Astrological HarshAuthor · Teacher · Researcher
अध्ययन · संस्कृत · शास्त्रीय संदर्भSTUDY · SANSKRIT · CLASSICAL REFERENCES

फलदीपिका · अध्याय 6 · षष्टोऽध्यायः (योगाध्यायः)

शास्त्रीय ग्रंथ केन्द्र / फलदीपिका

28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।

मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।

स्रोत में दोहराए श्लोक क्रमांक मिले; पहली प्रति रखी गई।

फलदीपिका 6.1

योगाध्याय
रुचकभद्रकहंसकमालवाः सशशका इति पञ्च च कीर्तिताः |
स्वभवनोच्चगतेषु चतुष्टये क्षितिसुतादिषु तान् क्रमशो वदेत् || १||

फलदीपिका 6.2

दीर्घास्यो बहुसाहसाप्तविभवः शूरोऽरिहन्ता बली
गार्विष्टो रुचके प्रतीतगुणवान् सनापतिर्जित्वरः |
आयुष्मान् सकुशाग्रबुद्धिरमलो विद्वज्जनश्लाधितो
भूपो भद्रकयोगजोऽतिविभवश्चास्थानकोलाहलः || २||

फलदीपिका 6.3

हंसे सद्भिरभ्रष्टुतः क्षितिपतिः शङ्खब्जमत्स्याङ्कुशै-
श्चिह्नैः पादकराङ्कितः शुभवपुर्मृष्टान्नभुग्धार्मकः |
पुष्टाङ्गो धृतिमान्धनी सुतवधूभाग्यान्वितो वर्धनो
मालव्ये सुखभुक्सुवाहनयशा विद्वान्प्रसन्नेन्द्रियः || ३||

फलदीपिका 6.4

शस्तः सर्वजनैः सुभृत्यबलवान् ग्रामाधिपो वा नृपो
दुर्वृत्तः शशयोगजोऽन्यवनितावित्तः सौख्यवान् |
लग्नेन्द्वोरपि योगपञ्चकमिदं सान्त्राज्यसिद्धिप्रदं
तेष्वेकादिषु भाग्यवान् नृपसमो राजा नृपेन्द्रोऽधिकः || ४||

फलदीपिका 6.5

विधोस्तु सुनफानफाधुरुधुराः स्वरिःफोभय-
स्थितैर्वंरविभिर्ग्रहैरितरथा तु केमद्रुमः |
हिमत्विषि चतुष्टये ग्रहयुतेऽथ केमद्रुमो
न हीति कथितोऽथवा हिमकराद्ग्रहैः केन्द्रगैः || ५||

फलदीपिका 6.6

स्वयमाधिगतवित्तः पार्थिवस्तत्समो वा
भवति हि सुनफायां धीधनख्यातिमांश्च |
प्रभुरगदशरीरः शीलवान् ख्यातकीर्ति-
र्विषयसुखसुवेषो निर्वृतश्चानफायाम् || ६||

फलदीपिका 6.7

उत्पन्नभोगसुखभाग्धनवाहनाढ्य-
स्त्यागान्वितो धुरुधुराप्रभवः सभृत्यः |
केमद्रुमे मलिनदुःखितनीचनिःस्वाः
प्रेष्याः खलाश्च नृपतेरपि वंशजाताः || ७||

फलदीपिका 6.8

हित्वेन्दुं शुभशुभसिवेवास्युभयचर्याख्याः स्वरिःफोभय-
स्थानस्थैः सवितुः शुभैः स्युरशुभैस्ते पपसंज्ञाः स्मृताः |
सत्पार्श्वे शुभकर्तरीत्युदयभे पापेस्तु पापाह्वयो
लग्नाद्वित्तगतैः शुभैस्तु सुशुभो योगो न पापेक्षितैः || ८||

