Astrological HarshAuthor · Teacher · Researcher
अध्ययन · संस्कृत · शास्त्रीय संदर्भSTUDY · SANSKRIT · CLASSICAL REFERENCES

फलदीपिका · अध्याय 12 · द्वादशोऽध्यायः (पुत्रभावफलम्)

शास्त्रीय ग्रंथ केन्द्र / फलदीपिका

28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।

मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।

फलदीपिका 12.1

पुत्रभाव फल
सुस्था विलग्नशशिनोः सुतभेशजीवाः
सुस्थाननाथशुभदृष्टियुते सुतर्क्षे |
लग्नात्मपौ यदियुतौ च मिथः सुदृष्टौ
क्षेत्रे परस्परगतौ यदि पुत्रसिद्धिः || १||

फलदीपिका 12.2

लग्नामरेड्यशशिनां सुतभेषु पापै-
र्युक्तेक्षितेष्वथ शुभैरयुतेक्षितेषु |
पापोभयेषु सुतभेषु सुतेश्चरेषु
दुःस्थानगेषु न भवन्ति सुताः कर्थचित् || २||

फलदीपिका 12.3

पापे स्वर्क्षगते सुते तनयभाक् तस्मिन् सपापे पुनः
पुत्राः स्युर्बहुलाः शुभस्वभवने सोग्रे सुते पुत्रह |
संज्ञां चाल्पसुतर्क्षमित्यलिबृषस्त्रीसिंहहभानां विदुः
तद्राशौ सुतभावगेऽल्पसुतवान् कालान्तरेऽसाविति || ३||

फलदीपिका 12.4

सूर्ये चाल्पसुतर्क्षगे निधनगे मन्दे कुजे लग्नगे
लग्नाष्टव्यय्गैः शनीड्यरुधिरैश्चाल्पात्मजर्क्षे सुते |
चन्द्र लाभगते गुरुस्थितसुतस्थाने सपापे भवे-
ल्लग्नेऽनेकखगानन्विते तनयभाक्कालान्तरे यत्नतः || ४||

फलदीपिका 12.5

सूर्ये नान्युते सुतर्क्षसहिते चन्द्रस्य गेहे स्थिते
भौमे वा भृगुजेऽपि वा सति सुतप्राप्ति द्वितीयस्त्रियाम् |
मन्दे वा बहुपुत्रवाञ्च्छशिनि वा सौम्येऽपि वाल्पात्मजो
देवेड्ये बहुदारिका शशिगृहे तद्वत्सुताधिपेष्ठिते || ५||

फलदीपिका 12.6

सुखास्तदशमस्थितैरशुभकाव्यशीतांशुभिर्-
व्ययाष्टतनयोदयेष्वशुभगेषु वंशक्षयः |
मदे कविविदौ मतौ गुरुरसद्भिरंबुस्थितैः
सुते शशिनि नैधनव्ययतनुस्थपापैरपि || ६||

फलदीपिका 12.7

पापे लग्ने लग्नपे पुत्रसंस्थे
धीशे वीर्ये वेश्मनीन्दावपुत्रः |
ओजर्क्षेशे पुत्रगे सूर्यदृष्टे
चन्द्रे पुत्रक्लेशभाक् स्यादसूनुः || ७||

फलदीपिका 12.8

मान्दं सुतर्क्षे यदि वाऽथबौधं
मान्द्यर्कपुत्रान्वितवीक्षितं चेत् |
दत्तात्मजः स्यादुदयास्तनाथ-
संबन्धहीनो विबलः सुतेशः || ८||

फलदीपिका 12.9

नीचारिपूढोपगते सुतेशे
रिःफारिरन्ध्राधिपसंयुते वा |
सुतस्य नाशः कथितोऽत्र तज्ज्ञैः
शुभैरदृष्टे सुतभे सुतेशे || ९||

फलदीपिका 12.10

सुतनाथजीवकुजभास्करेषु वै
पुरुषंशकेषु च गतेषु कुत्रचित् |
मुनयो वदन्ति बहुपुत्रतं तदा
सुतनाथवीर्यवशतः सुपुत्रताम् || १०||

