Astrological HarshAuthor · Teacher · Researcher
अध्ययन · संस्कृत · शास्त्रीय संदर्भSTUDY · SANSKRIT · CLASSICAL REFERENCES

फलदीपिका · अध्याय 21 · एकविंशोऽध्यायः (प्रत्यन्तर्दशाफलम्)

शास्त्रीय ग्रंथ केन्द्र / फलदीपिका

28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।

मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।

फलदीपिका 21.1

प्रत्यन्तर्दशाफल
अपहारविभागलक्षणं तत्पंक्तिं क्रमशः स्फुटं प्रवचिम् |
यदुदीरितमत्र तत्समस्तं कथयेत्स्वदशान्तरान्तरादौ || १||

फलदीपिका 21.2

पाकेशाब्दहता दशेश्वरसमा नेत्राङ्कभक्ताः समाः
शिष्ट रूपहता नराङ्कविहृता मासा नगैर्वासराः |
छिद्रादिष्वपि चैवमेव कलयेत्पाकक्रमाच्चेद्दशा-
नाथाद्या पुनरन्तरान्तरदशास्तत्पाकनाथक्रमाः || २||

फलदीपिका 21.3

सूर्य
महीश्वरादुपलभतेऽधिकं यशो
वनाचलस्थलवसतिं धनागमम् |
ज्वरोष्णरुग्जनकवियोगजं भयं
निजां दशां प्रविशति नीक्षणदीधितौ || ३||

फलदीपिका 21.4

रिपुक्षयो व्यसनशमो धनागमः
कृषिक्रिया गृहकरणं सुहृद्युतिः
क्षयानलप्रतिहतिरकर्दायकं
शशी यदा हरति जलोद्भवा रुजः || ४ ||

फलदीपिका 21.5

रुजागमः पदविरहोऽरिपीडनं
वर्णोद्भवः स्वकुलजनैर्वरोधिता
महीभृतो भवति भयं धनच्युति
यर्दा कुजो हरति तद्ऽर्कर्वत्सरम् || ५ ||

फलदीपिका 21.6

रिपूदयो धनहृतिरापदुद्गमो
विषाद्भयं विषयविमूढता पुनः
शिरोदृशोरधिकरुगेव देहिनाम्
अहौ भवेधिमकरायुरन्तरो || ६||

फलदीपिका 21.7

रिपुक्षयो विविधधनाप्तिरन्वहं
सुरार्चनं द्विजगुरुबन्धुपूजनम् |
श्रवःश्रमो भवति च यक्ष्मरोगिता
सुराचिंते प्रविशति गोपशति गोपतेर्दशाम् || ७||

फलदीपिका 21.8

धनाहतिः सुतविरहः स्त्रिया रुजो
गुरुव्ययः सपदि परिच्छदच्युतिः |
मलिष्ठता भवति कफप्रपीदनं
शनैश्चरे सवितृदशान्तरं गते || ८||

फलदीपिका 21.9

विचन्चिका पिटकसकुष्ठकामिला
विशर्धनं जठरकटिप्रपीडनम् |
महीक्षयः त्रिगदभयं भवेत्तदा
विधोः सुते चरति रवेरथाब्दकम् || ९||

फलदीपिका 21.10

सुहृव्द्ययुः स्वजनकुटुम्बविग्रहो
रिपोर्भयं धनहरणं पदच्युतिः |
गुरोर्गदश्चरणशिरोरुगुच्चकैः
शिखी यदा विशति दशां विवस्वतः || १०||

फलदीपिका 21.11

शिरोरुजा जठरगुदातिंपीडनं
कृषिक्रिया गृहधनधन्यविच्युतिः |
सुतस्त्रियोरसुखमतीव देहिनां
भृगोः सुते चरति रवेरथाब्दकम् || ११||

फलदीपिका 21.12

चन्द्र- विचार
स्त्रीप्रजाप्तिरमलांशुकागमो
भूसुरोत्तमसमागमो भवेत् |
मातुरिष्टफलमङ्गनासुखं
स्वां दशां विशति शीतदीधितौ || १२||

फलदीपिका 21.13

पित्तवह्निरुधिरोद्भवा रुजः
क्लेशदुःखरिपुचोरपीडनम् |
वित्तमानविहतिर्भवेत्कुजे
शीतदीधितिदशान्तरं गते || १३||

