बृहत्पाराशरहोराशास्त्रम् 24.1
लग्नेशे लग्नगे देहसुखभाग् भुजविक्रमी।
मनस्वी चञ्चलश्चैव द्विभार्यो परगोऽपि व॥ १॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
लग्नेशे लग्नगे देहसुखभाग् भुजविक्रमी।
मनस्वी चञ्चलश्चैव द्विभार्यो परगोऽपि व॥ १॥
लग्नेशे धनगे बालो लाभवान् पण्डितः सुखी।
सुशीलो धर्मविन्मानी बहुदारगुणैर्युतः॥ २॥
लग्नेशे सहजे जातः सिंहतुल्यपराक्रमी।
सर्वसम्पद्युतो मानी द्विभार्यो मतिमान् सुखी॥ ३॥
लग्नेशे सुखगे बालः पितृमातृसुखान्वितः।
बहुभ्रातृयुतः कामी गुणरूपसमन्वितः॥ ४॥
लग्नेशे सुतगे जन्तोः सुतसौख्यं च मध्यमम्।
प्रथमापत्यनाशः स्यान्मानी क्रोधी नृपप्रियः॥ ५॥
लग्नेशे षष्ठगे जातो देहसौख्यविवर्जितः।
पापाढ्ये शत्रुतः पीडा सौम्यदृष्टिविवर्जिते॥ ६॥
लग्नेशे सप्तमे पापे भार्या तस्य न जीवति।
शुभेऽटनो दरिद्रो वा विरक्तो वा नृपोऽपि वा॥ ७॥
लग्नेशेऽष्टमगे जातः सिद्धविद्याविशारदः।
रोगी चौरो महाक्रोधी द्यूती च परदारगः॥ ८॥
लग्नेशे भाग्यगे जातो भाग्यवाञ्जनवल्लभः।
विष्णुभक्तः पटुर्वाग्मी दारपुत्रधनैर्युतः॥ ९॥
लग्नेशे दशमे जातः पितृसौख्यसमन्वितः।
नृपमान्यो जने ख्यातः स्वार्जितस्वो न संशयः॥ १०॥
लग्नेशे लाभगे जातः सदा लाभसमन्वितः।
सुशीलः ख्यातकीर्तिश्च बहुदारगुणैर्युतः॥ ११॥
लग्नेशे व्ययभावस्थे देहसौख्यविवर्जितः।
व्यर्थव्ययी महाक्रोधी शुभदृग्योगवर्जिते॥ १२॥
धनेशे लग्नगे जातः पुत्रवान् धनसंयुतः।
कुटुम्बकण्टकः कामी निष्ठुरः परकार्यकृत्॥ १३॥
धनेशे धनगे जातो धनवान् गर्वसंयुतः।
द्विभार्यो बहुभार्यो वा सुतहीनः प्रजायते॥ १४॥
धनेशे सहजे जातो विक्रमी मतिमान् गुणी।
कामी लोभी शुभाढ्ये च पापाढ्ये देवनिन्दकः॥ १५॥
धनेशे सुखभावस्थे सर्वसम्पतसमन्वितः।
गुरुणा संयुते स्वोच्चे राजतुल्यो नरो भवेत्॥ १६॥
धनेशे सुतभावस्थे जातो धनसमन्वितः।
धनोपार्जनशीलाश्च जायन्ते तत्सुता अपि॥ १७॥
धनेशे रिपुभावस्थे सशुभे शत्रुतो धनम्।
सपापे शत्रुतो हानिर्जंघावैकल्यवान् भवेत्॥ १८॥
धनेशे सप्तमे जातः परदाररतो भिषेक्।
पापेक्षितयुते तस्य भार्या च व्यभिचारिणी॥ १९॥
धनेशेऽष्टमगे जातो भूरिभूमिधनैर्युतः।
पत्नीसुखं भवेत् स्वल्पं ज्येष्ठभ्रातृसुखं न हि॥ २०॥
धनेशे धर्मभावस्थे धनवानुद्यमी पटुः।
बाल्ये रोगी सुखी पश्चात् तीर्थधर्मव्रतादिकृत्॥ २१॥
धनेशे कर्मगे जातः कामी मानी च पण्डितः।