फलदीपिका 12.11

पुंराश्यंशेऽधीस्वरे पुंग्रहेन्द्रै-
र्युक्ते दृष्टे पुंग्रहे पुंप्रसुतिः |
स्त्रीराश्यांशे स्त्रीग्रहैर्युक्तदृष्टे
स्त्रीणां जन्म स्यात्सुतर्क्षे सुतेशे || ११||

फलदीपिका 12.12

बलयुक्तौ स्वगृहांशेष्वर्कसितावुपचयर्क्षगौ पुंसाम् |
स्त्रीणां वा कुजचन्द्रौ यदा तदा संभवति गर्भः || १२||

फलदीपिका 12.13

अशत्रुनिचारिनवांशकैः सुते
सुतेशयुक्तैरपि तैस्तथाविधैः |
सुतर्क्षगैर्वा गुरुभादिनांशकात्सुते
फलैः पुत्रमितिर्विचिन्त्यते || १३||

फलदीपिका 12.14

जीवेन्दुक्षितिजस्फुटैक्यभवने युग्मे च युग्मांशके
स्त्रीणां क्षेत्रेबलं वदन्ति सुतदं मिश्रे प्रयासात्फलम्
भास्वच्छुक्रगुरुस्फुटैक्यभव नेप्योजांशकेऽप्योजभे
पुंसां बीजबलं सुतप्रदमिमं मिश्रे तु मिश्रं वदेत् || १४||

फलदीपिका 12.15

पञ्चाघ्नाच्छशिनः फुटादिशुहतं भानुस्फुटं शोधये-
न्नीत्वा तत्र तिथिं सिते शुभतिथौ पुत्रोऽस्त्ययत्नादपि |
कृष्णे नास्ति सुतस्तिथेर्बलवशाद्ब्रूयाद्द्वंयोः पक्षयोः
दर्शे च्छिद्रतिथौ च विष्टिकरणे न स्यात् स्थिराख्ये सुतः || १५||

फलदीपिका 12.16

विष्टिः स्थिरं वा करणं यदि स्यात्
कृष्णं जयेत् पौरुषसूक्तमन्त्रैः |
पष्ठ्यां गुहार्धनमत्र कार्यं
यजेच्चतुर्थ्यां किल नागराजं || १६||

फलदीपिका 12.17

रामायणस्य श्रवणं नवम्यं
यद्यष्टमी चेच्छ्रवणव्रतं च |
चतुर्दशी चेद्यादि रुद्रपूजा
स्याद्द्वादशी चेत्समृतमन्नदानम् || १७||

फलदीपिका 12.18

तृप्ति पितॄणामिह पञ्चदश्यां
कृष्ंए दशम्याः परतोऽतियत्नात् |
पक्षत्रिभागेष्वपि नागराजं
स्कन्दं च सेवेत हरी क्रमेण || १८||

फलदीपिका 12.19

पुत्रेशो रिपुनीचगोऽस्तमयगो रिःफाष्टमारिस्थित
स्तद्वत्पुत्रगृहस्थितोऽपि यदि वा दुःस्थानपस्तद्वशात् |
पुत्राभावनिदानमेव कथयेत् तत्खेचराक्रान्तभ-
प्रोक्तैर्दैवतभूरुहैरपि मृगैः सन्तानहेतु वदेत् || १९||

फलदीपिका 12.20

द्रोहाच्छंभुसुपर्णयोर्नहि सुतः शापात्पितॄंआंरवे
रिन्दोर्मतृसुवासिनीभगवतीकोपान्मनोदोषतः |
स्वग्रामस्थितद्वतागुहरिपुज्ञात्युत्थदोषात्कुजे
शापाद्वालकृताद्विलालवधतः श्चीविष्णुकोपादूबुधे || २०||

फलदीपिका 12.21

पारंपर्यसुरप्रियद्विजगुरुद्रोहात्फलाढ्यद्रु म-
च्छेदाद्देवगुरौ तथा सति भृगौ पुष्पद्रुमच्छेदनात् |
साध्वीगोकुलजातदोषवशतो यक्ष्यादिकामेन सा
मन्देऽश्वत्थवधाद्रुषा पितृपतेः प्रेतैः पिशाचादिभिः || २१||