फलदीपिका 21.14

तीव्रदोषरिपुवृद्धिबन्धुरुङ् मारुताशनिभयातिरुद्भवेत् |
अन्नपानजनितज्वरोदयाश्चन्द्रवत्सरविहारके ह्यहौ || १४||

फलदीपिका 21.15

दानधर्मनिरतिः सुखोदयो वस्त्रभूषणसुहृत्समागमः |
राजसत्कृतिरतीव जायते कैरवप्रियवयोहरे गुरऊ || १५||

फलदीपिका 21.16

नैकरोगविहतिः सुहृत्सुत-
स्त्रीरुजा व्यसनसंभवो महान् |
प्राणहानिरथवा भवेच्छनौ
मारबन्धुवयसो गतेऽन्तरम् || १६||

फलदीपिका 21.18

सर्वदा धनगजाश्वगोकुल-
प्राप्तिराभरणसौख्यसम्पदः |
चित्तबोध इति जायते विधो-
रायुषि प्रवेशति प्रबोधने || १७
चित्तहानिरपि सपदश्च्युति-
र्बन्धुहानिरपि तोयजं भयम् |
दासभृत्यहतिरस्ति देहिनां
केतुके हरति चान्द्रमब्दकम् || १८||

फलदीपिका 21.19

तोययानवसुभूषणाङ्गनाविक्रयक्रयकृषिक्रियादयः |
पुत्रमित्रपशुधान्यसंयुतिश्चन्द्रदायहरणोन्मुखे भृगौ || १९||

फलदीपिका 21.20

राजमाननमतीव शूरता रोगशान्तिररिपक्षविच्युतिः |
पित्तवातरुगिने गते तदा स्याच्छशाङ्कपरिवत्सरान्तरम् || २०||

फलदीपिका 21.21

मंगल की महादशा में विविध अन्तर्दशों का फल
पित्तोष्णरुग्व्रणभयं सहजैवियोगः
क्षेत्रप्रवादजनितार्थविभूतिसिद्धिः |
ज्ञात्यग्निशत्रुनृपचोरजनैविरोधो
धात्रीसुतो हरति चेच्छरदं स्वकीयाम् || २१||

फलदीपिका 21.22

शस्त्राग्निचोररिपुभूपभयं विषातिः
शुक्ष्यक्षिशीर्षजगदो गुरुबन्धुहानिः |
प्राणव्ययोऽथ यदिवा विपुलापदो वा
वक्रायुरन्तरगते भुजगाधिनाथे || २२||

फलदीपिका 21.23

द्विजविबुधसमर्चा तिर्थपुण्यानुसेवा
सततमतिथिपूजा पुत्रमित्रादिवृद्धिः |
श्रवणरुगतिमात्रं श्लेष्मरोगोद्भवो वा
भवतिकुजदशान्तः संगते वागधीशे || २३||

फलदीपिका 21.24

उपर्युपरिविनाशः स्वात्मजस्त्रीगुरूणा-
मगणितविपदन्तर्दुःखमर्थोपहानिः |
वसुहरणमरिभ्यो भीतिरुष्णानिलाग्नि-
र्भवति कुजदशायामर्कजे सम्प्रयाते || २४||

फलदीपिका 21.25

अरिभयमुरुचोरोपद्रवोऽथार्थहानिः
पशुगजतुरगाणां विप्लवोऽमित्रयोगः |
नृपकृतपरिपीडा शूद्रवैरोद्भवो वा
विशति शशितनूजे विष्वधात्रीसुतायुः || २५||

फलदीपिका 21.26

अशनिभयमकस्मादग्निशस्त्रप्रपीडा
विगमनमथ देहाद्वित्तनाशोऽथवा स्यात् |
अपगमनमसुभ्यो योषितो वा विनाशः
प्रविशति यदि केतुः क्रूरनेत्रायुरन्तम् || २६||

फलदीपिका 21.27

युधि जनितविमानं विप्रवासः स्वदेशा-
द्वसुहृतिरपि चोरैर्वमनेत्रोपरोधः |
परिजनपरिहानिर्जायते मानवाना-
मपहरति यदायुर्भौमिजं भार्गवेन्द्रः || २७||

