Astrological HarshAuthor · Teacher · Researcher
अध्ययन · संस्कृत · शास्त्रीय संदर्भSTUDY · SANSKRIT · CLASSICAL REFERENCES

फलदीपिका · अध्याय 20 · विंशोऽध्यायः (अन्तर्दशाफलम्)

शास्त्रीय ग्रंथ केन्द्र / फलदीपिका

28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।

मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।

फलदीपिका 20.1

अन्तर्दशाफल
भावेश्वरेण प्रबलेन येन यद्यत्फलं हीनबलेन येन |
यदानुभोक्तव्यमनन्यसम्यक्संसूचयिष्यत्यथ संग्रहेण || १||

फलदीपिका 20.2

लग्ने बलिष्ठे जगति प्रभुत्वं सुखस्थिति देहबलं सुवर्चः |
उपर्युपर्यभ्युदयाभिवृद्धिं प्राप्नोति बालेन्दुवदेष जातः || २||

फलदीपिका 20.3

पाकेऽर्थनाथस्य कुटुम्बसिद्धिं
सत्पुत्रिकाप्तिं सुखभोजनं च |
प्राप्नोति वाग्जीविकया धनानि
वक्ता सदुक्तिं सदसि प्रशस्ताम् || ३||

फलदीपिका 20.4

शौर्ये सवीर्ये सहजानुकूल्यं
सण्तोषवातश्रिवणं च शौर्यं |
सेनापतित्वं लभतेऽभिमानं
जनाश्रयं सद्गुणभाजनत्वम् || ४||

फलदीपिका 20.5

बन्धूपकारं कृषकर्मसिद्धिं स्त्रीसङ्घमं वाहनलाभमेति |
क्षेत्रं गृहं नूतनुमर्थसिद्धिं स्थानंप्रशस्तं च सुखेश्दाये || ५||

फलदीपिका 20.6

पुत्रप्राप्तिं बन्धुविलासं नृपतीनां
साचिव्यं वा धीशदशायां बहुमानम् |
प्राज्यैर्भोज्यैर्मृष्टमिहाश्नाति ददाति
श्रेयस्कार्यं सज्जनशस्तं स विदध्यात् || ६||

फलदीपिका 20.7

रिपून्निहन्ति साहसैररीश्वरस्य वत्सरे |
अरोगतानुदारतामधृष्यतामतिश्रियम् || ७||

फलदीपिका 20.8

सम्पाद्य वस्त्राभरणानि शय्यां
प्रीतो रमण्या रमतेऽतिवीर्यः |
करोति कल्याणमहोत्सवादीन्
सन्तोषयात्रां च मदेशदाये || ८||

फलदीपिका 20.9

ऋणविमोचनमुच्छ्रतिमात्मनः
कलहकृत्यनिवृत्तिमुपैति सः |
महिषपश्वजभृत्यजनागमं
वयसि रन्ध्रपतेर्बलशालिनः || ९||

फलदीपिका 20.10

स्त्रीपुत्रपौत्रैः सहबन्धुवर्गै-
र्भाग्यंश्रियं चानुभवत्यजस्त्रम् |
श्रेयांसि कार्याण्यवनीशपूजां
भाग्येशदाये विजदेवभक्तिम् || १०||

फलदीपिका 20.11

यत्कार्यमारब्धमुपैत्यनेन
तस्यैव सिद्धिं सुखजीवनं च |
कीर्तिं प्रतिष्ठां कुशलप्रवृत्तिं
मानोन्नतिं कर्मपतेर्दशायाम् || ११||

फलदीपिका 20.12

एश्वर्यमव्याहतमिष्टबन्धु-
समागमं भृत्यजनांश्च दासान् |
संसारसौभाग्यमहोदयं च
लभेत लाभाधिपतेर्दाशायाम् || १२||

फलदीपिका 20.13

व्ययेशितुर्वयस्यतिव्ययं करोति सज्जने |
अघौघनाशिनीं शुभक्रियां महीशमान्यताम् || १३||

फलदीपिका 20.14

वक्रगस्य निजतुङ्गसुहृत्-
सुस्थानगस्य दशाफलमेवम् |
शत्रुनीचगृहमौढ्यषडन्त्य-
छिद्रगस्य तु फलान्यपि वक्ष्ये || १४||

फलदीपिका 20.15

दुःस्थेलग्नपतौ निरोधनमुपैत्यज्ञातवासं भयं
व्याध्याधीनपरक्रियाभिगमनं स्थानच्युतिं चापदम् |
जाड्यं संसदि वाक्कुटुम्बचलनं दुष्पत्रिकां दृग्रुजं
वाग्दोषं द्रविणव्ययं नृपभयं दुःस्थे द्वितीयाधिपे || १५||