फलदीपिका 12.22

स्वर्भानौ सुतगे सुतेशसहिते सर्पस्य शापात्तथा
केतौ ब्राह्मणशापतश्च गुलिके प्रेतोथशापं वदेत् |
शुक्रेन्दू गुलिकान्वितौ यदि वधूगोहत्तिमाहुः सुते
जीवो वाथ शिखी समान्दिरिह चेद्भूदेवत्या.सुतः || २२||

फलदीपिका 12.23

एवं हि जन्मसमये बहुपूर्वजन्म-
कर्मार्जितं दुरितमस्य वदन्ति तज्ज्ञाः |
तत्तद्ग्रहोक्तजपदानशुभक्रिया-
भिस्तद्दोषशान्तिमिह शंसतु पुत्रसिध्द्यै || २३||

फलदीपिका 12.24

सेतुस्नानं कीर्तनं सत्कथायाः
पूजां शंभोः श्रीपतेः सद्व्रतानि |
दानं श्चाद्धं कर्जनागप्रतिष्टां
कुर्यदेतैः प्राप्नुयात्सन्तर्ति सः || २४||

फलदीपिका 12.25

लग्नास्तपुत्रपतिजीवदशापहारे
पुत्रेक्षकस्य सुतगस्य च पुत्रसिद्धिः
पुत्रेशराशिमथवा यमकण्टकर्क्षं
जीवेगते तनयसिद्धिरथांशभे वा || २५||

फलदीपिका 12.26

लग्नाधीशः पुत्रनाथेन योगं
स्वोच्चे स्वर्क्षेचारगत्या समेति |
पुत्रप्राप्तिः स्यात्तदा लग्ननाथः
पुत्रर्क्षं वा याति धीशाप्तभं वा || २६||

फलदीपिका 12.27

विलग्नकामात्मजनायकानां योगात्समानीय दशां महाख्याम् |
सुतस्थतद्वीक्षकतत्पतीनां दशापहारेषु सुतोद्भवः स्यात् || २७||

फलदीपिका 12.28

सुतपतिगुर्वोरथवा तद्युक्तराश्यंशकाधिपानां वा |
बलसहितस्य दशायामपहारे वा सुतप्राप्तिः || २८||

फलदीपिका 12.29

जीवे तु जीवात्मजनाथभशक-
त्रिकोणगे पुत्रजनिर्भवेन्नृणाम् |
अथान्यशास्त्रेण च जन्मकालतो
निरूपयेत्सन्ततिलक्षणं बुधः || २९||

फलदीपिका 12.30

जन्मनक्षत्रनाथस्य प्रत्ययर्क्षर्धिपस्य च
स्फुटयोगं गते जीवे त्रिकोणे वा सुतोद्भवः || ३०||

फलदीपिका 12.31

निषेकलग्नाद्दिनपस्तृतीये
राशौ यदा चारवशादुपैति |
आधानलग्नादथवा त्रिकोणे रवौ यदा जन्म वदेन्नराणाम् || ३१||

फलदीपिका 12.32

आधानल्ग्नात्सुतभेशजन्म
भाग्येऽपि वा पुण्यवशाच्च वाच्यं |
आधनलग्ने शुभदृष्टियोगे
दीर्घयुरैश्वर्ययुतो नरः स्यात् || ३२||

फलदीपिका 12.33

तत्कालेन्दुद्वादशांशे मेषात्तावति भेऽपि वा |
तस्मात्तावति भे वापि जन्मचन्द्रं वदेद्बुधः || ३३||

फलदीपिका 12.34

प्रश्नात्मजस्वीकरणोपनीतिकन्याप्रदानाभिनवार्तवेषु |
आधानकालेऽपि च जन्मतुल्यं फलं वदेञ्जन्मविलग्नतश्च || ३४||

← पिछला अध्याय अगला अध्याय →

पाठ का स्रोत और उपयोग अधिकार

संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11

विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।

CC BY-SA 4.0

अध्याय 12 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%B6%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%AA%E0%A5%81%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%AB%E0%A4%B2%E0%A4%AE%E0%A5%8D)&oldid=73751