फलदीपिका 6.9

जातः स्यात् सुभगः सुखी गुणनिधिर्धीरो नृपो धार्मिको
विख्यातः सकलप्रियोऽतिशुभगो दाता महीशप्रियः |
चार्वङ्गः प्रियवाक्प्रपञ्चरसिको वाग्मी यशस्वी धनी
विद्यादत्र सुवेसिवास्युभयचर्यख्येषु पादक्रमात् || ९||

फलदीपिका 6.10

अन्यायाज्जननिन्दको हतरुचिर्हीनप्रियो दुर्जनो-
मायावी परनिन्दकः खलयुतो दुर्वृत्तशास्त्राधिकः |
लोके स्यादपकीर्तिदुःखितमना विद्यार्थभाग्यैश्च्युतो
जातश्चाशुभवेसिवास्युभयचर्यख्येषु पादक्रमात् || १०||

फलदीपिका 6.11

जैवातृको विभयरोगरिपुः उखी स्या-
दाढ्यः श्रिया च शुभकर्तरियोग जातः |
निःस्वोऽशुचिर्विसुखदारसुतोऽङ्गहीनः
स्यात्पापकर्तरिभवोऽचिरमायुरेति || ११||

फलदीपिका 6.12

आचारवान् धर्मम्तिः प्रसन्नः
सौभाग्यवान् पार्थिवमाननीयः |
मृदुस्वभावः स्मितभाषणश्च
धनी भवेच्चामलयोगजातः || १२||

फलदीपिका 6.13

सुशुभे शुभकर्तर्यां वेस्यादौ सुनभादिवत् |
शुभैः क्रमात्फलं ज्ञेयं विपरीतंअसद्ग्रहैः || १३||

फलदीपिका 6.14

ओजेष्वर्केन्दुलग्नान्यजनि दिवि पुमंश्चेन्महाभाग्ययोगः
स्त्रीणान्तद्व्यत्ययेस्याच्छशिनि सुरगुरोः केन्द्रगे केसरीति |
जीवन्त्याष्टरिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्ना-
च्चन्द्रे केन्द्रादिगेऽर्कादधमसमवरिष्ठाख्ययोगाः प्रसिद्धः || १४||

फलदीपिका 6.15

महाभग्ये जातः सकलनयनानन्दजनको
वदान्यो विख्यातः क्षितिपतिरशीत्यायुरमलः |
वधूनां योगेऽस्मिन् सति धनसुमाङ्गल्यसहिता
चिरं पुत्रैः पौत्रैः शुभमुपगता सा सुचरिता || १५||

फलदीपिका 6.16

केसरीव रिपुवर्गतिहन्ता प्रौढवाक् सदसि राजसवृत्तः |
दीर्घजीव्यतियशाः पटिबुद्धिस्तेजसा जयति केसरियोगे || १६||

फलदीपिका 6.17

क्वचित्क्वचिद्भाग्यपरिच्युतः सन्पुनः पुनः सर्वमुपैति भाग्यम् |
लोकेऽप्रसिद्धोऽपरिहार्यमन्तः शल्यं प्रपन्नः शकटेऽतिःउखी || १७||

फलदीपिका 6.18

कष्टमध्यमवराह्वययोगे द्रव्यवाहनयशः सुखसंपत् |
ज्ञानधीविनय नैपुणविद्यात्यागभोगजफलान्यपि तद्वत् || १८||

फलदीपिका 6.19

चन्द्राद्वा वसुमांस्तथोपचयगैर्लग्नात्समस्तैः शुभै-
श्चन्द्राव्द्योम्न्य्मलाह्वयः शुभकगैर्योगो विलग्नादपि |
जन्मेशे सहिते विलग्नपतिना केन्द्रेऽधिमित्रर्क्षगे
लग्नं पश्यति कश्चिदत्र बलवान्य्योगो भवेत्पुष्कलः || १९||

