बृहत्पाराशरहोराशास्त्रम् 27.1
अथ स्पष्टबलं वक्ष्ये स्थानकालादिसम्भवम्।
नीचोनां खचरं भार्धाधिक चक्राद् विशोधयेत्॥ १॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ स्पष्टबलं वक्ष्ये स्थानकालादिसम्भवम्।
नीचोनां खचरं भार्धाधिक चक्राद् विशोधयेत्॥ १॥
भागीकृत्य त्रिभिर्भक्तं लब्धमुच्चबलं भवेत्।
स्वत्रिकोणस्वगेहाधिमित्रमित्रसमारिषु॥ २॥
अधिशत्रुगृहे चापि स्थितानां क्रमशो बलम्।
भूताब्धयः खाग्निनखास्तिथ्यो दश युगाः कराः॥ ३॥
एवं होरादृकाणाद्रिभागांकद्वादशांशजम्।
त्रिंशांशजं तदैक्यञ्च सप्तवर्गसमुद्भवम्॥ ४॥
शुक्रेन्दू समभांशेऽन्ये विषमेऽङ्घ्रिमितं बलम्।
केन्द्रादिषुस्थिताः खेटाः पूर्णाऽर्धाऽङ्घ्रिमितं क्रमात्॥ ५॥
आद्यमध्यावसानेषु द्रेष्काणेषु स्थिताः क्रमात्।
पुंनपुंसकयोषाख्या दद्युरङ्घ्रिमितं बलम्॥ ६॥
सूर्यात् कुजात् सुखं जीवाज्ज्ञाच्चाऽस्तं लग्नमार्क्रितः।
दशमं च भृगोश्चन्द्राद् हित्वा षड्भाधिके सति॥ ७॥
चक्राद् विशोध्य तद्भागास्त्रिभिर्भक्ताश्च दिग्बलम्।
इष्टाधटि निशीथात्तन्नतं त्रिंशच्च्युतं नतम्॥ ८॥
चन्द्रभौमशनीनां च नतं द्विघ्नं कलादिकम्।
षष्टिशुद्धं तदन्येषां सदा रूपं बुधस्य हि॥ ९॥
अथ पक्षबलं वक्ष्ये सूर्ये चन्द्राद् विशोध्य च।
षड्भाधिके विशोध्यार्काद् भागीकृत्त्य त्रिभिर्भजेत्॥ १०॥
पक्षजं बलमिन्दुज्ञशुक्रेज्यानां तु षष्टितः।
विशोध्य तब्दलं ज्ञेनं पापानां पक्षसंभवम्॥ ११॥
दिनत्र्यंशेषु सौम्यार्कशनीनां निट्त्रिभागके।
चन्द्रशुक्रकुजानां च बलं पूर्णं सदा गुरोः॥ १२॥
वषमासदिनेशानां तिथ्यस्त्रिंशच्छरार्णवां।
होरेशस्य बलं षष्टिरुक्तं नैसर्गिकं पुरा॥ १३॥
तन्मानां सप्तहृत्षष्टिरेकाद्येकोत्तरैर्हता।
शमंबुगुशुचंरादिखेटानां क्रमतो द्विज॥ १४॥
पञ्चाब्धयः सुराः सूर्याः खण्डकांशाः क्रमादमी।
सायनग्रहदोराशितुल्यखण्डयुतिश्च स॥ १५॥
भागादिकहतादेष्यात् त्रिंशल्लब्धयुता लवाः।
स्वमृणं तुलमेषादौ शनीन्द्वोश्च त्रिराशिषु॥ १६॥
तथाऽरार्केज्यशुक्राणां व्यस्तं ज्ञस्य सदा धनम्।
तद्भागाश्च त्रिभिर्भक्ता ज्ञेयमायनजं बलम्॥ १७॥
यद्रवेरायनं वीर्यं चेष्टाख्यं तावदेव हि।
विधोः पक्षबलं यावत् तावच्चेष्टाबलं स्मृतम्॥ १८॥
पापदृक्पादहीनं तच्छुभदृक्पादयुक् तथा।
बलैक्यं ज्ञेज्यदृक्युक्तमेवं खेटबलं भवेत्॥ १९॥
अथ तारग्रहाणां तु युद्ध्यतोश्च द्वयोर्मिथः।
बलान्तरं विजेतुः स्वं निर्जितस्य बले त्वृणम्॥ २०॥
चक्रानुवक्रा विकला मन्दा मन्दतरा समा।