फलदीपिका 20.16

दुश्चिक्याधिपतौ सहोदरमृतिं कार्ये दुरालोचना-
मन्तःशत्रु निपीडनं परिभवं तद्गर्वभङ्ग वदेत् |
मातृक्लेशमरिष्टमिष्ठसुहृदां क्षेत्रगृहोपप्लुतिं
पश्वश्वादिविनाशनं जलभयं पातालनाथेऽबले || १६||

फलदीपिका 20.17

वीर्योने प्रतिभापतौ सुतमृतिर्बुद्धिभ्रमं पञ्चना-
मध्वानं ह्युदरामयं नरपतेः कोपं स्वशक्तिक्षयम् |
चोराद्भीतिमनर्थतां च दमनं रोगान् बहून्दुष्कृतिं
भृत्यत्वं लभतेऽवमानमयशः षष्ठेशदाये व्रणम् || १७||

फलदीपिका 20.18

जामातुर्व्यसनं कलत्रविरहं स्त्रीहेत्वनर्थागमं
द्यूनेशे विबलिन्यसत्यभिरतिं गुह्यामयं चाटनम् |
रन्ध्रेशायुषि शोकमोहमदमात्सर्यादिमूर्च्छोच्छ्रितिं
दारिद्र्यं भ्रमणं वदेदपयशोव्याधीनवज्ञां मृतिम् || १८||

फलदीपिका 20.19

पूर्वोपासितदेवकोपमशुभं जायातनूजापदं
दौष्कृत्यं स्वगुरोः पितुश्च निधनं दैन्यं शुभे दुर्बले |
यद्यत्कर्म करोति तत्तदफलं स्यान्मानभङ्गो नभो-
भावे दुर्गुणतां प्रवासमशुभं दुर्वृत्तमापन्नताम् || १९||

फलदीपिका 20.20

श्रवणमशुभवाचां भ्रतृकष्टं सुतातिं
भवपवयसि दैन्यं वञ्चनं कर्णरोगम् |
बहुरुजमपमानं बन्धनं सर्वसम्पत्-
क्षयमपरशशीवाऽयाति रिःफेशदाये || २०||

फलदीपिका 20.21

मंज्ञायां यदगाच्च कारकविधिश्लोकेषु यज्जल्पितं
कर्माजीवनिरूपितं फलमिदं यद्रोगचिरताविधौ |
यद्यस्योक्षणयोगसंभवफलं भावेशयोगोद्भवं
भावेशैरपि भावगैरपि फलं वाच्यं दशायामिह || २१||

फलदीपिका 20.22

वर्गोत्तमांशस्थदशा शुभप्रदा
मिश्रैव सा चास्तमिते च नीचगे |
मृत्युव्ययारीशदशापहारयो-
स्तत्र स्थितस्याप्यशुभं फलं भवेत् || २२||

फलदीपिका 20.23

क्रूरग्रहस्यैव दशापहारे
त्रिपञ्चसप्तर्क्षपतेविपाके |
तथैव जन्माष्टमनाथभुक्तौ
चोरारिपीडां लभतेऽतिदुःखम् || २३||

फलदीपिका 20.24

शनेश्चतुर्थी च गुरोस्तु षष्ठी
दशा कुजाह्योर्यदि प~चमी सा |
कष्ट भवेद्राश्यवसानभाग-
स्थितस्य दुःस्थानपतेस्तथैव || २४||

फलदीपिका 20.25

उर्ध्वास्यतुङ्गभवनस्थितभूमिजस्य
कर्मायगस्य हि दशा विदधाति राज्यम् |
जित्वा रिपून्विपुलवाहनसैन्ययुक्तां
राज्यश्रियं वितनुतेऽधिकमन्नदानम् || २५||

फलदीपिका 20.26

स्वोच्चस्थितो भृगुसुतो व्ययकर्मगो वा
लाभेऽपि वाऽस्तरहितो न च पापयुक्तः |
तस्याब्दपाकसमये बहुरत्नपूर्णो
धीमान्विशालविभवो जयति प्रशस्तः || २६||

फलदीपिका 20.27

नीचारिषष्ठव्ययसंश्रिता हि
शुभाः प्रयच्छन्त्यशुभानि सर्वे |
शुभेतरास्त्वेषु गताः प्रयच्छ-
न्त्यमोघदुःखानि दशासु तेषम् || २७||

फलदीपिका 20.28

दशेशत्रोररिगेहभाजो
लग्नेशशत्रोरपि वाऽथ भुक्तौ |
शत्रोर्भयं स्थानलयः तदास्य
स्निग्धोपि शत्रुत्वमुपैति नूनम् || २८||

फलदीपिका 20.29

यद्भावगः पाकपतिर्दशेशात्-
तद्भावजातानि फलानि कुर्यात् |
विपक्षरिःफाष्टमभावगश्चेद्-
दुःखं विदध्यादितरत्र सौख्यम् || २९||

