बृहत्पाराशरहोराशास्त्रम् 30.1
अथोपपदमाश्रित्य कथयामि फलं द्विज।
युच्छुभत्वे भवेन्नृणां पुत्रदारादिजं सुखम्॥ १॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथोपपदमाश्रित्य कथयामि फलं द्विज।
युच्छुभत्वे भवेन्नृणां पुत्रदारादिजं सुखम्॥ १॥
तनुभावपदं विप्र प्रधानं पदमुच्यते।
तनोरनुचराद्यत् स्यादुपारूढं तदुच्यते॥ २॥
तदेवोपपदं नाम तथा गौणपदं स्मृतम्।
शुभखेटगृहे तस्मिन् शुभग्रहयुतेक्षिते॥ ३॥
पुत्रदारसुखं पूर्णं जायते द्विजसत्तम।
पापग्रहयुते तत्र पापभे पापवीक्षिते॥ ४॥
प्रव्राजको भवेज्जतो दारहीनोऽथ वा नरः।
शुभदृग्योगतो नैव योगोऽयं दारनाशकः॥ ५॥
रविर्नैवात्र पापः स्यात् स्वोच्चमित्रस्वभस्थितः।
नीचशत्रुगृहस्थश्चेत्तदाऽसौ पाप एव हि॥ ६॥
शुभग्रहाणां दृष्टिश्चेदुपारूढाद् द्वितीयके।
शुभर्क्षे शुभयुक्ते च पूर्वोक्तं हि फलं स्मृतम्॥ ७॥
उपारूढाद् द्वितीयं च नीचांशे नीचखेटयुक्।
क्रूरग्रहसमायुक्तं जातको दारहा भवेत्॥ ८॥
स्वोच्चांशे स्वोच्चसंस्थे वा तुङ्गदृष्टिवशात् तथा।
भवन्ति बहवो दारा रूपलक्षणसंयुताः॥ ९॥
उपारूढे द्वितीये वा मिथुने संस्थिते सति।
तत्र जातनरो विप्र बहुदारयुतो भवेत्॥ १०॥
उपारूढे द्वितीयेऽपि स्वस्वामिग्रहसंयुते।
स्वर्क्षगे तत्पतौ वापि यत्र कुत्रापि भूसुर॥ ११॥
यस्य जन्मनि योगोऽयं स नरो द्विजसत्तम।
उत्तरायुषि निर्दारो भवत्येव न संशयः॥ १२॥
स्वराशौ संस्थितेऽप्येवं नित्याख्ये दारकारके।
उत्तरायुषि निर्दारो भवत्येव न संशयः॥ १३॥
उपारूढपतिः स्वोच्चे स्थिरस्त्रीकारकोऽथ वा।
सुकुलाद् दारलाभः स्यान्नीचस्थे तु विपर्ययात्॥ १४॥
उपारूढे द्वितीये वा शुभसम्बधतो द्विज।
जातस्य सुन्दरी भार्या भव्या रूपगुणान्विता॥ १५॥
उपारूढाद् द्वितीये च शनिराहू स्थितौ यदि।
उपवादात् स्त्रियस्त्यागो नाशो वा जायते द्विज॥ १६॥
उपारूढे द्वितीये वा शिखिशुक्रौ यदा स्थितौ।
रक्तप्रदररोगार्ता जायते तस्य भामिनी॥ १७॥
बुधकेतू स्थितौ तत्र तदाऽस्थिस्रावसंयुता।
तत्रस्थाः शनिराह्वर्कास्तदाऽस्थिज्वरसंयुता॥ १८॥
स्थूलाङ्गी बुधराहूभ्यां तत्रस्थाभ्यां द्विजोत्तम।
बुधक्षेत्रे कुजार्की चेन्नसिकारोगसंयुता॥ १९॥
कुजक्षेत्रेऽप्येवमेव फलं ज्ञेयं द्विजोत्तम।
बृहस्पतिशनी तत्र कर्णनेत्ररुजान्विता॥ २०॥
तत्रान्यगेहगौ विप्र बुद्धभौमौ स्थितौ यदा।
यदा स्वर्भानुदेवेज्यौ भार्या दन्तरुजान्विता॥ २१॥
शनिराहू शनिक्षेत्रे पङ्गुर्वातरुजान्विता।
शुभदृग्योगतो नेति फलं ज्ञेयं विपश्चिता॥ २२॥