बहुदार्यधनैर्युक्तः किञ्च पुत्रसुखोज्झितः॥ २२॥
धनेशे लाभभावस्थे सर्वलाभसमन्वितः।
सदोद्योगयुतो मानी कीर्तिमान् जायते नरः॥ २३॥
धनेशे व्ययभावस्थे साहमी धनवर्जितः।
परभाग्यरतस्तस्य ज्येष्ठापत्यसुखं नहि॥ २४॥
लग्नगे सहजाधीशे स्वभुजार्जितवित्तवान्।
सेवाज्ञः साहसी जातो विद्याहीनोऽपि बुद्धिमान्॥ २५॥
द्वितीये सहजाधीशे स्थूलो विक्रमवर्जितः।
स्वल्पारम्भी सुखी न स्यात् परस्त्रीधनकामुकः॥ २६॥
सहजे सहजाधीशे सहोदरसुखान्वितः।
धनपुत्रयुतो हृष्टो भुनक्ति सुखमद्भुतम्॥ २७॥
सुखस्थे सहजाधीशे सुखी च धनसंयुतः।
मतिमान् जायते बालो दुष्टभार्यापतिश्च सः॥ २८॥
सुतस्थे सहजाधीशे पुत्रवान् गुणसंयुतः।
भार्या तस्य भवेत् क्रूरा क्रूरग्रहयुतेक्षिते॥ २९॥
षष्ठभावे त्र्तीयेशे भ्रातृशत्रुर्महाधनी।
मातुलैश्च समं वैरं मातुलानीप्रियो नरः॥ ३०॥
सप्तमे सहजाधीशे राजसेवापरो नरः।
बाल्ये दुःखी सुखी चान्ते जायते नाऽत्र संशयः॥ ३१॥
अष्टमे सहजाधीशे जातश्चैरो नरो भवेत्।
दासवृत्त्योपजीवी च राजद्वारे मृतिर्भवेत्॥ ३२॥
नवमे सहजाधीशे पितुः सुखविवर्जितः।
स्त्रीभिर्भाग्योदयस्तस्य पुत्रादिसुखसंयुतः॥ ३३॥
दशमे सहजाधीशे जातः सर्वसुखान्वितः।
स्वभुजार्जिवित्तश्च दुष्टस्त्रीभरणे रतः॥ ३४॥
लाभगे सहजाधीशे व्यापारे लाभवान् सदा।
विद्याहीनोऽपि मेधावी साहसी परसेवकः॥ ३५॥
व्ययस्थे सहजाधीशे कुतार्ये व्ययकृज्जनः।
पिता तस्य भवेत् क्रूरः स्त्रीभिर्भाग्योदयस्तथा॥ ३६॥
सुखेशे धनगे जातो विद्यागुणविभूषितः।
भूमीवाहनसंयुक्तो मातुः सुखसमन्वितः॥ ३७॥
सुखेशे धनगे जातो भोगी सर्वधनान्वितः।
कुटुम्बसहितो मानी साहसी कुहकान्वितः॥ ३८॥
सुखेशे सहजे जातो विक्रमी भृत्यसंयुतः।
उदारोऽरुग् गुणी दाता स्वभुजार्जितवित्तवान्॥ ३९॥
सुखेशे सुखभावस्थे मन्त्री सर्वधनान्वितः।
चतुरः शीलवान् मानी ज्ञानवान् स्त्रीप्रियः सुखी॥ ४०॥
सुखेशे पुत्रभावस्थे सुखी सर्वजनप्रियः।
विष्णुभक्तो गुणी मानी स्वभुजार्जितवित्तवान्॥ ४१॥
सुखेशे रिपुभावस्थे मातुः सुखविवर्जितः।
क्रोधी चोरोऽभिचारी च स्वेच्छाचारश्च दुर्मनाः॥ ४२॥
सुखेशे सप्तमे जातो बहुविद्यासमन्वितः।
पित्रार्जितधनत्यागी सभायां मूकवद् भवेत्॥ ४३॥
सुखेशे रन्ध्रभावस्थे गृहादिसुखवर्जितः।
पित्रोः सुखं भवेदल्पं जातः क्लीबसमो भवेत्॥ ४४॥
सुखेशे भाग्यभावस्थे जातः सर्वजनप्रियः।