फलदीपिका 6.20

तिष्ठेयुः स्वगृहे सदा वसुमति द्रव्याण्यनल्पान्यपि
क्ष्मेशः स्यादमले धनी सुतयशः संपद्युतो नीतिमान् |
श्रीमान् पुष्कलयोगजो नृपवरैः संमानितो विश्रुतः
स्वाकल्पाम्बरभूषितः शुभवचाः सर्वोत्तमः स्यात्प्रभुः || २०||

फलदीपिका 6.21

सर्वे पञ्चसु षट्सु सप्तसु शुभा मालाश्च पङ्क्त्या स्थिता
यद्येवं मृतिषद्व्ययादिषुगृहेष्वत्राशुभाख्याः स्मृताः |
स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ
लक्ष्म्याख्योऽथ तथाविधे हिमकरे गौरीति जिवेक्षिते || २१||

फलदीपिका 6.22

जनाधिकारी क्षितिपालशस्तो भोगी प्रदाता परकार्यकर्ता |
बन्धुप्रियः सत्सुतदारयुक्तोंधिरः सुमालाह्वययोगजातः || २२||

फलदीपिका 6.23

कुमार्गयुक्तोऽशुभमालिकाख्ये दुःखी परेषां वधकृत् कृतघ्नः |
स्यात्कातरो भूसुरभक्तिहोनो लोकाभिशप्तः कलहप्रियः स्यात् || २३||

फलदीपिका 6.24

नित्यं मङ्गलशील्या वनितया क्रीडत्यरोगी धनी
तेजस्वी स्वजनान् सुरक्षति महालक्ष्मीप्रसादालयः |
श्रेष्ठान्दोलिकया प्रयाति तुरगस्तम्बेरमध्यासितो
लोकानन्दकरो महीपतिवरो दाता च लक्ष्मीभवः || २४||

फलदीपिका 6.25

सुन्दरगात्रः श्लाघितगोत्रः पार्थिवमित्रः सद्गुणपुत्रः |
पङ्खजवक्त्रः संस्तुतर्जत्रो राजति गौरीयोगसमुत्थः || २५||

फलदीपिका 6.26

शुक्रवाक्पतिसुधाकरात्मजैः केन्द्रकोणसहितैर्द्वितीयगैः |
स्वोच्चमित्रभवनेषु वाक्पतौ वीर्यगे सति सरस्वतीरिता || २६||

फलदीपिका 6.27

धीम न्नाटकगद्यपद्यगणनालण्कारशास्त्रेष्वयं
निष्णातः कविताप्रबन्धरचनाशास्त्रार्थपारंगतः |
कीर्त्याकान्तजगत्त्रयोऽतिधनिको दारात्मजैरन्वितः
स्यात् सारस्वतयोगजो नृपवरैः संपूजितो भाग्यवान् || २७||

फलदीपिका 6.28

लग्नाधीश्वरभास्करामृतकराः केन्द्रत्रिकोणाश्रिताः
स्वोच्चस्वर्क्षसुहृद्गृहानुपगताः श्रीकण्ठयोगो भवेत् |
तद्वद्भार्गवभाग्यनाथशशिजाः श्रीनाथयोगस्तथा
वागीशात्मपसूर्यजा यादि तदा वैरिञ्चियोगस्ततः || २८||

फलदीपिका 6.29

रुद्राक्षाभरणो विभूतिधवलच्छायो महात्मा शिवं
ध्यायत्यात्मनि सन्ततं सुनियमः शैवव्रते दीछितः
साधूनामुपकारकः परमतेष्वेव नसूयो भवेत्
तेजस्वी शिवपूजया प्रमुदितः श्रीकण्ठयोगोद्भवः || २९||

फलदीपिका 6.30

लक्ष्मीवान् सरसोक्तिचाटुनिपुणो नारायणाङ्काण्कितः
तन्नामाङ्कितहृद्यपद्यमनिशं संकीर्तयन् सज्जनेः |
तद्भक्तापचितौ प्रसन्नवदनः सत्पुत्रदारान्वितः
सर्वेषं नयनप्रियोऽतिसुभगः श्रीनाथयोगोद्भवः || ३०||