लग्नात् पदादुपारूढाद् यो राशिः सप्तमो द्विज।
तस्मात् तत्स्वामिनः खेटात् तदंशाच्च द्विजोत्तम॥ २३॥
एवमेव फलं ज्ञेयमित्याहुर्नारदादयः।
उक्तेभ्यो नवमे विप्र शनिचन्द्रबुधा यदि॥ २४॥
अपुत्रता तथाऽर्केज्यराहुभिर्बहुपुत्रता।
चन्द्रेणैकसुतस्तत्र मिश्रैः पुत्रो विलम्बतः॥ २५॥
रवीय्जराहुयोगेन पुत्रो वीर्यप्रतापवान्।
प्रचण्डविजयी विप्र रिपुनिग्रहकारकः॥ २६॥
उक्तस्थाने कुजार्किभ्यां पुत्रहीनः प्रजायते।
दत्त पुत्रयुतो वापि सहोत्थसुतवान् भवेत्॥ २७॥
तत्रस्थे विषमे राशौ बहुपुत्र्युतो नरः।
स्वल्पापत्यः समे राशौ जायते द्विजसत्तम १॥ २८॥
सिंहे चोपपदे विप्र निशानाथयुतेक्षिते।
अल्पप्रजोऽथ कन्यायां जातः कन्याप्रजो भवेत्॥ २९॥
सुतभावनवांशाच्च स्थिरसन्ततिकारकात्।
एवं त्रिशांशकुण्डल्यामपि योगं विचिन्तयेत्॥ ३०॥
शनिराहू त्रिलाभस्थौ पदाद् भ्रातुर्विनाशकौ।
ज्येष्ठस्यैकादशे तत्र कनिष्ठस्य तृतीयके॥ ३१॥
दैतेज्ये तत्र गर्भस्य नाशो व्यवहितस्य च।
लग्ने वापि पदे रन्ध्रे दैत्याचार्ययुतेक्षिते॥ ३२॥
तथैव फलमित्याहुर्निर्विशंकं मुनीश्चराः।
तृतीयलाभयोर्विप्र चन्द्रेज्यबुधमङ्गलाः॥ ३३॥
बहवो भ्रातरस्तस्य बलवन्तः प्रतापिनः।
शन्यारसंयुते दृष्टे तृतीयैकादशे द्विज॥ ३४॥
कनिष्ठज्येष्ठयोर्नाशो दिवज्ञेयो द्विजसत्तम।
शनिरेको यदा विप्र लाभगो वा तृतीयगः॥ ३५॥
तदा स्वमात्रशेषः स्यादन्ये नश्यन्ति सोदराः।
तृतीये लाभगे केतौ बहुलं भगिनीसुखम्॥ ३६॥
आरूढात् षष्ठभावस्थे पापाख्ये शुभवर्जिते।
शुभसम्बन्धरहिते चौरो भवति जातकः॥ ३७॥
सप्तमे द्वादशे स्थाने सैहिकेययुतेक्षिते।
ज्ञानवांश्च भवेद् बालो बहुभाग्ययुतो द्विज॥ ३८॥
आरूढे संस्थिते सौम्ये सर्वदेशाधिपो भवेत्।
सर्वज्ञस्तत्र देवेज्ये कविर्वादी च भार्गवे॥ ३९॥
उपारूढात् पदाद् वापि धनस्थे शुभखेचरे।
सर्वद्रव्याधिपो धीमाञ्जायते द्विजसत्तम॥ ४०॥
उपारूढाद्धनाधीशे द्वितियभवनस्थिते।
पापखेचरसंयुक्ते चौरो भवति निश्चितम्॥ ४१॥
तत्सप्तमगृहाधीशाद् राहौ धनगते द्विज।
दंष्ट्रावान् जायते बालः स्तब्धवाक् केतुखेचरे॥ ४२॥
शनैश्चरे कुरूपः स्यात्सप्तमेशाद् द्वितीयगे।
मिश्रग्रहसमायुक्ते फलं मिश्रं समादिशेत्॥ ४३॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 30 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A9%E0%A5%A6_(%E0%A4%85%E0%A4%A5%E0%A5%8B%E0%A4%AA%E0%A4%AA%E0%A4%A6%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=74907