देवभक्तो गुणी मानी भवेत् सर्वसुखान्वितः॥ ४५॥
सुखेशे कर्मभावस्थे राजमान्यो नरो भवेत्।
रसायनी महाहृष्टो सुखभोगी जितेन्द्रियः॥ ४६॥
सुखेशे लाभगे जातो गुप्तरोगभयान्वितः।
उदारी गुणवान् दाता परोपकरणे रतः॥ ४७॥
सुखेशे व्ययभावस्थे गृहादिसुखवर्जितः।
जातो दुर्व्यसनी मूढः सदाऽलस्यसमन्वितः॥ ४८॥
सुतेशे लग्नगे जातो विद्यान् पुत्रसुखान्वितः।
कदर्यो वक्रचित्तश्च परद्रव्यापहारकः॥ ४९॥
सुतेशे धनगे जातो बहुपुत्रो धनान्वितः।
कुटुम्बपोषको मानी स्त्रीप्रियः सुयशा भुवि॥ ५०॥
सुतेशे सहजे भावे जायते सोदरप्रियः।
पिशुनश्च कदर्यश्च स्वकार्यनिरतः सदा॥ ५१॥
सुतेशे सुखभावस्थे सुखी मातृसुखान्वितः।
लक्ष्मीयुक्तः सुबुद्धिश्च राज्ञोऽमात्योऽथवा गुरुः॥ ५२॥
सुतेशे सुतभावस्ते शुभाढ्ये पुत्रवान् नरः।
पापाढ्येऽपत्यहीनोऽसौ गुणवान् मित्रवत्सलः॥ ५३॥
सुतेशे रिपुभावस्थे पुत्रः शत्रुसमो भवेत्।
मृतापत्योऽथवा जातो दत्तक्रीतसुतोऽथवा॥ ५४॥
सुतेशे सप्तमे मानी सर्वधर्मसमन्वितः।
पुत्रादिसुखयुक्तश्च परोपकरणे रतः॥ ५५॥
सुतेशे रन्ध्रभावस्थे स्वल्पपुत्रसुखान्वितः।
कासश्वाससमायुक्तः क्रोधी च सुखवर्जितः॥ ५६॥
सुतेशे भाग्यगे पुत्रो भपो वा तत्समो भवेत्।
स्वयं वा ग्रन्थकर्ता च विख्यातः कुलदीपकः॥ ५७॥
सुतेशे राज्यभावस्थे राजयोगो हि जायते।
अनेकसुखभोगी च ख्यातकीर्तिर्नरो भवेत्॥ ५८॥
सुतेशे लाभगे जातो विद्यावान् जनवल्लभः।
ग्रन्थकर्ता महादक्षो बहुपुत्रधनान्वितः॥ ५९॥
सुतेशे व्ययभावस्थे जातः पुत्रसुखोज्ज्ञितः।
दत्तपुत्रयुतो वाऽसौ क्रीतपुत्रान्वितोऽथवा॥ ६०॥
षष्ठेशे लग्नगे जातो रोगवान् कीर्तिसंयुतः।
आत्मशत्रुर्धनी मानी साहसी गुणवान् नरः॥ ६१॥
षष्ठेशे धनभावस्थे साहसी कुलविश्रुतः।
परदेशी सुखी वक्ता स्वकर्मनीरतः सदा॥ ६२॥
षष्ठेशे सहजः जातः क्रोधी विक्रमवर्जितः।
भ्राता शत्रुसमस्तस्य भृत्यश्चोत्तरदायकः॥ ६३॥
षष्ठेशे सुखभावस्थे मातुः सुखविवर्जितः।
मनस्वी पिशुना द्वेषी चलचित्तोऽतिवित्तवान्॥ ६४॥
षष्ठेशे सुतगो यस्य चलं तस्य धनादिकम्।
शत्रुता पुत्रमित्रैश्च सुखी स्वार्थी दयान्वितः॥ ६५॥
षष्ठेशे रिपुभावस्थे वैरं स्वज्ञातिमण्डलात्।
अन्यैः सह भवेन् मैत्री सुखं मध्यं धनादिजम्॥ ६६॥
षष्ठेशे दारभावस्थे जातो दारसुखोज्झितः।
कीर्तिमान् गुणवान् मानी साहसी धनसंयुतः॥ ६७॥
षष्ठेशेऽष्टमगे जातो रोगी शत्रुर्मनीषिणाम्।
