बृहत्पाराशरहोराशास्त्रम् 50.50
अथ चरादिदशाफलाध्यायः ||५०||
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
स्रोत में दोहराए श्लोक क्रमांक मिले; पहली प्रति रखी गई।
अथ चरादिदशाफलाध्यायः ||५०||
चरस्थिरादिसंज्ञा या दशाः प्रोक्ताः पुरा द्विज |
शुभाऽशुभफलं तासां कथयामि तवाऽग्रतः ||१||
लग्नादिद्वादशान्तानां भावानां फलकीर्तने |
तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् ||२||
बलयुक्ते च राशीशे पूर्णं तस्य तदा फलम् |
फलं मध्य्बले मध्यं बलहीने विपर्ययः ||३||
यो यो दशाप्रदो राशिस्तस्य रन्ध्रत्रिकोणके |
पापखेटयुते विप्र तद्दशा दुःखदायिका ||४||
तृतीयषष्ठगे पापे ज्यादिः परिकीर्तितः |
शुभखेटयुते तत्र जायते च पराजयः ||५||
लाभस्थे च शुभे पापे लाभो भवति निश्चितः |
यदा दशाप्रदो राशिः शुभखेटयुतो द्विज ||६||
शुभक्षेत्रे हि तद्राशेः शुभं ज्ञेयं दशाफलम् |
पापयुक्ते शुभक्षेत्रे पूर्वं शुभमसत्परे ||७||
पापर्क्षे शुभसंयुक्ते पूर्वं सौख्यं ततोऽशुभम् |
पापक्षेत्रे पापयुक्ते सा दशा सर्वदुखदा ||८||
शुभक्षेत्रदशा राशौ युक्ते पापशुभैर्द्विज ||९||
पूर्वं कष्टं सुखं पश्चान्निर्विशङ्कं प्रजायते |
शुभक्षेत्रे शुभं वाच्यं पापर्क्षे त्वशुभं फलम् ||१०||
द्वितीये पञ्चमे सौम्ये राजप्रीतिर्जयो ध्रुवम् |
पापे तत्र गते ज्ञेयमशुभं तद्दशाफलम् ||११||
चतुर्थे तु शुभं सौख्यमारोग्यं त्वष्टमे शुभे |
धर्मवृद्धिर्गुरुजनात्सौख्यं च नवमे शुभे ||१२||
विपरीते विपर्यासो मिश्रे मिश्रं प्रकीर्तितम् |
पाके भोगे च पापाढ्ये देहपीडा मनोव्यथा ||१३||
सप्तमे पाकभोगाभ्यां पापे दारार्तिरीरिता |
चतुर्थे स्थानहानिः स्यात्पञ्चमे पुत्रपीडनम् ||१४||
दशमे कीर्तिहानिः स्यान्नवमे पितृपीडनम् |
पाकाद्रुद्रागते पापे पीडा सर्वाप्यबाधिका ||१५||
उक्तस्थानगते सौम्ये ततः सौख्यं विनिर्दिशेत् |
केन्द्रस्थानगते सौम्ये लाभः शत्रुजपप्रदः ||१६||
जन्मकालग्रहस्थित्या सगोचगग्रहैरपि |
विचारितैः प्रवक्तव्यं तत्तद्राशिद/साफलम् ||१७||
यश्च राशिः शुभाकान्तो यस्य पश्चाच्छुभग्रहाः |
तद्दशा शुभदा प्रोक्ता विपरीते विपर्ययः ||१८||
त्रिकोणरन्ध्ररिष्फस्थैः शुभपापैः शुभाऽशुभम् |
तद्दशायां च वक्तव्यं फलं दैवविदा सदा ||१९||
मेषकर्कतुलानक्रराशीनां च यथाक्रमम् |
बाधा स्तानानि सम्प्रोक्ता कुभगोसिंहवृश्चिकाः ||२०||
पाकेशाक्रान्तराशौ वा बाधास्थाने शुभेतरे |
स्थिते सति महाशोको बन्धनव्यसनामयाः ||२१||
उच्चस्वर्क्षग्र्हे तस्मिञ्छुभं सौख्यं धनागमः |
तच्छून्यं चेदसौख्यं स्यात्तद्दशा न फलप्रदा ||२२||
बाधकव्ययषडरन्ध्रे राहुयुक्ते महद्भयम् |
प्रस्थाने बन्धनप्राप्ती राजपीडा रिपोभयम् ||२३||