फलदीपिका 21.28

नृपकृतपरिपूजा यद्धलब्धप्रभावः
परिजनधनधान्यश्रीमदन्तःपुरं च |
अतिविलसितकृत्तः साहसादाप्तलक्ष्मी-
स्तिमिरभिदि कुजायुर्दायसंहारिणीति || २८||

फलदीपिका 21.29

विविधधनसुताप्तिविप्रयोगोऽरिवर्गै-
र्वसनशयनभूषारत्नसम्पत्प्रसूतिः |
भवति गुरुजनातिर्गुल्मपित्तप्रपीडा
धरणितनयवर्षं शीतगौ सम्प्रयाते || २९||

फलदीपिका 21.30

राहु की महादशा में विविध अन्तर्दशों का फल
विषाम्बुरुग्दुष्टभुजङ्गदर्शनं
पराबलासंयुतिरिष्टविच्युतिः |
अरिष्टवाग्दुष्टजनव्यथा
भवेद्विधुंतुदेनापहृते स्ववत्सरे || ३०||

फलदीपिका 21.31

सुखोपनीतिः सुरविप्रपूजनं
विरोगता वामदृशां समागमः |
सुपुण्यशास्त्रर्थविचारसम्भवः
सुरारिदायान्तगे बृहस्पतौ || ३१||

फलदीपिका 21.32

समीरपित्तप्रगदक्षतिस्तनौ
तनूजयोषित्सहजैश्च विग्रहः |
स्वभृत्यनाशश्च पदच्युतिर्भवेत्-
दितिप्रजायुः प्रविस्शत्यथार्कजे || ३२||

फलदीपिका 21.33

सुतस्वसिद्धिः सुहृदां समागमो
मनोविनिन्द्यत्वमतीव जायते |
पटुक्रियाभूषणकौशलादयो
भुजङ्गसंवत्सरहारिणीन्दुजे || ३३||

फलदीपिका 21.34

ज्वराग्निशस्त्रारिभयं शिरोरुजा
शरीरकम्पः स्वसुहृद्गुरुव्यथा |
विषव्रणातिः कलहः सुहृज्जनै-
रहीन्द्रदायान्तरगे शिखाधरे || ३४||

फलदीपिका 21.35

कलत्रलब्धिः शयनोपचारता
तुरङ्गमातङ्गमहीसमागमः |
कफानिलाप्तिः स्वजनैविरोधिता
भवेद्भुजङ्गायुरपाहृतौ भृगोः || ३५||

फलदीपिका 21.36

अरिव्यथा स्यादतिपीडनं
दृशोविंषाग्निशस्त्राहतिरापदुद्गमः |
वधूसुतातिर्नृपतेर्महद्भयं
भुजङ्गवर्षे तिमिरारिणा हृते || ३६||

फलदीपिका 21.37

वधूविनाशः कलहो मनोरुजा
कृषिक्रयावित्तपशुप्रजाक्षयः |
सुहृद्विपत्तिः सलिलाद्भयं भवे-
द्विधौ दशाभक्तरि देवविद्विधः || ३७||

फलदीपिका 21.38

नृपाग्निचोरास्त्रभयं शरीरिणां
शरीरनाशो यदि वा महारुजः |
पदभ्रमो हृन्नयनप्रपीडनं
यदात्र सर्पयुषि संचरेत्कुजः || ३८||

फलदीपिका 21.39

बृहस्पति की महादशा में विविध अन्तर्दशों का फल
सौभाग्यकान्तितबहुमानगुणोदयः
स्यात्सत्पुत्रसिद्धिरवनीपतिपूजनं च |
आचार्यसाधुजनसंयुतिरिष्टसिद्धिः
सवत्सरं हरति देवगुरौ स्वकीयम् || ३९||

फलदीपिका 21.40

वेश्याङ्गनामदकृदासवदोषसङ्ग
उत्कर्षसौख्यसकुटुम्बपशुप्रपीडा |
अर्थव्ययोरुभयमक्षिजरुक्सुताति
जैवीं दशां विशति दैनकरे नराणाम् || ४०||