परद्रव्याभिलाषी च परदाररतोऽशुचिः॥ ६८॥
षष्ठेशे भाग्यगे जातः काष्ठपाषाणविक्रयी।
व्यवहारे क्वचिद्धानिः क्वचिद्वृद्धिश्च जायते॥ ६९॥
षष्ठेशे दशमे भावे मानवः कुलविश्रुतः।
अभक्तश्च पितुर्वक्ता विदेशे च सुखी भवेत्॥ ७०॥
षष्ठेशे लाभगे जातः शत्रुतो धनमाप्नुयात्।
गुणवान् साहसी मानी किन्तु पुत्रसुखोज्झितः॥ ७१॥
षष्ठेशे व्ययभावस्थे व्यसने व्ययकृत् सदा।
विद्वद्द्वेषी भवेज्जातो जीवहिंसासु तत्परः॥ ७२॥
दारेशे लग्नगे जातः परदारेषु लम्पटः।
दुष्टो विचक्षणोऽधीरो जनो वातरुजान्वितः॥ ७३॥
दारेशे धनगे जातो बहुस्त्रीभिः समन्वितः।
दारयोगाद्धनाप्तिश्च दीर्घसूत्री च मानवः॥ ७४॥
दारेशे सहजे जातो मृतापत्यो हि मानवः।
कदाचिज्जायते पुत्री यत्नात् पुत्रोऽपि जीवति॥ ७५॥
दारेशे सुखभावस्थे जाया नास्य वशे सदा।
स्वयं सत्यप्रियो धीमान् धर्मात्मा दन्तरोगयुक्॥ ७६॥
दारेशे पञ्चमे जातो मानि सर्वगुणान्वितः।
सर्वदा हर्षयुक्तश्च तथा सर्वधनाधिपः॥ ७७॥
दारेशे रिपुभावस्थे भार्या तस्य रुजान्विता।
स्त्रिया सहाऽथ वा वैरं स्वयं क्रोधी सुखोज्झितः॥ ७८॥
दारेशे सप्तमे भावे जातो दारसुखान्वितः।
धीरो विचक्षणो धीमान् केवलं वातरोगवान्॥ ७९॥
दारेशे मृत्युभावस्थे जातो दारसुखोज्झितः।
भार्याऽपि रोगयुक्ताऽस्य दुःशीलाऽपि न चानुगा॥ ८०॥
दारेशे धर्मभावस्थे नानास्त्रीभिः समागमः।
जायाहृतमना जातो बह्वारम्भकरो नरः॥ ८१॥
दारेशे कर्मभावस्थे नास्य जाया वशानुगा।
स्वयं धर्मरतो जातो धनपुत्रादिसंयुतः॥ ८२॥
दारेशे लाभभावस्थे दारैरर्थसमागमः।
पुत्रादिसुखमल्पं च जनः कन्यप्रजो भवेत्॥ ८३॥
दारेशे व्ययगे जातो दरिद्रः कृपणोऽपि वा।
भार्यापि व्ययशीलाऽस्य वस्त्राजीवी नरो भवेत्॥ ८४॥
अष्टमेशे तनौ जातस्तनुसौख्यविवर्जितः।
देवानां ब्राह्मणानां च निन्दको व्रणसंयुतः॥ ८५॥
अष्टमेशे धने बाहुबलहीनः प्रजायते।
धनं तस्य भवेत् स्वल्पं नष्ट वित्तं न लभ्यते॥ ८६॥
रन्ध्रेशे सहजे भावे भ्रातृसौख्यं न जायते।
सालस्यो भृत्यहीनश्च जायते बलवर्जितः॥ ८७॥
रन्ध्रेशे सुखभावस्थे मातृहीनो भवेच्छिशुः।
गृहभूमिसुखैर्हीनो मित्रद्रोही न संशयः॥ ८८॥
रन्ध्रेशे सुतभावस्थे जडबुद्धिः प्रजायते।
स्वल्पप्रज्ञो भवेज्जतो दीर्घायुश्च धनान्वितः॥ ८९॥
रन्ध्रेशे रिपुभावस्थे शत्रुजेता भवेज्जनः।
रोगयुक्तशरीरश्च बाल्ये सर्पजलाद् भयम्॥ ९०॥
रन्ध्रेशे दारभावस्थे तस्य भार्याद्वयं भवेत्।
