स्वकुलाद्भोगनाशनम् |
भार्गवे द्यूननाथे तु देहे जाड्यं रुजोभयम् ||७१||
रन्ध्ररिष्फसमायुक्ते ह्यपमृत्युर्भविष्यति |
तद्दोषपरिहारार्थं मृत्युर्जयजपं चरेत् ||७२||
श्वेतां गां महिषीं दद्याद्रुद्रजाप्यं च कारयेत् |
ततः शान्तिभवाप्नोति शङ्करस्य प्रसादतः ||७३||
-
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 52 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AB%E0%A5%A8_(%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A4%E0%A5%87%E0%A4%A8_%E0%A4%B8%E0%A5%82%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85837