रव्यारराहुशनयो भुक्तिराशौ स्थिता यदि |
तद्राशिभिक्तौ पतनं राजकोपान् महद्भयम् ||२४||
भुक्तिराशित्रिकोणे तु नीचखेटः स्थितो यदि |
तद्राशौ वा युते नीचे पापे मृत्युभयं वदेत् ||२५||
भुक्तिराशौ स्वतुङ्गस्थे त्रिकोणे वापि खेचरे |
यदा भुक्तिदशा प्राप्ता तदा सौख्यं लभेन्नरः ||२६||
नगरग्रामनाथत्वं पुत्रलाभं धनागमम् |
कल्याणं भूरिभाग्यं च सेनपत्यं महोन्नतम् ||२७||
पाकेश्वरो जीवदृष्टः शुभराशिस्थितो यदि |
तद्दशायां धनप्राप्तिर्मङ्गलं पुत्रसम्भवम् ||२८||
सितासितभयुग्माश्च सूर्यस्य रिपुराशयः |
कौर्पितौलिघटाश्चेन्द्रोर्भौमस्य रिपुराशयः ||२९||
घटमीननृयुल्तौलिकन्या ज्ञस्य ततः परम् |
कर्कमीनालिकुम्भाश्च राशयो रिपवः स्मृताः ||३०||
वृषतौलिनृयुक्कन्याराशयो रिपवो गुरोः |
सिंहालिकर्कचापाश्च शुकस्य रिपुराशयः ||३१||
मेषसिंहधनुःकौर्पिकर्कटा शनिशत्रवः |
एवं ग्राहन्तरदाशां चिन्तयेत्कोविदो द्विज ||३२||
ये राजयोगदा ये च शुभमध्यमता ग्रहाः |
यस्माद्वा द्वित्रितुर्यस्थाः ग्रहाः शुभफलप्रदाः ||३३||
तद्दशानां शुभं ब्रूयाद्राजयोगादिसम्भवम् |
शुभद्वयान्तरगतः पापोऽपि शुभदः स्मृतः ||३४||
गता शुभदशामध्यं दशा सौम्यस्य शोभना |
शुभा यस्य त्रिकोणस्थस्तद्दशापि शुभप्रदा ||३५||
आरम्भान्तो मित्रशुभराश्योर्यदि फलं शुभम् |
प्रतिराश्यैवमव्दाद्यं विभज्य तत्फलं वदेत् ||३६||
आरम्भात्तत्त्रिकोणे तु सौम्ये तु शुभभावहेत् |
शुभराशौ शुभारम्भे दशा स्यादतिशोभना ||३७||
शुभादिराशौ पापश्चेद्दशारम्भे शुभा स्मृता |
शुभारम्भे कथा केति प्रारम्भस्य फलं वदेत् ||३८||
आरम्भे पापराशौ वा यदीशो दुर्बलो द्विज |
नीचादौ तद्दशाद्यन्ते वदेद्भाग्यविपर्ययम् ||३९||
यत्र स्थितो नीचखेटस्त्रिकोणे वाऽथ नीचगः |
तथा राशीश्वरे नीचे सम्बन्धो नीचखेटकैः ||४०||
भाग्यस्य विपरीतत्वं करोत्येव द्विजोत्तम |
धनधान्यादिहानिश्च देहे रोगभयं तथा ||४१||
राहोः केतोश्च कुम्भादि वृश्चिकादि चतुष्टयम् |
स्वभं तत्र समारम्भस्तद्दशायां शुभं भवेत् ||४२||
यद्दशायां शुभं ब्रूयात्स चेन्मारकसंस्थितः |
यस्मिन् राशौदशान्तःस्यात्तस्मिन् दृष्टे युतेऽपि वा ||४३||
शुक्रेण विधुना वा स्याद्राजकोपाद्धनक्षयः |
दशान्तश्चेदरिक्षेत्रे राहुदृष्टयुतेऽपि वा ||४४||
इदं फलं शनेः पाके न विचिन्त्यं द्विजोत्तम |
दशाप्रदे नक्रराशौ न विचिन्त्यमिदं फलम् ||४५||
राहुर्दशान्ते सर्वस्वनाशो मरणबन्धने |
दशान्निर्वासनं वा स्यात्कष्टं वा महदश्नुते ||४६||
तत्त्रिकोणगते पापे निश्चयाद्दुःखमादिशेत् |
एवं शुभाशुभं सर्वं निश्चयेन वदेद् बुधः ||४७||
राह्वाद्याश्रितराशिस्तु भवेद्यदि दशाप्रदः |
तत्र कालेऽपि पूर्वोक्तं चिन्तनीयं प्रयत्नतः ||४८||