फलदीपिका 21.41

स्त्रीद्यूतमद्यजमहाव्यसनं त्रिदोषैः
केचिद्वदन्त्यपि च केवलमङ्गलाप्तिः |
देवद्विजार्चनसुतार्थसुखप्रयोगै-
र्गीवर्णपूजितदशां हरतीन्दुसूतौ || ४१||

फलदीपिका 21.42

शस्त्रव्रणं भवति भृत्यजनैविरोध-
श्चित्तव्यथा तनययोषिदुपद्रवश्च |
प्रणच्युतिर्गुरुसुहृज्जनविप्रयोगः
सौरेड्यमायुरपहृत्य ददाति केतुः || ४२||

फलदीपिका 21.43

नानाविधार्थपशुधान्यपरिच्छदस्त्री-
पुत्रान्नपानशयनाम्बरभूषणाप्तिः |
देवद्विजार्चनमुपासनतत्परत्व-
मायुर्यदा हरति जैवमथासुरेड्यः || ४३||

फलदीपिका 21.44

शत्रोर्जयः क्षितिपमाननकीर्तिलाभः
स्याच्चण्डता नरतुरङ्गमवाहनाप्तिः |
श्रेण्यग्रहारपुरराष्ट्रसमस्तसंपद
दुच्चैरुचथ्यसहजायुरपाहृतेऽर्के || ४४||

फलदीपिका 21.45

योषिद्बहुत्वमरिनाशनमर्थलाभः
कृष्यर्थवस्तुपरमोन्नतकीर्तिलाभः |
दवद्विजार्चनपरत्वमतीव पुंसां
संजायते गुरुदशाहृति शर्वरीशे || ४५||

फलदीपिका 21.46

बन्धूपतोषणमरिव्रजतोऽर्थलाभः
सुक्षेत्रसत्कृतिरिह प्रथितप्रभावः
इर्षद्गुरूपहतिरीक्षणसुक्षतिर्वा
क्षित्यात्मजे हरति वत्सरमार्यजातम् || ४६||

फलदीपिका 21.47

बन्धूपतप्तिरुरुमानसरुग्गदार्ति-
श्चोराद्भयं गुरुगदो जठरोद्भवो वा |
राजेन्द्रपीडनमरिव्यसनं स्वनाशः
सम्पद्यते हरति सूरिदशां सुरारौ || ४७||

फलदीपिका 21.48

शनि को महादशा में विविध अन्तर्दशों का फल
कृषिवृद्धभृत्यमहिषाभ्युदयः
पवनामयो वृषलजातिधनम् |
स्थविराङ्गनाप्तिरलसत्वमघो
निजवत्सरान्तरगते रविजे || ४८||

फलदीपिका 21.49

सुभगत्वमस्ति सुखित वनिता
नृपलालनं विजयमित्रयुतिः
त्रिगदोद्भवः सहजपुत्ररुजा
शनिदायहारिणि शशाङ्कसुते || ४९||

फलदीपिका 21.50

मरुदग्निपीडनमरिव्यसनं
सुतदारविग्रमतिः सततम् |
अशुभावलोकनमहेश्च भयं
मृदुवत्सरं हरति केतुपतौ || ५०||

फलदीपिका 21.51

सुहृदङ्गनातनयसौख्ययुतः
कृषितोययानजनितार्थचयः |
शुभकीर्तिरुद्भवति देहभृतां
यमदायहारिणि भृगोस्तनये || ५१||

फलदीपिका 21.52

मरणं तु वा रिपुभयं सततं
गुरुवर्गरुग्जठरनेत्ररुजा |
धनधान्यविच्युतिरिह प्रभवेत्-
रविजायुराविशति तीव्रकरे || ५२||

फलदीपिका 21.53

वनिताहतिर्मरणमेव नृणां
सुहृदां विपत्तिरथ रोगभयम् |
जलवातजं भयमतीव भवेत्-
रविजायुराविशति रात्रिकरे || ५३||

फलदीपिका 21.54

स्वपदच्युतिः स्वजनविग्रहरुक्-
ज्वरवाह्नशस्त्रविशभिरथ वा |
अरिवृद्धिरान्तररुगक्षिभयं
रविजायुराविशति भुमिसुते || ५४||

