बृहत्पाराशरहोराशास्त्रम् 36.1
लग्ने शुभयुते योगः शुभः पापयुतेऽशुभः।
व्ययस्वगैः शुभैः पापैः क्रमाद्योगौ शुभाऽशुभौ॥ १॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
लग्ने शुभयुते योगः शुभः पापयुतेऽशुभः।
व्ययस्वगैः शुभैः पापैः क्रमाद्योगौ शुभाऽशुभौ॥ १॥
शुभयोगोद्भवो वाग्मी रूपशीलगुणवन्वितः।
पापयोगोद्भवः कामी पापकर्मा परार्थयुक्॥ २॥
केन्द्रे देवगुरौ लग्नाच्चन्द्राद्वा शुभदृग्युते।
नीचास्तारिगृहैर्हीने योगोऽयं गजकेसरी॥ ३॥
गजकेसरीसञ्जातस्तेजस्वी धनवान् भवेत्।
मेधावी गुणसम्पन्नो राजप्रियकरो नरः॥ ४॥
दशमेऽङ्गात्तथा चन्द्रात् केवलैश्च शुभैर्युते।
स योगोऽमलकीत्र्त्याख्यः कीर्तिराचन्द्रतारकी॥ ५॥
राजपूज्ये महाभोगी दाता बन्धुजनप्रियः।
परोपकारी धर्मात्मा गुणढ्योऽमलकीर्तिजः॥ ६॥
सप्तमे चाऽष्टमे शुद्धे शुभग्रहयुतेऽथवा।
केन्द्रेषु शुभयुक्तेषु योगः पर्वतसंज्ञकः॥ ७॥
भाग्यवान् पर्वतोत्पन्नः वाग्मी दाता च शास्त्रवित्।
हास्यप्रियो यशस्वी च तेजस्वी पुरनायकः॥ ८॥
सुखेशेज्यौ मिथः केन्द्रगतौ बलिनि लग्नपे।
काहलो वा स्वभोच्चस्थे सुखेशे कर्मपान्विते॥ ९॥
ओजस्वी साहसी धूर्तश्चतुरङ्गबलान्वितः।
यत्किञ्चिद् ग्रामनाथश्च काहले जायते नरः॥ १०॥
लग्नेशे तुङ्गगे केन्द्रे गुरुदृष्टे तु चामरः।
शुभद्वये विलग्ने वा नवमे दशमे मदे॥ ११॥
राजा वा राजपुज्यो वा चिरजीवी च पण्डितः।
वाग्मी सर्वकलाविद् वा चामरे जायते जनः॥ १२॥
सवले लग्नपे पुत्रषष्ठपौ केन्द्रगौ मिथः।
शंखो वा लग्नकर्मेशौ चरे बलिनि भाग्यपे॥ १३॥
धनस्त्रीपुत्रसंयुक्तो दयालुः पुण्यवान् सुधीः।
पुण्यकर्मा चिरञ्जीवी शंखयोगोद्भवो नरः॥ १४॥
सबले भाग्यपे भेरी खगैः स्वान्त्योदयास्तगैः।
सबले भाग्यपे वाऽसौ केन्द्रे शुक्रेज्यलग्नपैः॥ १५॥
धनस्त्रीपुत्रसंयुक्तो भूपः कीर्तिगुणान्वितः।
आचारवान् सुखी भोगी भेरीयोगे जनो भवेत्॥ १६॥
सबले लग्नपे खेटाः केन्द्रे कोणे स्वभोच्चगाः।
मृगङ्गयोगो जातोऽत्र भूपो वा तत्समः सुखी॥ १७॥
केमेशे कर्मगे तुङ्गे कर्मेशे भाग्यपान्विते।
योगः श्रीनाथसंज्ञोऽत्र जातः शुक्रसमो नृपः॥ १८॥
कर्मेशे सुतगे केन्द्रे बुधेऽर्के सबले स्वभे।
चन्द्रात् कोणे गुरौ ज्ञे वा कुजे लाभे च शारदः॥ १९॥
धनस्त्रीपुत्रसंयुक्तः सुखी विद्वान् नृपप्रियः।
तपस्वी धर्मसंयुक्तः शारदे जायते जनः॥ २०॥