द/सारम्भो दशान्तो वा मारके चेन्न शोभनम् |
तस्मिन्नेव च राहुश्चन्नरोधो द्रव्यनाशनः ||४९||
चन्द्र्शुक्रौ द्वादश चेद्राजकोपो भवेद्ध्रुवम् |
भौमकेतू तत्र यदि वधोऽग्नेर्महती व्यथा ||५१||
चेन्द्रशुक्रौ धने विप्र यदि राज्यं प्रयच्छतः |
दशारम्भे दशान्ते च द्वितीयस्थमिदं फलम् ||५२||
एवमर्गलभावानां फलं विज्ञैः प्रदर्शितम् |
यस्य पापः शुभो वाऽपि ग्रहस्तिष्ठेच्छुभार्गले ||५३||
तेन द्रष्ट्रेक्षिते लग्नं पाबल्यायोपकल्प्यते |
यदि पश्येद्ग्रहस्तन्न विपरीतार्गलस्थितः ||५४||
तद्भावस्य दशायास्तु विपरीतफलं भवेत् |
सद्दृष्टेऽपि शुभं ब्रूयान्निर्विशंकं द्विजोत्तम ||५५||
यस्मिन्भावे शुभस्वामिसम्बन्धस्तुङ्गखेचरः |
स्यात्तद्भावदशायां तु अन्त्यैश्वर्यमखण्डितम् ||५६||
यद्भावेशः स्वार्थराशिमधितिष्ठति पश्यति |
स्यातद्भावदशाकाले धनलाभो महत्तरः ||५७||
यस्माद्व्ययगतो यस्तु तद्दशायां धनक्षयः |
यस्मात्त्रिकोणगाः पापास्तत्रात्मशुभनाशनम् ||५८||
पुत्रहानिः पितुः पीडा मनस्तापो महान् भवेत् |
यस्मात्त्रिकोण्गा रिःफरन्ध्रेशार्कारसूर्यजाः ||५९||
पुत्रपीडा द्रव्यहानिस्तत्र केत्वहिसङ्गमे |
विदेशभ्रमणं क्लेशो भयं चैव पदे पदे ||६०||
तस्मात्षष्ठाष्टमे क्रूरनीचखेटादयः स्थिताः |
रोगशत्रुनृपालेभ्यो मुहुः पीडा सुदुःसहा ||६१||
यस्माच्चतुर्थः क्रूरः स्याद्भूगृहक्षेत्रनाशनम् |
पशुहानिस्तत्र भौमे गृहदाहः प्रमादकृत् ||६२||
शनौ हृदयशूलं स्यात्सूर्ये राजप्रकोपनम् |
सर्वस्वहरणं राहौ विषचौरादिजं भयम् ||६३||
यस्माद् दशमभे राहुः पुण्यतीर्थाटनं भवेत् |
यस्मात्कर्मायभाग्यर्क्षगतः शोभनखेचराः ||६४||
विद्यार्थधर्मसत्कर्मख्यातिपौरुषसिद्धयः |
यतः पञ्चमकामारिगताः स्वोच्चशुभग्रहाः ||६५||
पुत्रदारादिसंप्राप्तिर्नृपपूजा मह्त्तरा |
यस्मान्पुत्रायकर्माम्बुनवलग्नाधिपाः स्थिताः ||६६||
तत्तद्भावार्थसिद्धिः स्याच्छ्रेयो योगानुसारतः |
यस्मिन् गुरुर्वा शुक्रोवा शुभेशो वापि संस्थितः ||६७||
कल्याणं सर्वसंपत्तिर् देवब्राह्मणतर्पनम् |
यत्चतुर्थे तुङ्गखेटाः शुभस्वामी ग्रहश्च वा ||६८||
वाहनग्रामलाभश्च पशुवृद्धिश्च भूयसी |
तत्र चन्द्रे च लाभः स्याद्बहुधान्यरसान्वितः ||६९||
पूर्णे विधौ निधिप्राप्तिर्लभेद्वा मणिसञ्जयम् |
तत्र सुक्रे भृदङ्गादिवाद्यगानपुरस्कृतः ||७०||
आन्दोलिकाप्तिर्जीवे तु कनकांदोलिका ध्रुवम् |
लग्नकर्मेशभाग्येशतुङ्गस्थशुभयोगतः ||७१||
सर्वोत्कर्षमहैश्वर्यसाम्राज्यादिमहत्फलम् |
एवं तत्तद्भावदायफलं यत्स्याद्विचिन्तयेत् ||७२||
एकैकोडुदशा स्वीयैर्गुणैरष्टादशात्मभि |
भिन्नं फलविपाकं तु कुर्याद्वै चित्रसंयुतम् ||७३||
परमोच्चे तुङ्गमात्रे तदर्वाक्तदुपर्यपि |
मूलत्रिकोणभे स्वर्क्षे स्वाधिमित्रग्रहस्य भे ||७४||