फलदीपिका 6.31

ब्रह्म्ज्ञानपरायणो बहुमतिर्वेदप्रधानो गुणी
हृष्टो वैदिकमार्गतो न चलति प्रख्यातशिष्यव्रजः |
सौम्योक्तिर्बहुवित्तदारतनयः सद्भ्रह्मतेजोज्वलन्दी-
र्घयुर्क्जितेन्द्रियो नतनृपो वैरिञ्चियोगोद्भवः || ३१||

फलदीपिका 6.32

अन्योन्यं भवनस्थयोर्विहगयोर्लग्नादिरिह्फान्तकं
भावाधीश्वर्योः क्रमेण कथिताः षट्षष्टियोगा जनैः |
त्रिशद्दैन्यमुदीरितं व्ययरिपुच्छिद्रादिनाथोत्थिता-
स्त्वष्टौ शौर्यपतेः खला निगदिताः शेषा महाख्याः स्मृताः || ३२||

फलदीपिका 6.33

मूर्खः स्यादपवादको दुरितकृन्नित्यं सपत्नार्दितः
क्रूरोक्तिः किलदैन्यजश्चलमतिर्विच्छिन्नकार्योद्यमः |
उद्वृत्तश्च खले कदाचिदखिलं भाग्यं लभेताखिलं
सौम्योक्त्तिश्च कदाचिदेवमशुभं दारिद्र्यदुःखदिकम् || ३३||

फलदीपिका 6.34

श्रीकटक्षनिलयः प्रभुराढ्यश्चित्रवस्त्रकनकाभरणश्च |
पर्थिवाप्तबहुमानरसमाज्ञो यानवित्तसुतवांश्च महाख्ये || ३४||

फलदीपिका 6.35

लग्नाधिपाप्तभपतिस्थितराशिनाथः
स्वोच्चस्वभेशु यदि कोणचतुष्टयस्थः
योगःस कहल इति प्रथितोऽथत्तद्वत्
लग्नाधिपाप्तभप्तिर्यदि पर्वताख्यः || ३५||

फलदीपिका 6.36

वार्द्धिष्णुरार्यः सुमतिः प्रसन्नः क्षेमङ्करः काहलजो नृमान्यः |
स्थिरार्यसौख्यः स्थिरकार्यकर्त्ता क्षितीश्वरः पर्वतयोगजातः || ३६||

फलदीपिका 6.37

धर्मकर्मभवनाधिपती द्वौ संयुतौ महितभावगतौ |
राजयोग इति तद्वदिह स्यात् केन्द्रकोणयुतिर्यति शङ्खः || ३७||

फलदीपिका 6.38

भेरीशङ्खप्रणाद्रैर्धृतमृदुपटिकाजातवृत्ततपत्रो
हस्त्यश्वान्दोलिकाद्यैः सह मगधकुतप्रस्तुतिर्भूमिपालः |
नानारूपोहारस्फुरितकरयुतैः प्रार्थितः सज्जनैः स्याद्राजा
स्याक्छङ्खयोगे बहुवरवनिताभोगसम्पत्तिपूर्णः || ३८||

फलदीपिका 6.39

संख्यायोगाः सप्तसप्तर्क्षसंस्थैरेकापायाद्वल्लकीदामपाशम् |
केदाराख्यः शूलयोगो युगं च गोलश्चान्यान् पूर्वमुक्तान्विहाय || ३९||

फलदीपिका 6.40

वीणायोगे नृत्तगीतप्रियोऽर्थी दाम्नि त्यागीभूतिश्चोपकारी |
पाशे भोगी सार्थसच्छीलबन्धुः केदाराख्ये श्रीकृषिक्षेत्रेयुक्तः || ४०||