फलदीपिका 20.30

स्वोच्चत्रिकोणस्वहितारिनीचे
पूर्णं त्रिपादार्द्धपदाल्पशून्यम् |
क्रमाच्छुभं चेदशुभं विलोमाट्
मूढे ग्रहे नीचसमं फलं स्यात् || ३०||

फलदीपिका 20.31

मन्दमान्द्यगुखरेशरन्ध्रपाः-
तन्नवांशपतयोऽपि ये ग्रहाः |
तेषु दुर्बलदशा मृतिप्रदा
कष्टभे चरति सूर्यनन्दने || ३१||

फलदीपिका 20.32

मृतीशनाथस्थितभांशकेशयोः
खरत्रिभागेश्वरयोर्बलीयसः |
दशागमे मृत्युयुक्तभांशक-
त्रिकोणगे देवगुरौ तनुक्षयः || ३२||

फलदीपिका 20.33

चतुष्टयस्था गुरुजन्मलग्नपा
भवन्ति मध्ये वयसः सुखप्रदाः |
क्रमेण पृष्ठोभयमस्तकोदय-
स्थितोऽन्त्यमध्यप्रथमेषु पाकदः || ३३||

फलदीपिका 20.34

यद्भावगो गोचरतो विलग्नात्-
दशेश्वरः स्वोच्चसुहृद्गृहस्थः |
तद्भावपुष्टिं कुरुते तदानीं
बलान्वितश्चेज्जननेऽपि तस्य || ३४||

फलदीपिका 20.35

बलोनितो जन्मनि पाकनाथो
मौढ्यं स्वनीचं रिपुमन्दिरं वा |
प्राप्तश्च यद्भावमुपैति चारात्-
तद्भावनाशं कुरुते तदानीम् || ३५||

फलदीपिका 20.36

दशेशस्य तुङ्गे सुहृद्भे दशेशात्
त्रिषत्कर्मलाभत्रिकोणास्तभेषु |
यदा चारगत्या समायाति चन्द्रः
हुभं संविधत्तेऽन्यथा चेदरिष्टम् || ३६||

फलदीपिका 20.37

पाकप्रभुर्गोचरतः स्वनीचं
मौढ्यं यदायाति विपक्षभं वा |
कष्टं विदध्यात्स्वगृहं स्वतुङ्गं
वक्रं गतः सौख्यफलं तदानीम् || ३७||

फलदीपिका 20.38

पाकेशस्य शुभप्रदस्य भवनं तुङ्गं प्रपन्ने यदा
सूर्ये तत्फलसिद्धिमेति गुरुणाप्येवं फलं चिन्तयेत् |
नीचं कष्टफलप्रदस्य च दशानाथस्य वैरिस्थलं
प्राप्ते भास्वति गोचरेण लभते तस्यैव कष्टं फलम् || ३८||

फलदीपिका 20.39

येन ग्रहेण सहितो भुजगाधिनाथ-
स्तत्खेटजातगुणदोषफलानि कुर्यात् |
सर्पान्वितः स तु खगः शुभदोऽपि कष्टं
दुःखं दशान्त्यसमये कुरुते विशेषात् || ३९||

फलदीपिका 20.40

द्वावर्थकामाविह मारकाख्यौ
तदीश्वरस्तत्र गतो बलाढ्यः |
हन्ति स्वपाके निधनेश्वरो वा
व्ययेश्वरो वऽप्यतिदुर्बलश्चेत् || ४०||

फलदीपिका 20.41

केन्द्रेशस्य सतोऽसतो.शुभशुभौ कुर्याद्दशा कोणपाः
सर्वे शोभनदास्त्रिवैरिभवपा यद्यप्यनर्थप्रदाः |
रन्ध्रेशोऽपि विलग्नपो यदि शुभं कुर्याद्रविर्वा शशी
यद्येवं शुभदः पराशरमतं तत्तद्दशायां फलम् || ४१||

फलदीपिका 20.42

कोणाधीशः केन्द्रगः केन्द्रपो वा
कोणस्थश्चेद् द्वौ च योगप्रदौ स्तः |
द्वावप्येतौ भुक्तिकाले दशाया-
मन्योन्यं तौ योगदौ सोपकारौ || ४२||

फलदीपिका 20.43

न दिशेयुर्ग्रहाः सर्वे स्वदशासु स्वभुक्तिषु |
भवाशुभफलं नॄणामात्मभावानुरूपतः || ४३||

फलदीपिका 20.44

आत्मसम्बन्धिनो ये च ये ये निजसर्धामिणः |
तेषामन्तर्दास्वेव दिशन्ति स्वदशाफलम् || ४४||

फलदीपिका 20.45

केन्द्रत्रिकोणनेतारौ दोषयुक्तावपि स्वयम् |
सम्बन्धुमात्राद्बलिनौ भवेतां योगकारको || ४५||

