बृहत्पाराशरहोराशास्त्रम् 97.97
अथोपसंहाराध्यायः ॥ ९७॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथोपसंहाराध्यायः ॥ ९७॥
यच्छास्त्रं ब्रह्मणा प्रोक्तं नारदाय महात्मने ।
तदेव शौनकादिभ्यो नारदः प्राह सादरम् ॥ १॥
ततो मया यथा ज्ञातं तुभ्यमुक्तं तथा द्विज ।
नासूयकाय दातव्यं परनिन्दारताय वा ॥ २॥
जडाय दुर्विनीताय नाज्ञाताय कदाचन ।
देयमेतत्सुरिलाय भक्ताय सत्यवादिने ॥ ३॥
मेधाविने विनीताय सम्यग् ज्ञातकुलाय च ।
पुण्यदं ज्यौतिषं शास्त्रमग्र्यं वेदाङ्गमुत्तमम् ॥ ४॥
जानाति कालमानं यो ग्रहर्क्षाणां च संस्थितिम् ।
होराशास्त्रमिदं सम्यक् स विजानाति नाऽपरः ॥ ५॥
होराशास्त्रार्थतत्त्वज्ञः सत्यवाग् विजितेन्द्रियः ।
शुभाऽशुभं फलं वक्ति सत्यं तद्वचनं भवेत् ॥ ६॥
ये सुशास्त्रं पठन्तीदं ये वा शृण्वन्ति भक्तितः ।
तेषांमायुर्बलं वित्तं वृद्धिमेति यशः सदा ॥ ७॥
इत्थं पराशरेणोक्तं होराशास्त्रं चमत्कृतम् ।
नवं नवजनप्रीत्यै विविधाध्यायसंयुतम् ॥ ८॥
श्रेष्ठं जगद्धितायेदं मैत्रेयाय द्विजन्मने ।
ततः प्रचरितं पृथ्व्यामादृतं सादरं जनैः ॥ ९॥
ग्रन्थेऽस्मिन् पृथगध्यायैर्विषया विनिवेशिताः ।
सृष्टिक्रमोऽवताराश्च गुणाः खेटस्य भस्य च ॥ १०॥
विशेषलग्नं वर्गाश्च तद्विवेकश्च राशिदृक् ।
अरिष्टं तद्विभङ्गश्च विवेको भावजस्तथा ॥ ११॥
भावानां च फलाध्यायो भावेशोत्थफलं तथा ।
अप्रकाशफलं स्पष्टखेटदृष्टिप्रसाधनम् ॥ १२॥
ततः स्पष्टबलाध्यायः इष्टकष्टप्रसाधनम् ।
पदं चोपपदं तद्वदर्गला त्वथ कारकाः ॥ १३॥
कारकांशफलं योगकारकाध्याय एव च ।
नाभसा विविधा योगाश्चन्द्रयोगोऽर्कयोगकः ॥ १४॥
राजयोगस्ततः प्रोक्तो राजसम्बन्धयोगकः ।
विशेषधनयोगाश्च योगा दारिद्र्यकारकाः ॥ १५॥
आयुर्मारकभेदाश्च ग्रहावस्थाः फलान्विताः ।
नानाविधदशाध्यायास्तत्फलाध्यायः संयुताः ॥ १६॥
अन्तःप्रत्यन्तरप्राणसूक्ष्मसंज्ञाश्च तद्भिदाः ।
सूर्याद्यष्टकवर्गश्च त्रिकोणपरिशोधनम् ॥ १७॥
एकाधिपत्यसंशुद्धिस्ततः पिण्डप्रसाधनम् ।
ततश्चाऽष्टकवर्गाणां प्रस्फुटानि फलानि च ॥ १८॥
ततोऽप्यष्टकवर्गायुःसाधनं च ततः परम् ।
समुदायाष्टवर्गोत्थफलाध्यायः परिस्फुटः ॥ १९॥
ग्रहरश्मिफलाध्यायः सुदर्शनफलं तथा ।
महापुरुषचिह्नानि महाभूतफलानि च ॥ २०॥
गुणत्रयफलाध्यायस्ततोऽप्यज्ञातजन्मनाम् ।
जन्मलग्नादिविज्ञानं प्रव्रज्यालक्षणानि च ॥ २१॥
स्त्रीणां च फलवैष्ट्यमङ्गलक्ष्मफलानि च ।
पूर्वपापोत्थशापोत्थयोगा वैपुत्र्यकारकाः ॥ २२॥
सत्पुत्रप्राप्त्युपायाश्च सहैव प्रतिपादिताः ।
जन्मन्यनिष्टलग्नर्क्षतिथ्यादिप्रतिपादनम् ॥ २३॥
तत्तच्छान्तिविधिश्चैव संक्षेपेण प्रदर्शितः ।
प्रसवस्य विकाराश्च कथिताः शान्तिसंयुताः ॥ २४॥
एवं जातकवर्येऽत्र निविष्टा विषयाः शतम् ।
विज्ञाय विबुधास्त्वेतान् प्राप्नुवन्तु यशः श्रियम् ॥ २५॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 97 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AF%E0%A5%AD_(%E0%A4%85%E0%A4%A5%E0%A5%8B%E0%A4%AA%E0%A4%B8%E0%A4%82%E0%A4%B9%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85924