फलदीपिका 6.41

शूले हिंस्त्रः क्रोधशीलो दरिद्रः पाषण्डी स्याद् द्रव्यहीनो युगाख्ये |
निस्वः पापी म्लेच्छयुक्तः कुशिल्पी गोले जातश्चालसोऽल्पायुरेव || ४१||

फलदीपिका 6.42

सौम्यैरिन्दोर्द्यूनषड्रन्ध्रसंस्थैस्तद्वल्लग्नात्संस्थितैर्वाधियोगः |
नेता मन्त्री भूपतिः स्यात्क्रमेण ख्यातः श्रिमान्दीर्घजीवी मनस्वी || ४२||

फलदीपिका 6.43

अधियोगभवो नरेश्वंरः स्थिरसंपद्बहुबन्धुपोषकः |
अमुना रिपवः पराजिताह्चिरमायुर्लभते प्रसिद्धताम् || ४३||

फलदीपिका 6.44

भावैः सौम्ययुतेक्षितैस्तदधिपैः सुस्थानगैर्भास्वरैः
स्वोच्चस्वर्क्षगतैर्विलग्नभवनाद्योगाः क्रमाद्द्वादश |
संज्ञाश्चामरधेनुशौर्यजलधिच्छत्रास्त्रक मासुरा-
भाग्यख्यातिसुपारिजातमुसलास्तज्ज्ञैर्यथा कीर्तिताः || ४४||

फलदीपिका 6.45

प्रत्यहं व्रजति वृदिमुदग्रं शुक्लचन्द्र इव शोभनशीलः |
कीर्तिमान् जनपतिश्चिरजीवी श्रीनिधिर्भवति चामरजातः || ४५||

फलदीपिका 6.46

सान्नपान्नविभवोऽखिलविद्या पुष्कलोधिककुटुम्बविभूतिः |
हेमरत्नधनधान्यसंरिद्धो राजराज इव राजति धेनौ || ४६||

फलदीपिका 6.47

कीर्तिमद्भिरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः
शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतियशस्वी || ४७||

फलदीपिका 6.48

गोसंपद्धनधान्य्शोभिसदनं बन्धुप्रपुर्णं वर-
स्त्रीरत्नाम्बरभुषणानि महितस्थानं च सर्वोत्तमम् |
प्राप्नोत्यम्बुहियोगजः स्थिरसुखो हस्त्यश्वयानादिगो
राजेड्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि || ४८||

फलदीपिका 6.49

सुसंसारसौभाग्यसन्तानलक्ष्मी निवासो यशस्वी शुभाषी मनीषी |
अमात्यो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे || ४९||

फलदीपिका 6.50

शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रव्त्त्या सहितोऽभिमानी |
व्रणङ्कितङ्गश्च विवादकारी स्यादस्त्रयोगे दृढगात्रयुक्तः || ५०||

फलदीपिका 6.51

परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः |
जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः || ५१||

फलदीपिका 6.52

हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात् |
स्वयम्कृतानर्थपरंपरार्तः कुकर्मकृच्चासुरयोगजातः || ५२||

फलदीपिका 6.53

चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वती
लक्ष्मी प्राप्य महाजनैः कृतनतिः स्याद्धर्ममर्गे स्थितः |
प्रीणात्येष पितॄन् सुरान्द्विजगणांस्तत्तत्प्रियैः पूजनैः
स्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः || ५३||

फलदीपिका 6.54

सत्क्रियां सकललोकसंमतामाचरन्नवति सज्जन्नान्नृपः |
पुत्रमित्रधनदारभाग्यवान् ख्यातिजो भवति लोकविश्रुतः || ५४||

फलदीपिका 6.55

नित्यमङ्गलयुतः पृथिवीशः संचितार्थनिचयः सुकुटुम्बी |
सत्कथाश्रवणभक्त्रभिज्ञो पारिजातजननः शिवतातिः || ५५||