फलदीपिका 21.55

अप्मार्गयानमसुभिविरहस्तु
अथ वा प्रमेहगुरुगुल्मभयम् |
ज्वररुक्क्षतिः सततमेव नृणा-
मसितान्तरं विशति भोगिपतौ || ५५||

फलदीपिका 21.56

अमरार्चनद्विजगणाभिरुचि-
र्गृहपुत्रदारविहतिस्तु भवेत् |
धनधान्यवृद्धिरधिका हि नृणां
गतवत्यथार्किवयसीन्द्रगुरौ || ५६||

फलदीपिका 21.57

बुध की महादशा में विविध अन्तर्दशों का फल
धर्मार्गनिरतिर्विवपश्चितां
सङ्गमो विमलधीर्घनं द्विजात् |
विद्यया बहुयशः सुखं सदा
चन्द्रजे हरति वत्सरं स्वकम् || ५७||

फलदीपिका 21.58

दुःखशोककलहाकुलात्मता
गात्रकम्पनममित्रसंयुतिः |
क्षेत्रयान्विप्युतिर्यदा भवेत्-
सोममसूनुशरदं गतः शिखी || ५८||

फलदीपिका 21.59

देवविप्रगुरुपूजनक्रिया दानधर्मपरतासमागमः |
वस्त्रभूषणसुहृद्युतिर्भवेद्बोधनायुषि समागते सिते || ५९||

फलदीपिका 21.60

हेमविद्रुमतुरङ्गवारणप्रावृतं भवनमन्नपानयुक् |
भूपतेरपि च पूजनं भवेद्भानुमालिनि बुधाब्दकं गते || ६०||

फलदीपिका 21.61

मस्तकव्यसनमक्षिपीडनं कुष्ठदद्रुबहुकण्ठपीडनम् |
प्राणसंशययुतिर्नृणां भवेज्ज्ञायुषं व्रजति शीतदीघितौ || ६१||

फलदीपिका 21.62

अग्निभीतिरपि नेत्रजा रुजा चोरजं भयमतीव दुःखिता |
स्थानहानिरथ वातरोगिता ज्ञायुषं हरति मेदिनीसुते || ६२||

फलदीपिका 21.63

मानहानिरथवाश्रयच्युतिः स्वक्षयोऽग्निविषतोयजं भयम् |
मस्तकाक्षिजठरप्रपीडनं शीतरश्मिजदशां गतेऽसुरे || ६३||

फलदीपिका 21.64

व्याधिशत्रुभयविच्युतिर्भवे-
द्ब्रह्मसिद्धिरवनीशसत्कृतिः |
धर्मसिद्धितपसां समुद्ग्रमो
देवमन्त्रिणि विदो दशां गते || ६४||

फलदीपिका 21.65

अर्थधर्मपरिलुप्तिरुच्चकैः
सर्वकार्यविफलत्वमङ्गिनाम् |
श्लेष्मवातजनिता रुगुद्भवे-
द्वोधनायुषि समागतेऽसिते || ६५||

फलदीपिका 21.66

केतु की महादशा में विविध अन्तर्दशों का फल
रिपुजनकलहं सुहृद्विरोधं
त्वशुभचः श्रवणं ज्वराङ्गदाहम् |
गमनपरधाम्नि वित्तनाशं
शिखिनि लभेत् दशां गते स्वकीयाम् || ६६||

फलदीपिका 21.67

द्विजवरकलहः स्त्रिया विरोधः
स्वकुलजनैरपि कन्यकाप्रसूतिः |
परिभवजननं परोपतापो
भवति सिते शिखिवत्सरान्तराले || ६७||

फलदीपिका 21.68

गुरुजनमरणं ज्वर्तारः
स्वजनविरोधविदेशयानलभः |
नृपकृतकलहः कफानिलाति-
र्विशति रवौ शिखिवत्सरान्तरालम् || ६८||

फलदीपिका 21.69

सुलभबहुधनं तथैव हानिः
सुतविरहो बहुदुःखभाक्प्रसूतिः |
परिजनयुवतिप्रजाप्रलाभः
शशिनि यदा शिखिदायमभ्युपेते || ६९||

फलदीपिका 21.70

स्वकुलजकलहं स्वबन्धुनाशं
भयमपि पन्नगजं वदन्ति चोरात्
हुतवहभयशत्रुपीडनं च
व्रजतिकुजे ध्वजनामखेचरायुः || ७०||

