बृहत्पाराशरहोराशास्त्रम् 34.1
कारकांशवशादेवं फलं प्रोक्तं मया द्विज।
अथ भावाधिपत्येन ग्रहयोगफलं स्रृणु॥ १॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
कारकांशवशादेवं फलं प्रोक्तं मया द्विज।
अथ भावाधिपत्येन ग्रहयोगफलं स्रृणु॥ १॥
केन्द्राधिपतयः सौम्या ना दिशन्ति शुभं फलम्।
क्रूरा नैवाऽशुभं कुर्युः शुभदाश्च त्रिकोणपाः॥ २॥
लग्नं केन्द्रत्रिकोणत्वाद् विशेषेण शुभप्रदम्।
पञ्चमं नवमं चैव विशेषधनमुच्यते॥ ३॥
सप्तमं दशमं चैव विशेषसुखमुच्यते।
त्रिषडायाधिपाः सर्वे ग्रहाः पापफलाः स्मृताः॥ ४॥
व्ययद्वितीयरन्ध्रेशाः साहचर्यात् फलप्रदाः।
स्थानान्तरानुरोधात्ते प्रबलाश्चोत्तरोत्तरम्॥ ५॥
तत्र भाग्यव्ययेशत्वाद्रन्ध्रेशो न शुभप्रदः।
त्रिमदायाधिपत्वेऽथो कोणपत्वे तु सत्फलः॥ ६॥
उक्तेष्वेषु बली योगो निर्बलस्य प्रबाधकः।
न रन्ध्रेशत्वदोषोऽत्र सूर्याचन्द्रमसोर्भवेत्॥ ७॥
गुरुशुक्रौ शुभौ प्रोक्तौ चन्द्रो मध्यम उच्यते।
उदासीनो बुधः ख्यातः पापा रव्यार्किभूमिजाः॥ ८॥
पूर्णेन्दुज्ञेज्यशुक्राश्च प्रबला उत्तरोत्तरम्।
क्षीणेन्द्वर्कार्किभूपुत्राः प्रबलाश्च यथोत्तरम्॥ ९॥
केन्द्राधिपत्यदोषोयः शुभानां कथितो हि सः।
चन्द्रज्ञगुरुशुक्राणां प्रबलाश्चोत्तरोत्तरम्॥ १०॥
केन्द्रकोणपती स्यातां परस्परगृहोपगौ।
एकभे द्वौ स्थितौ वापि ह्येकभेऽन्यतरः स्थितः॥ ११॥
पूर्णदृष्ट्येक्षितौ वापि मिथो योगकारौ तदा।
योगेऽस्मिन् जायते भूपो विख्यातो वा जनो भवेत्॥ १२॥
कोणेशत्वे यदैकस्य केन्द्रेशत्वं च जायते।
केन्द्रे कोणे स्थितो वाऽसौ विशेषाद्योगकारकः॥ १३॥
केन्द्रेशत्वेन पापानां या प्रोक्ता शुभकारिता।
सा त्रिकोणाधिपत्येऽपि न केन्द्रेशत्वमात्रतः॥ १४॥
केन्द्रकोणाधिपावेव पापस्थानाधिपौ यदा।
तयोः सम्बन्धमात्रेण न योगं लभते नरः॥ १५॥
यद्भावेशयुतौ वापि यद्यद्भावसमागतौ।
तत्तत्फलानि प्रबलौ प्रदिशेतां तमोप्रहौ॥ १६॥
यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ।
नाथेनात्यतरेणाढ्यौ दृष्टौ वा योगकारकौ॥ १७॥
कस्मिल्लग्ने प्रजातस्य के ग्रहा योगकारकाः।
के चाऽशुभप्रदाः खेटाः कृपया वदे मे मुने॥ १८॥
यथा पृष्टं त्वया विप्र तथोदाहरणं ब्रुवे।
रन्ध्रेशत्वेऽपि भूपुत्रो भवेच्छूभसहायवान्॥ १९॥
मन्दसौम्यसिताः पापाः शुभौ गुरुदिवाकरौ।
न शुभं योगमत्रेण प्रभवेच्छनिजीवयोः॥ २०॥
पारतन्त्र्येण जीवस्य पापकर्मापि निश्चितम्।
शुक्रः साक्षान्निहन्ता स्यान्मारकत्वेन लक्षितः॥ २१॥
मन्दादयोऽपि हन्तारो भवेयुः पापिनो ग्रहाः।
मेषलग्नोद्भवस्यैवं फलं ज्ञेयं द्विजोत्तम॥ २२॥
जीवशुक्रेन्दवः पापाः शुभौ शनिदिवाकरौ।
राजयोगकरः सौरिर्बुधस्त्वल्पशुभप्रदः॥ २३॥
जीवादयो कुजश्चापि सन्ति मारकलक्षणाः।
वृषलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः॥ २४॥
भौमजीवारुणाः पापाः एक एव कविः सुभः।
शनैश्चरणे जीवस्य योगो मेषभवो यथा॥ २५॥
शशी मुखनिहन्ताऽसौ साहचर्याच्च पाकदः।
द्वन्द्वलग्नोद्भवस्यैवं फलान्यूह्यानि पंडितैः॥ २६॥
भार्गवेन्दुसुतौ पापौ भूसुतेज्येन्दवः शुभाः।
पूर्णयोगकरः साक्षान्मंगलो मंगलप्रदः॥ २७॥
निहन्ताऽर्कसुतोऽर्कस्तु साहचर्यात् फलप्रदः।
कर्कलग्नोद्भवस्यैवं फलं प्रोक्तं मनीषिभिः॥ २८॥
सौम्यशुक्रार्कजाः पापाः कुजेज्यार्काः शुभावहाः।
प्रभवेद्योगमात्रेण न शुभं गुरुशुक्रयोः॥ २९॥
मारकस्तु शनिश्चन्द्रः साहचर्यात् फलप्रदः।
सिंहलग्ने प्रजातस्य फलं ज्ञेयं विपश्चिता॥ ३०॥
कुजजीवेन्दवः पापाः बुधशुक्रौ शुभावहौ।
भार्गवेन्दुसुतावेव भवेतां योगकारकौ॥ ३१॥
मारकोऽपि कविः सूर्यः साहचर्यफलप्रदः।
कन्यालग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः॥ ३२॥
जीवार्कभूसुताः पापाः शनैश्चरबुधौ शुभौ।
भवेतां राजयोगस्य कारकौ चन्द्रतत्सुतौ॥ ३३॥
कुजो निहन्ति जीवाद्याः पापा मारकलक्षणाः।
शुक्रः समः फलान्येवं विज्ञेयानि तुलोद्भवे॥ ३४॥
सितज्ञशनयः पापाः शुभौ गुरुनिशाकरौ।
सूर्याचन्द्रमसावेव भवेतां योगकारकौ॥ ३५॥
कुजः समः सिताद्याश्च पापा मारकलक्षणाः।
एवं फलं च विज्ञेयं वृश्चिकोदयजन्मनः॥ ३६॥
एक एव कविः पापः शुभौ भौमदिवाकरौ।
योगो भास्करसौम्याभ्यां निहन्ता भास्करात्मजः॥ ३७॥
गुरुः समफलः ख्यातः शुक्रो मारकलक्षणः।
धनुर्लग्नोद्भवस्यैवं फलं ज्ञेयं विपश्चिता॥ ३८॥
कुजजीवेन्दवः पापाः शुभौ भार्गवचन्द्रजौ।
मन्दः स्वयं न हन्ता स्याद् हन्ति पापाः कुजादयः॥ ३९॥
सूर्यः समफलः प्रोक्तः कविरेकः सुयोगकृत्।
मृगलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः॥ ४०॥
जीवचन्द्रकुजाः पापाः शुक्रसूर्यात्मजौ शुभौ।
राजयोगकरो ज्ञेजः कविरेव बृहस्पतिः॥ ४१॥
सूर्यो भौमश्च हन्तारो बुधो मध्यफलः स्मृतः।
कुम्भलग्नोद् भवस्यैवं फलान्यूह्यानि सूरिभिः॥ ४२॥
मन्दशुक्रांशुमत्सौम्याः पापा भौमविधू शुभौ।
महीसुतगुरू योगकारकौ च महीसुतः॥ ४३॥
मारकोऽपि न हन्ताऽसौ मन्दज्ञौ मारकौ स्मृतौ।
मीनलग्नोद् भवस्यैवं फलानि परिचिन्तयेत्॥ ४४॥
एवं भावाधिपत्येन जन्मलग्नवशादिह।
शुभत्वमशुभत्व च ग्रहाणां प्रतिपादितम्॥ ४५॥
अत्यानपि पुनर्योगान् नाभसादीन् विचिन्त्य वै।
देहिना च फलं वाच्यं प्रवक्ष्यामि च तानहम्॥ ४६॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 34 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%AA_(%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%95%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=74911