फलदीपिका 20.46

त्रिकोणाधिपयोर्मध्ये सम्बन्धो येन केनचित् |
केन्द्रनाथस्य बलिनो भवेद्यदि स योगकृत् || ४६||

फलदीपिका 20.47

केन्द्रत्रिकोणाधिपयोरैक्ये तौ योगकारकौ |
अन्यत्रिकोणपतिना संबन्धो यदि किं पुनः || ४७||

फलदीपिका 20.48

योगकारकसम्बन्धात्पापिनोऽपि ग्रहाः स्वतः |
तत्तद्भुक्त्यानुसारेण दिशेयुर्यौगिकं फलम् || ४८||

फलदीपिका 20.49

स्वदशायां त्रिकोणेशो शुक्तौ केन्द्रपतेः शुभम् |
दिशेत्सोऽपि तथा नो चेदसंबन्धेऽपि पापकृत् || ४९||

फलदीपिका 20.50

केन्द्राधिपत्यदोषस्तु बलवान् गुरुशुक्रयोः |
मारकत्वेऽपि च तयोर्मारकस्थानसंस्थितिः || ५०||

फलदीपिका 20.51

बुधस्तदनु चंद्रोऽपि भवेत्त्दनु तद्विधः |
पापाश्चेत्केन्द्रपतयः शुभदाश्चोत्तरोत्तरम् || ५१||

फलदीपिका 20.52

यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ |
नाथेनान्यतरस्यैव संबन्धाद्योगकारकौ || ५२||

फलदीपिका 20.53

तमोग्रहौ शुभारूढौऽसंबद्धौ येन केनचित् |
अन्तर्दशानुरूपेण भवेतां योगकारकौ || ५३||

फलदीपिका 20.54

आरम्भो राजयोगस्य भवेन्मारकभुक्तिषु |
प्रथयन्ति तमारभ्य क्रमशः पापभुक्तयः || ५४||

फलदीपिका 20.55

रन्ध्रस्थरन्ध्रेक्षकरन्ध्रनाथ-
रन्ध्रत्रिभागाधिपमान्दिभेशाः |
दुःखप्रदास्तेष्वपि दुर्बलो यः
स नाशकारी स्वदशापहारे || ५५||

फलदीपिका 20.56

भ्रष्ठस्य तुङ्गादवरोहिसंज्ञा
मध्या भवेत्सा सुहृदुच्चभागे |
आरोहिणी निम्नपरिच्युतस्य
नीचारिभांशेष्वधमा भवेत्सा || ५६||

फलदीपिका 20.57

शस्तगृहे शस्तांशे नीचे रिपुभेऽस्तसंस्थिते वाऽपि |
तस्य दशा मिश्रफला दशापरार्धे फलप्रदा ज्ञेया || ५७||

फलदीपिका 20.58

तत्तद्भावात्व्ययथस्य तद्भावव्ययपस्य च |
वीर्यहीनस्य खेटस्य पाके मृत्युमवाप्नुयात् || ५८||

फलदीपिका 20.59

दशापतिर्लग्नगतो यदि स्यात्
त्रिषट्दशैकादशगश्च लग्नात् |
तत्सप्तवर्गेऽप्यथ तत्सुहृद्वा
लग्ने शुभो वा शुभदा दशा स्यात् || ५९||

फलदीपिका 20.60

यावन्ति वर्षणि दशा च सा स्यात्-
चारक्रमात्तत्र दशापतिः सः |
यत्र स्थितस्तद्भवनाद्विधोस्तु
स्थितेः प्रकल्प्यं सदसत्फलं हि || ६०||

फलदीपिका 20.61

दशाधिनाथस्य सुहृद्गृहस्थ-
स्तदुच्चगो वाऽथ दशाधिनाथात् |
स्मरत्रिकोणोपचयोपगश्च
ददाति चन्द्रः खलु सत्फलानि || ६१||

फलदीपिका 20.62

उक्तेषु राशिषु गतस्य विधोः स राशिः
स्याज्जन्मकालभवमूर्तिधनादिभावः |
तत्तद्विवृधिकृदसौ कथितो नराणां
तद्भावहानिकृदथेतरराशिसंस्थः || ६२||

फलदीपिका 20.63

सारावलीमुडुदशां च वराहहोरा-
मालोक्य जातकफलं प्रवदेन्नराणाम् |
प्रश्नोदयग्रहवशादथ वा स्वजन्म-
राश्यादिना वदतु नास्त्यनयोर्विशेषः || ६३||

← पिछला अध्याय अगला अध्याय →

पाठ का स्रोत और उपयोग अधिकार

संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11

विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।

CC BY-SA 4.0

अध्याय 20 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%85%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%AE%E0%A5%8D)&oldid=73770