फलदीपिका 22.1
कालचक्र दशा
दस्रादितः पादवशेन मेषान्न्-
मीनाम्शकान्तं क्रमशोऽपसव्यम् |
कीटाद्धयान्तं गणयेच्च सव्य-
मार्गेण पादक्रमशोऽजतारात् || १||
28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
कालचक्र दशा
दस्रादितः पादवशेन मेषान्न्-
मीनाम्शकान्तं क्रमशोऽपसव्यम् |
कीटाद्धयान्तं गणयेच्च सव्य-
मार्गेण पादक्रमशोऽजतारात् || १||
एवं भूयाच्चापसव्यं च सव्यं
भानि त्रीणि त्रीणि विद्यात्क्रमेण |
तद्राशीशप्रोक्तवर्षैर्दशास्य
देवं प्राहुः कालचक्रे महान्तः || २||
मनुः परः सनिर्धनिर्नृपस्तपो वने क्रमात् |
दिवाकरदिवत्सराः शुभाशुभाप्तिहेतवः || ३||
दसःअपहारादिककालचक्रे
वाक्यानि दस्रादिपदादिजानि |
दक्ष्यामि वर्णैर्नवभिर्भमानै
राशीशवर्षैः परमायुरत्र || ४||
पौरं गावो मित सन्दिग्धं
नक्षत्रेन्दुः स तु भूशूलम् |
रूपेत्रक्षन्निधयोरङ्गे
वाणी चस्थं दधि नक्षत्रम् || ५||
दासत्वेशो गौरीपुत्रं
क्षन्निधिकारो गोभूशेषम् |
सौदधिनक्षत्रेहासन्तो
भौमगुरुः पुत्राक्षोनाधिः || ६||
वाक्यान्येतान्यश्वियाम्यर्क्षयोर्या-
न्यश्विन्याद्यन्यग्निभस्यापसव्ये |
सव्येऽजेन्द्वोर्वक्ष्यमाणेषु वाक्ये-
ष्विन्दोर्वक्यान्येव रौद्रस्य भूयः || ७||
धेनुः क्षेत्रे पुरगो शंभु-
स्तासां जत्रु क्षन्निधि दासी |
चर्माभोगी रायधिनाक्ष-
स्त्रीपौराङ्गी शिवतीर्थाब्जे || ८||
त्रक्षनिधिर्दा सूचिशंभो
सौरयधी नक्षत्रं पारम् |
गोशिवतीर्थे दात्रिक्ष्न्नो
धीहसितांशुभोर्गी रम्या || ९||
नक्षत्रपादैष्यघटी समुत्था
पूर्वा दशा तत्पतिवर्षजाता |
पूर्वोक्तपादक्रमशोऽत्र विद्यात्-
केषांचिदेवं मतमाहुरार्या || १०||
दस्रादिपादप्रभृतीनि भानां
वाक्यानि यान्यक्षरपंक्तिजानि |
तेषां क्रमेणैव दशा प्रकल्प्या
वाक्यक्रमं साध्विति केचिदाहुः || ११||
वाक्यक्रमे कर्क्यलिमीनसन्धौ
मण्डूकगत्यश्वरप्लुतिश्च |
सिंहावलोकस्त्रिविधा तदानीं
दशान्तरं दुःखफलप्रदं स्यात् || १२||
तद्वाक्यवर्णक्रमशोपहार-
वर्षाहते तत्परमायुराप्ते |
तदा दशायामपहारवर्ष-
संख्याश्च मासान्दिवसान्वदेयुः || १३||
वाक्येषु यावच्छरदां प्रमाणं
वदन्ति तावत्परमायुरत्र |
मेषादनीकं मदनं गजेन
तुन्दः पुनश्चैवमुदीरितं तत् || १४||
उत्पन्न आधान आउर क्षेम महादशा
महादशासु यत्फलं प्रकीर्तितं मया पुरा |
तदेव योजयेद् बुधो दशासु चैवमादिषु || १५||
जन्मर्क्षात्परतस्तु पञ्चमभवाऽथोत्पन्नसंज्ञा दशा
स्यादाधानदशाऽप्यतोऽष्टमभवात् क्षेमान्महाख्या दशा |
आसामेव दशावसानसमये मृत्युप्रदा स्यान्नृणां
स्वल्पानल्पसमायुषां त्रिवधपञ्चर्क्षेशदायान्तिमे || १६||
निसर्गदशा
एकं द्वे नव विंशतिर्धृतिकृतिः पञ्चाशदेषां क्रमात्
चन्द्रारेन्दुजशुक्रजीवदिनकृद्दैवाकरीणां समाः |
स्वै स्वैः पुष्टफला निसर्गजनितैः पक्तिर्दशाया क्रमा-
दन्ते लग्नदशा हुभेति यवना नेच्छन्ति केचित्तथा || १७||
अंशदशा
लिप्तीकृत्य भजेद्र्ग्रहं खखजिनैस्तच्छिष्टमायुष्कला
