बृहत्पाराशरहोराशास्त्रम् 28.1
अथ चेष्टमनिष्टं च ग्रहानां कथयाम्यहम्।
यद्वशाच्च प्रयच्छन्ति शुभाऽशुभदशाफलम्॥ १॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ चेष्टमनिष्टं च ग्रहानां कथयाम्यहम्।
यद्वशाच्च प्रयच्छन्ति शुभाऽशुभदशाफलम्॥ १॥
स्वनीचोनो ग्रह शोध्यः षड्भाधिक्ये भमण्डलात्।
सैको राशिर्भवेदुच्चरश्मिर्द्विघ्नांशसंयुतः॥ २॥
चेष्टाकेन्द्राच्च तद्रश्मिं साधयेदुच्चरश्मिवत्।
चेष्टाकेन्द्रं कुजादीनां पूर्वमुक्तं मया द्विज॥ ३॥
सायनार्कस्त्रिभोऽर्कस्य व्यर्केन्दुश्च विधोस्तथा।
चेष्टाकेन्द्रं रसाल्पं तच्चक्राच्छोध्यं रसाधिके॥ ४॥
चेष्टोच्चरश्मियोगार्धं शुभरश्मिः प्रकीर्त्यते।
अष्टभ्यश्च विशुद्धोऽसाबशुभाख्यश्च कथ्यते॥ ५॥
उच्चचेष्टाकरान् व्येकान् दिग्भिर्हत्वा तु योजयेत्।
तदर्धमिष्टसंज्ञं स्यात् कष्टं तत्षष्टितश्च्युतम्॥ ६॥
स्वोच्चे मूलत्रिकोणे च स्वभेऽधिसुहृदीष्टभे।
समभे शत्रुभे चाधिशत्रुभे नीचभे क्रमात्॥ ७॥
षष्टिरिष्वब्धयस्त्रिंशदाकृतिस्तिथयो गजाः।
चत्वारो द्वौ च शून्यं च शुभमेतत्फलं गृहे॥ ८॥
षष्टितः पतितं चैतच्छेषं स्यादशुभं गृहे।
तदर्धमन्यवर्गेषु ज्ञेयं विप्र शुभाऽशुभम्॥ ९॥
पञ्चस्विष्टफलं चाद्यात् समं षष्ठे ततः परम्।
अशुभं त्रिषु विज्ञेयमिति शास्त्रेषु निश्चितम्॥ १०॥
दिग्बलं दिक्फलं तस्य तथा दिनफलं भवेत्।
तयोः फलं शुभं प्रोक्तमशुभं षष्टितश्च्युतम्॥ ११॥
शुभेऽधिके शुभं ज्ञेयमशुभं त्वशुभेऽधिके।
दशाफलं नभोगस्य तथा भावफलं द्विज॥ १२॥
बलैः षड्भिः समोधित्वा बलैक्येन भजेत् पृथक्।
तत्तद्बलफलानि स्युरशुभानि शुभानि च॥ १३॥
शुभपापफलाभ्यां च हन्याद् दृष्टिं बलं तथा।
दृष्टी ते शुभपापाख्ये बले स्यातां तदाह्वये॥ १४॥
भावानां च फले प्रोक्ते पतीनां च फले उभे।
राशौ शुभनभोगश्चेद् भावसाधनसंभवम्॥ १५॥
फलं तस्य शुभे युञ्ज्यादशुभे वर्जयेत् तथा।
पापश्चेदन्यथा चैवं बले दृष्ट्यां तथैव च॥ १६॥
युञ्ज्यादुच्चादिगे खेटे फलं नीचादिगे त्यजेत्।
एवं शुभाऽशुभं ज्ञात्वा जातकस्य फलं वदेत्॥ १७॥
अष्टवर्गफलं चैवं स्थाने च करणेऽन्यथा।
राशिद्वयगते भावे तद्राश्यधिपतेः क्रिया॥ १८॥
स्थानाधिकेन भावेन भावलाभः प्रकीर्तितः।
तत्समाने च तद्भावे तदानीं स्थानदान् ग्रहान्॥ १९॥
संयोज्ये स्थानसंख्याया दलमेतत्समं फलं।
एवं सखेटभावानां फलं ज्ञेयं शुभाऽशुभम्॥ २०॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 28 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%AE_(%E0%A4%85%E0%A4%A5%E0%A5%87%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=74898