फलदीपिका 6.56

कृच्छ्रलब्धधनवान् पिरभूतो लोलसंपदुचितव्ययशीलः |
स्वर्गमेव लभऽन्तेत्यदशायां जाल्मको मुसलजश्चपलश्च || ५६||

फलदीपिका 6.57

दुःस्थैर्भावगृहेश्वरैरशुभसंयुक्तेक्षितैर्वा क्रमा-
द्भावैः स्युस्त्ववयोगनिःस्वमृतयः प्रोक्ताः कुहूः पामरः |
हर्षो दुष्कृतिरित्यथापि सरलो निर्भाग्यदुर्योगकौ
योगा द्वादश ते दरिद्र विमले प्रोक्ताविपश्चिज्जनैः || ५७||

फलदीपिका 6.58

अप्रसिद्धिरतिदुःसहदैन्यं स्वल्पमायुरवमानमसद्भिः |
संयुतः कुचरितः कुतनुः स्याच्चञ्चलस्थितिरिहाप्यवयोगे || ५८||

फलदीपिका 6.59

सुवचन्यशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः |
मतिसुतविद्या विभवविहिनो रिपुहृतवित्तः प्रभवति निःस्वे || ५९||

फलदीपिका 6.60

अरिपरिभूतः सहजविहीनो मनसिविलज्जो हतबलवित्तः |
अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे || ६०||

फलदीपिका 6.61

मातृवाहनसुहृत्सुखभूषबन्धुर्भिविरहितः स्थितिशून्यः |
स्थानमाश्रितमनेन हनं स्यात् कुस्त्रियामभिरतः कुहुयोगे || ६१||

फलदीपिका 6.62

दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः |
नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे || ६२||

फलदीपिका 6.63

सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः
प्रथितप्रधानजनवल्लभो धनद्युतिमित्रकीर्तिसुतवांश्चै हर्षजः || ६३||

फलदीपिका 6.64

स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसंचारवृतिः |
प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् || ६४||

फलदीपिका 6.65

दीर्घयुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः |
सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले || ६५||

फलदीपिका 6.66

पित्रार्जितक्षेत्रेगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः |
प्रत्मातिजीर्णम्बरधृच्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम् || ६६||

फलदीपिका 6.67

शरीरप्रयासैः कृतं कर्म यत्तत् व्रजेन्निष्फलत्वं लघुत्वं जनेषु |
जनद्रोहकारी स्वकुर्क्षिभरिः स्यात् अजस्रं प्रवासी च दुर्योगजातः || ६७||

फलदीपिका 6.68

ऋणग्रस्त उग्रो दरिद्राग्रगण्यो भवेत्कर्णरोगी च सौभात्रहीनः |
अकार्यप्रवृत्तो रसाभासवादी परप्रेष्यकः स्याद्दरिद्राख्ययोगे || ६८||

फलदीपिका 6.69

किञ्चिद्व्ययो भूरिधनाभिवृद्धिं प्रयात्ययं सर्वजनानुकूल्यम् |
सुखी स्वतन्त्रो महनीयवृत्ति गुर्णैः प्रतीतो विमलोद्भवः स्यात् || ६९||

फलदीपिका 6.70

छिद्रारिव्ययनायकाः प्रबलगाःकेन्द्रन्त्रिकोणाश्रिताः
लग्नव्योमचतुर्थभाग्यपतयः षड्रन्ध्ररिःफस्थिताः
निर्वीर्या विगतप्रभा याद तदा दुर्योग एव स्मृत-
स्तद्व्यस्ते सति योगवान्धनपतिर्भूपः सुखी धार्मिकः || ७०||

← पिछला अध्याय अगला अध्याय →

पाठ का स्रोत और उपयोग अधिकार

संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11

विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।

CC BY-SA 4.0

अध्याय 6 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%B7%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=73756