तत्कालसुहृदो गेहे उदासीनस्य भे तथा |
शर्तोर्भेऽधिरिपोर्भे च नीचान्तादूर्ध्वदेशभे ||७५||
तस्मादर्वाङ् नीचमात्र नीचान्ते परमांशके |
नीचारिवर्गे सखले स्ववर्गे केन्द्रकोणभे ||७६||
व्यवस्थितस्य खेटस्य समरे पीडितस्य च |
गाढपूढस्य च दशापचितिः स्वगुणैः फलम् ||७७||
परमोच्चगतो यस्तु योऽतिवीर्यसमन्वितः |
सम्पूर्णाख्या दशा तस्य राज्यभोओग्यशुभप्रदा ||७८||
लक्ष्मीकटाक्षचिह्नानां चिरवासगृहप्रदा |
तुङ्गमात्रगतस्यापि तथा वीर्याधिकस्य च ||७९||
पूर्णाख्या बहुलैश्वर्यदायिन्यापि रुजप्रदा |
अतिनीचगतस्यापि दुर्बलस्य ग्रहस्य तु ||८०||
रिक्ता त्वनिष्टफलदा व्याध्यनर्थमृतिप्रदा |
अत्युच्चेऽप्यतिनीचस्थे मध्यगस्यावरोहिणी ||८१||
मित्रोच्चभावप्राप्तस्य मध्याख्या ह्यर्थदा दशा |
नीचांतादुच्चभागान्तं भषट्के मध्यगस्य च ||८२||
दशा चारोहिणी नीचरिपुभांशगतस्य च |
अधमाख्या भयक्लेशव्याधिदुःखविवर्धिनी ||८३||
नामानुरूपफलदाः पाककाले दशा इमाः |
भाग्येशगुरुसम्बन्धो योगदृक्केन्द्रभादिभिः ||८४||
परेषामपि दायेषु भग्योपक्रममुन्नयेत् |
जातको यस्तु फलदो भग्ययोगप्रदोऽथ यः ||८५||
सफलो वक्रिमादूर्ध्वमन्यानपि च खेचरान् |
दुर्बलानसमर्थांश्च फलदानेषु यागतः ||८६||
तारतम्यात्सुसम्बन्धा दशा ह्येताः फलप्रदाः |
स्वकेन्द्रादिजुषां तेषां पूर्णार्द्धांघ्रिव्यवस्थया ||८७||
शीर्षोदयभगाः स्वस्वदशादौ स्वफलप्रदाः |
उभयोदयराशिस्थदशा मध्यफलप्रदा ||८८||
पृष्ठोदयर्क्षगाः खेटाः स्वदशान्ते फलप्रदाः |
निसर्गतश्च तत्काले सुहृदां हरणे शुभम् ||८९||
सम्पादयेत्तदा कष्टं तद्विपर्ययगामिनाम् |
दशेशाक्रांतभावर्क्षादारभ्य द्वादशर्क्षकम् ||९०||
भक्त्वा द्वादशराशीनां दशाभुक्ति प्रकल्पयेत् |
एकैकराशेर्या तत्र सुहृत्स्वक्षेत्रगामिनी ||९१||
तस्यां राज्यादिसम्पत्तिपूर्वकं शुभमीरयेत् |
दुःस्थानरिपुगेहस्थनीचक्रूरयुता च या ||९२||
तस्यामनर्थकलहं रोगमृत्युभयादिकम् |
बिन्दुभूयस्त्वशून्यत्ववशात् स्वीयाष्टवर्गके ||९३||
वृद्धिं हानिं च तद्राशिभावस्य स्वगृहात्क्रमात् |
भावयोजनया विद्यात्सुतस्त्र्यादिशुभाऽशुभम् ||९४||
धात्वादिराशिभेदाच्च धात्वादिग्रहयोगतः |
शुभपापनशाभेदाच्छुभपापयुतैरपि ||९५||
इष्टानिष्टस्थानभेदात् फलभेदात् समुन्नयेत् |
एवं सर्वग्रहाणां च स्वां स्वामन्तर्दशामपि ||९६||
स्वराशितो राशिभुक्तिं प्रकल्प्य फलमीरयेत् |
अन्तरन्तर्दशां स्वीयां विभज्यैवं पुनः पुनः ||९७||
-
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 50 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AB%E0%A5%A6_(%E0%A4%9A%E0%A4%B0%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=74928