आशाखाश्विहृताब्दमदिवसाः सत्योदितेऽम्शायुषी |
वक्रिण्युच्चगते त्रिसङ्गुणमिदं स्वांशत्रिभागोत्तमे
द्विघ्नं नीचगतेऽर्धमप्यथ दलं मौढ्ये सितार्की विना || १८||
सर्वार्द्धत्रिकृतेषुषण्मितलवह्लासोऽसतामुत्क्रमा-
द्रिःफात्सत्सु दलं तदा हरति बल्येको बहुष्वेकभे |
त्र्यंशोनं रिपुभे विना क्षितिसुतं सत्योपदेशे दशा
लग्नस्यांशसमा बलिन्युदयभेऽस्यात्रापि तुल्यापि च || १९||
तस्योपदेशो वरमत्र किन्तु
कुर्वन्त्ययोग्यं बहुवर्गणभिः |
आचार्यकं त्वत्र बहुघ्नतायाम्
एको तु यद्भुरि तदेव कार्यम् || २०||
पिण्डायुर्दशा
धेयं शूर शके श्रियं स्मय परे निद्राः समा भास्करात्
पिण्डाख्ययुषि पूर्वच्च हरणं सर्व विदध्यादिह |
लग्ने पापिनि भं विनोदयलवैर्निघ्नं नताङ्गैर्हृतं
त्याज्यं सौम्यनिरीक्षितेऽर्धमृणमत्रायुष्यभिज्ञा विदुः || २१||
लग्नदशामंशसमां बलवत्यंशे वदन्ति पैण्डाख्ये |
बलयुक्तं यदि लग्नं राशिसमैवात्र नांशोत्वा || २२||
हरणं नीचेऽर्द्धमृणं स्यात्पूर्णं प्रोक्तवर्षमुच्चगृहे |
पैण्डादौ व्द्यन्तरगे प्राज्ञैस्त्रैराशिकं चिन्त्यम् || २३||
पैण्डाख्यमायुर्ब्रुर्वते प्रधानं
मणित्थचाणक्यमयादयश्च |
एतन्न साध्वित्यवदद्भदन्तो
वराहसूर्यस्य तथैव वाक्यम् || २४||
सूर्यादिकानां स्वमतेन जीव-
शर्म स्वरांशं परमायुषोऽत्र |
अस्यापि सर्व हरणं विधेयं
पूर्वोक्तिवल्लग्नदशामपीह || २५||
नॄणां द्वादशवत्सरा दशहता ह्यायुःप्रमाणं परै-
राख्यातं परमं शनेस्त्रिभगणं यावत्परैरीरितम् |
कैश्चिच्चन्द्रसहस्रदर्शनमिह प्रोक्तं कलौ किन्तु यत्
वेदोक्तं शरदः शतं हि परमायुर्दायमाचक्ष्महे || २६||
लग्नादित्येन्दुकानामधिकबलवतः स्याद्दशादौ ततोऽन्या
तत्केन्द्रादिस्थितानामिह बहुषु पुनर्वीर्यतो वीर्यसाम्ये |
बह्वायुर्वर्षदातुः प्रथममिनवशाच्चोदितस्याब्दसाम्ये
वीर्यं किन्त्वत्र सन्धिग्रहविवरहतं भावसन्ध्यन्तराप्तम् || २७||
अंशोद्भवं लग्नबलात्प्रसाध्य-
मायुश्च पिण्डोद्भवमर्कवीर्यात् |
नैसर्गिकं चन्द्रबलात्प्रसाध्यं
ब्रूमस्रयाणामपि वीर्यसाम्ये || २८||
तेषां त्रयाणामिह संयुतिस्तु
त्रिभिर्हृता सैव दशा प्रकल्प्या |
वीर्ये द्वयोरैक्यदलं तयोः स्यात्
चेज्जीवशर्मायुरमी बलोनाः || २९||
कालचक्रदशा ज्ञेया चन्द्रांशेशे बलान्विते |
सदा नक्षत्रमार्गेण दशा बलवती स्मृता || ३०||
समाः षष्टिद्विघ्ना मनुजकरिणां पञ्च च निशा
हयानां द्वत्रिंशत्खरकरभयोः पञ्चककृतिः |
विरूपा साप्यायुर्वृषमहिषयोद्वदिश शुनां
स्मृतं छागादीनां दशकसहिताः षट् च परमम् || ३१||
ये धर्मकर्मनिरता विजितेन्द्रिया ये
ये पथ्यभोजनजुषो द्विजदेवभक्ताः |
लोके नरा दधति ये कुलशीललिलां
तेषामिदं कथितमायुरुदारधीभिः || ३२||
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 22 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%95%E0%A4%BE%E0%A4%B2%E0%A4%9A%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A4%B6%E0%A4%BE)&oldid=73763