फलदीपिका 21.71

अरिकृतकलहं नृपाग्निचौरै-
र्भयमपि पन्नगजं वदन्ति तज्ज्ञाः |
खलजनवचनं दुरिष्टचेष्टा
समसि गतेऽत्र शिखीन्द्रदायमाहुः || ७१||

फलदीपिका 21.72

सुतवरजननं सुरेन्द्रपूजा
धरणिधनाप्तिरुपायनार्थसिद्धिः |
धनचयजननं महीशमानो
भवति गतेऽत्र गुरौ शिखीन्द्रदायम् || ७२||

फलदीपिका 21.73

परिजनविहतिं परोपतापं
रिपुजनविग्रहमङ्गभङ्गतां च |
धनपदविर्युतिं तथाहुरार्या
गतवति सूर्यसुते शिखाधरायुः || ७३||

फलदीपिका 21.74

सुतवर्जननं प्रभुप्रशस्तिः
क्षितिधनसिद्धिररीश्वरप्रपीडा |
पशुकृषीविहतिर्भवेत्तु पुंसां
विशति बुधे शिखिवत्सरान्तरालम् || ७४||

फलदीपिका 21.75

शुक्र की महादशा में विविध अन्तर्दशों का फल
वसनभूषणवाहचन्दना-
द्यनुभवः प्रमदासुखसम्पदः |
द्युतियुतिः क्षितिपाद्धनलब्धयो
भृगुसुते स्वदशां प्रविशत्यपि || ७५||

फलदीपिका 21.76

नयनकुक्षिकपोलगदोद्भवः
क्षितिभृतो भयमस्ति शरीरिणाम् |
गुरुकुलोद्भवबान्धवपीडनं
भृगुसुतायुषि भानुमति स्थिते || ७६||

फलदीपिका 21.77

नखशिरोरदनक्षतिरुच्चकैः
पवनपित्तरुगर्थविनाशनम् |
ग्रहणिगुल्मकयक्ष्मकपीडनं
सितवयोहृति तत्र हिमल्विषि || ७७||

फलदीपिका 21.78

रुधिरपित्तगदातिसमाश्रयः
कनकताम्रचयावनिसंग्रहः |
सुवतिदूषणमुद्यमविच्युति-
र्वृषभवल्लभवत्सरगे कुजे || ७८||

फलदीपिका 21.79

निधिभवः सुतलब्धिरभीष्तवाक्
स्वजनपूजनमप्यरिबन्धनम् |
दहनचोरविषोद्भवपीडनं
तुलधरेश्वरवत्सरगेऽसुरे || ७९||

फलदीपिका 21.80

विविधधर्मसुरेशनमस्क्रिया
भवति चात्मजवामदृगागमः |
विविधराज्यसुखं च शरीरिणां
कविदशाहृति कार्मुकनायके || ८०||

फलदीपिका 21.81

नगरयोधनृपोद्भवपूजनं
प्रवरयोषिदवाप्तिरथास्ति वा |
विविधवित्तपरिच्छदसंयुति-
दितिपूजितदायगते शनौ || ८१||

फलदीपिका 21.82

तनयसौख्यमागमसम्पदां
निचयलब्धिरतिप्रभुता यशः |
पवनपित्तकफातिररिच्युतिर्-
दनुजमन्त्रिदशाहृति चन्द्रजे || ८२||

फलदीपिका 21.83

सुतसुखादिबहिः स्थितिरग्निजं
भयमतीव विनाशनमङ्गरुक् |
अपि च वारवधूजनसंयुतिः
शिखिनि यात्यलमौशनसीम् दशाम् || ८३||

फलदीपिका 21.84

दशापहारेषु फलं यदुक्तं
वर्णाधिकारानुगुणं वदन्तु |
छिद्रेषु सूक्ष्मेष्वपि तत्फलाप्तिः
छायाङ्कवार्तश्रवणानि वा स्युः || ८४||

← पिछला अध्याय अगला अध्याय →

पाठ का स्रोत और उपयोग अधिकार

संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11

विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।

CC BY-SA 4.0

अध्याय 21 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%8F%E0%A4%95%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%AE%E0%A5%8D)&oldid=73762