बृहत्पाराशरहोराशास्त्रम् 49.49
अथ कालचक्रदशाफलाध्यायः ||४९||
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ कालचक्रदशाफलाध्यायः ||४९||
कथयाम्यथ विप्रेन्द्र कालचक्रदशाफलम् |
तत्रादौ राशिनाथानां सूर्यादीनां फलं ब्रुवे ||१||
रक्तपित्तादितो व्याधिं नृणामर्कफलं वदेत् |
धनकीर्तिप्रजावृद्धिवस्त्राभरणदः शशी ||२||
ज्वरमाशु दिशेत् पैत्त्यं ग्रन्थिस्फोटं कुजस्तथा |
प्रजानां च धनानां च सदा वृद्धिं बुधो दिशेत् ||३||
धनं कीर्तिं प्रजावृद्धिं नानाभोगं बृहस्पतिः |
विद्यावृद्धिर्विवाहश्च गृहं धान्यं भृगोः फलम् ||४||
तापाधिक्यं महद्दुःखं बन्धुनाशः शनेः फलम् |
एवमर्कादियोगेन वदेद्राशिदशाफलम् ||५||
मेषे तु रक्तपीडा च वृषभे धान्यवर्द्धनम् |
मिथुने ज्ञानसम्पान्नश्चान्द्रे धनपतिर्भवेत् ||६||
सूर्यक्षे शत्रुबाधा च कन्या स्त्रीणां च नाशनं |
तालिके राजमन्त्रित्वं वृश्चिके मरणं भवेत् ||७||
अर्थलाभो भवेच्चापे मेषस्य नवभागके |
मकरे पापकर्माणि कुम्भे वाणिज्यमेव च ||८||
मीने सर्वार्थसिद्धिश्च वृश्चिकेष्वग्नितो भयम् |
तौलिके राजपूज्यश्च कन्यायां शत्रुवर्धनम् ||९||
शशिभे दारसम्बाधा सिंहे च त्वक्षिरोगकृत् |
मिथुने वृत्तिबाधा स्याद्वृषभस्य नवांशके ||१०||
वृषभे त्वर्थलाभाश्च मेषे तु ज्वररोगकृत् |
मीने तु मातुलप्रीतिः कुम्भे शत्रुप्रवर्द्धनम् ||११||
मृगे चौरस्य सम्बाधा धनुषि शस्त्रवर्धनम् |
मेषे तु शस्त्रसंघातो वृषभे कलहो भवेत् ||१२||
मिथुने सुखमाप्नोति मिथुनस्य नवांशके |
कर्कटे सङ्कटप्राप्तिः सिंहे राजप्रकोपकृत् ||१३||
कन्यायां भ्रातृपूजा व तौलिके प्रियकृन्नरः |
वृश्चिके पितृबाधा स्यात् चापे ज्ञानधनोदयः ||१४||
मकरे जलभीतिः स्यात् कुम्भे धान्यविवर्धनम् |
मीने च सुखसम्पत्तिः कर्कटस्य नवांशके ||१५||
वृश्चिके कलः पीडा तौलिके ह्यधिकं फलम् |
कन्यायामतिलाभश्च शशांके मृगबाधिका ||१६||
सिंहे च पुत्रलाभश्च मिथुने शत्रुवर्द्धनम् |
वृषेः चतुष्पदाल्लाभो मेषांशे पशुतो भयम् |
मीने तु दीर्घयात्रा स्यात् सिंहस्य नवभागके ||१७||
कुम्भे तु धनलाभश्च मकरे द्रव्यलाभकृत् |
धनुषि भ्रातृसंसर्गो मेषे मातृविवर्द्धनम् ||१८||
वृषभे पुत्रवृद्धिः स्यान्मिथुने शत्रुवर्द्धनम् |
शशिभे तु स्त्रियां प्रीतिः सिंहे व्याधिविवर्द्धनम् ||१९||
कन्यायां पुत्रवृद्धिः स्यात्कन्याया नवमांशके |
तुलायामर्थलाभश्च वृश्चिके भ्रातृवर्द्धनम् ||२०||
चापे च तातसौख्यं च मृगे मातृविरोधिता |
कुम्भे पुत्रार्थलाभश्च मीने शत्रुविरोधिता ||२१||
अलौ जायाविरोधश्च तुले च जलबाधता |
कन्यायां धनवृद्धिः स्यात् तुलाया नवभागके ||२२||
कर्कटे ह्यर्थनाशश्च सिंहे राजविरोधिता |
मिथुने भूमिलाभश्च वृषभे चाऽर्थलाभकृत् ||२३||
मेषे सर्पादिभीतिः स्यान्मीने चैव जलाद् भयम् |
कुम्भे व्यापारतो लाभो मकरेऽपि रुजो भयम् ||२४||
चापे तु धनलाभः स्याद् वृश्चिकस्य नवांशके |
मेषे तु धनलाभः स्याद् वृषे भूमिविवर्द्धनम् ||२५||
मिथुने सर्वसिद्धिः स्यात्कर्कटे सर्वसिद्धिकृत् |
सिंहे तु पूर्ववृद्धिः स्यात्कन्यायां कलहो भवेत् ||२६||
तौलिके चार्थलाभः स्याद् वृश्चिके रोओगमाप्नुयात् |
चापे तु सुतवृद्धिः स्याच्चापस्य नवमांशके ||२७||
मकरे पुत्रलाभः स्यात्कुम्भे धान्यविवर्द्धनम् |
मीने कल्याणमाप्नोति वृश्चिके विषबाधिता ||२८||
तौलिके त्वर्थलाभश्च कन्यायां शत्रुवर्द्धनम् |
शशिभे स्र्/इयमाप्नोति सिंहे तु मृगबाधिता ||२९||
मिथुने वृक्षबाधा च मृगस्य नवभागके |
वृषभे त्वर्थलाभश्च मेषभे त्वक्षिरोगकृत् ||३०||
मीने तु दीर्घयात्रा स्यात्कुम्भे धनविवर्द्धनम् |
मकरे सर्वसिद्धिः स्याच्चापे शत्रुविवर्द्धनम् ||३१||
मेषे सौख्यविनाशश्च वृषभे मरणं भवेत् |
युग्मे कल्याणमाप्नोति कुम्भस्य नवमांशके ||३२||
कर्कटे धनवृद्दिः स्यात् सिंहे तु राजपूजनम् |
कन्यायामर्थलाभस्तु तुलायां लाभमाप्नुयात् ||३३||
वृश्चिके ज्वरमाप्नोति चापे शत्रुविवर्द्धनम् |
मृगे जायाविरोधश्च कुम्भे जलविरोधता ||३४||
मीने तु सर्वसौभाग्यं मीनस्य नवभागके |
दशाअंशक्रमेणैवं ज्ञात्वा सर्वफलं वदेत् ||३५||
क्रूरग्रहदशाकाले शान्तिं कुर्याद्विचक्षणः |
यत् प्रोक्तं राजयोगादौ संज्ञाध्याये च यत् फलम् ||३६||
तत्सर्वं चत्रकाले हि सुबुद्ध्या योजयेद् बुधः |
इति संक्षेपतः प्रोक्तं कालचक्रदशाफलम् ||३७||
-
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 49 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AA%E0%A5%AF_(%E0%A4%95%E0%A4%BE%E0%A4%B2%E0%A4%9A%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85833