चरा चाऽतिचरा चेति ग्रहाणामष्टधा गतिः॥ २१॥
षष्टिर्वक्रगते वीर्यमनुवक्रगतेर्दलम्।
पादो विकलभुक्तेः स्यात् तथा मध्यगतेर्दलम्॥ २२॥
पादो मन्दगतेस्तस्य दलं मन्दतरस्य हि।
चरभुक्तेस्तु पादोनां दलं स्यादतिचारिणः॥ २३॥
मध्यमस्फुटयोगार्धहीनं स्वस्वचलोच्चकम्।
षड्भाधिकं च्युतं चक्राच्चेष्टाकेन्द्रं स्मृतं कुजात्॥ २४॥
भागीकृतं त्रिभिर्भक्तं लब्धं चेष्टाबलं त्विति।
स्थानदिक्कालदृक्चेष्टानिसर्गोत्थं च षड्विधम्॥ २५॥
एवं ग्रहबलं प्रोक्तमथ भावबलं श्रृणु।
कन्यायुग्मतुलाकुम्भचापाद्यार्धाश्च सप्तमम्॥ २६॥
गोऽजसिंहमृगाद्यार्धचापान्त्यार्धात् सुखं त्यजेत्।
कर्कवृश्चिकतो लग्नं मृगात्यार्धाज्झषाश्च खम्॥ २७॥
शोध्यमङ्गाधिकं चक्राच्च्युतं भागीकृतं त्रिहृत्।
सद्दृष्टिपादयुक्पापपापदृष्टिपादविवर्जितम्॥ २८॥
ज्ञेज्यदृष्टियुतं तच्च स्वस्वस्वामिबलान्वितम्।
इति भावबलं स्पष्टं सामान्यं च पुरोदितम्॥ २९॥
बुधेज्ययुक्तभावस्य बलमेकेन संयुतम्।
मन्दाररवियुक्तस्य बलमेकेन वर्जितम्॥ ३०॥
दिने शीर्षोदयो भावः सन्ध्यायामुभयोदयः।
निशि पृष्ठोदयाख्यश्च दद्यात् पादमितं बलम्॥ ३१॥
अंकाग्नयोऽङ्गरामाश्च खाग्नया करसिन्धवः।
नवाग्नयः सुरास्त्रिंशद् दशसंगुणिताः क्रमात्॥ ३२॥
रव्यादीनां बलैक्यश्चेत् तदा सुबलिनो मताः।
अधिकं पूर्णमेव स्याद् बलं चेद्बलिनो द्विज॥ ३३॥
गुरुसौम्यरवीणां तु भूतषट्केन्दवो द्विज।
पंचाग्नयः खभूतानि करभूमिसुधाकराः॥ ३४॥
खाग्नयश्च क्रमात्स्थानदिक्चेष्टासमयाऽयने।
सितेन्द्वोस्त्र्यग्निचन्द्राश्च खेषवः खाग्नयः शतम्॥ ३५॥
चत्वारिंशत् कला भौममन्दयोः षण्णव क्रमात्।
त्रिंशत् खवेदाः सप्ताङ्गा नखाश्चेत्युदिता द्विज॥ ३६॥
एवं कृत्वा बलैक्यंच ततश्चिन्त्यम् फलं द्विज।
भावस्थानग्रहैः प्रोक्तयोगे ये योगहेतवः॥ ३७॥
तेषां मध्ये बली कर्ता स एवाऽस्य फलप्रदः।
योगेष्वाप्तेषु बहुषु नीतिरेवं प्रकीर्तिता॥ ३८॥
गणितेषु प्रवीणो यः शब्दशास्त्रे कृतश्रमः।
न्यायविद् बुद्धिमान् देशदिक्कालज्ञो जितेन्द्रियः॥ ३९॥
ऊहापोहपटुर्होरास्कन्धश्रवणसम्मतः।
मैत्रेय सत्यतां यादि तस्य वाक्यं न संशयः॥ ४०॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 27 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%AD_(%E0%A4%B8%E0%A5%8D%E0%A4%AA%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%AC%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=74899