धर्मलग्नगते सौम्ये पञ्चमे सदसद्युते।
पापे च चतुरस्रस्थे योगोऽयं मत्स्यसंज्ञकः॥ २१॥
कालज्ञः करुणामूर्तिर्गुणधीबलरूपवान्।
यशोविद्यातपस्वी च मत्स्ययोगे हि जायते॥ २२॥
पुत्रारिमदगाः सौम्याः स्वभोच्चसुहृदंशगाः।
त्रिलाभोदयगाः पापाः कूर्मयोगः स्वभोच्चगाः॥ २३॥
कूर्मयोगे जनो भूपो धीरो धर्मगुणान्वितः।
कीर्तिमानुपकारी च सुखी मानवनायकः॥ २४॥
भाग्येशे धनभावास्थे धनेशे भाग्यभावगे।
लग्नेशे केन्द्रकोणस्थे खड्गयोगः स कथ्यते॥ २५॥
खड्गयोगे समुत्पन्नो धनभाग्यसुखान्वितः।
शास्त्रज्ञो बुद्धिवीर्याढ्यः कृतज्ञः कुशलो नरः॥ २६॥
केन्द्रे मूलत्रिकोणस्ते भाग्येशे वा स्वभोच्चगे।
लग्नाधिपे बलाढ्ये च लक्ष्मीयोगः प्रकीर्त्यते॥ २७॥
सुरूपो गुणवान् भूपो बहुपुत्रधनान्वितः।
यशस्वी धर्मसम्पन्नो लक्ष्मीयोगे जनो भवेत्॥ २८॥
लग्ने स्थिरे भृगौ केन्द्रे चन्द्रकोणे शभान्विते।
मानस्थानगते सौरे योगोऽयं कुसुमाभिधः॥ २९॥
भूपो वा भूपतुल्यो वा दता भोगी सुखी जनः।
कुलमुख्यो गुणी विद्वान् जायते कुसुमाह्वये॥ ३०॥
द्वितीये पञ्चमे जीवे बुधशुक्रयुतेक्षिते।
क्षत्रे तयोर्वा सम्प्रप्ते योगः स च कलानिधिः॥ ३१॥
कलानिधिसमुत्पन्नो गुणवान् भूपवन्दितः।
रोगहीनः सुखी जातो धनविद्यासमन्वितः॥ ३२॥
लग्नेशतद्गतर्क्षेशतद्गतर्क्षेशतदंशपाः।
केन्द्रे कोणे स्वतुङ्गे वा योगः कल्पद्रुमो मतः॥ ३३॥
सर्वैश्वर्ययुतो भूपो धर्मात्मा बलसंयुतः।
युद्धप्रियो दयालुश्च पारिजाते नरो भवेत्॥ ३४॥
स्वान्त्याष्टस्थैर्द्वितीयेशाद् हरियोगः शुभग्रहैः।
कामेशाद् बन्धुधर्माष्टस्थितैः सौम्यैर्हराभिधः॥ ३५॥
लग्नेशाद् बन्धुकर्मायस्थितैर्ब्रह्माह्वयः स्मृतः।
एषु जातः सुखी विद्वान् धनपुत्रादिसंयुतः॥ ३६॥
लग्नान्मदाष्टगैः सौम्यैः पापदृग्योगवर्जितैः।
योगो लग्नाधियोगोऽस्मिन् महात्मा शास्त्रवित् सुखी॥ ३७॥
लग्नपे पारिजातस्थे सुखी वर्गोत्तमे ह्यरुक्।
गोपुरे धनधान्याढ्या भूपः सिंहासने स्थिते॥ ३८॥
विद्वान् पारावते श्रीमान् देवलोके सवाहनः।
ऐरावतस्थिते जातो विख्यातो भूपवन्दितः॥ ३९॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 36 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%AC_(%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A4%BF%E0%A4%A7%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=74913