व्यापारे च भवेद्हानिस्तस्मिन् पापयुते ध्रुवम्॥ ९१॥
रन्ध्रेशे मृत्युभावस्थे जाता दीर्घायुषा युतः।
निर्बले मध्यमायुः स्याच्चौरो निन्द्योऽन्यनिन्दकः॥ ९२॥
अष्टमेशे तपःस्थाने धर्मद्रोही च नास्तिकः।
दुष्टभार्यापतिश्चैव परद्रव्यापहारकः॥ ९३॥
रन्ध्रेशे कर्मभावस्ते पितृसौख्यविवर्जितः।
पिशुनः कर्महीनश्च यदि नैव शुभेक्षिते॥ ९४॥
रन्ध्रेशे लाभभावस्थे सपापे धनवर्जितः।
बाल्ये दुःखी सुखी पश्चात् दीर्घायुश्च शुभान्विते॥ ९५॥
रन्ध्रेशे व्ययभावस्थे कुकार्ये व्ययकृत् सदा।
अल्पायुश्च भवेज्जातः सपापे च विशेषतः॥ ९६॥
भाग्येशे लग्नगे जातो भाग्यवान् भूपवन्दितः।
सुशीलश्च सुरूपश्च विद्यावान् जनपूजितः॥ ९७॥
भाग्येशे धनभावस्थे पण्डितो जनवल्लभः।
जायते धनवान् कामी स्त्रीपुत्रादिसुखान्वितः॥ ९८॥
भाग्येशे भ्रातृभावस्थे जातो भ्रातृसुखान्वितः।
धनवान् गुणवांश्चापि रूपशीलसमन्वितः॥ ९९॥
भाग्येशे तुर्यभावस्थे गृहयानसुखान्वितः।
सर्वसम्पत्तियुक्तश्च मातृभक्तो भवेन्नरः॥ १००॥
भाग्येशे सुतभावस्थे सुतभाग्यसमन्वितः।
गुरुभक्तिरतो धीरो धर्मात्मा पण्डितो नरः॥ १०१॥
भाग्येशे रिपुभावस्थे स्वल्पभाग्यो भवेन्नरः।
मातुलादिसुखैर्हीनः शत्रुभिः पीडितः सदा॥ १०२॥
भाग्येशे दारभावस्थे दारयोगात् सुखोदयः।
गुणवान् कीर्तिमांश्चापि जायते द्विजसत्तमः॥ १०३॥
भाग्येशे मृत्युभावस्थे भाग्यहीनो नरो भवेत्।
ज्येष्ठभ्रातृसुखं नैव तस्य जातस्य जायते॥ १०४॥
भाग्येशे भाग्यभावस्थे बहुभाग्यसमन्वितः।
गुणसौन्दर्यसम्पन्नो सहजेभ्यः सुखं बहु॥ १०५॥
भाग्येशे कर्मभावस्थे जातो राजाऽथ तत्समः।
मन्त्री सेनापतिर्वाऽपि गुणवान् जनपुजितः॥ १०६॥
भाग्येशे लाभभावस्थे धनलाभो दिने दिने।
भक्तो गुरुजनानां च गुणवान् पुण्यवानपि॥ १०७॥
भाग्येशो व्ययभावस्थो भाग्यहानिकरो नृणाम्।
शुभकार्ये व्ययो नित्यं निर्धनोऽतिथिसङ्गमात्॥ १०८॥
कर्मेशे लग्नगे जातो विद्वान् ख्यातो धनी कवीः।
बाल्ये रोगी सुखी पश्चाद् धनवृद्धिर्दिने दिने॥ १०९॥
राज्येशे धनभावस्थे धनवान् गुणसंयुतः।
राजमान्यो वदान्यश्च पित्रादिसुखसंयुतः॥ ११०॥
कर्मेशे सहजे जातो भ्रातृभृत्यसुखान्वितः।
विक्रमी गुणसम्पन्नः वाग्मी सत्यरतो नरः॥ १११॥
कर्मेशे सुखभावस्थे सुखी मातृहिते रतः।
यानभूमिगृहाधीशो गुणवान् धनवानपि॥ ११२॥
कर्मेशे सुतभावस्थे सर्वविद्यासमन्वितः।
सर्वदा हृर्षसंयुक्तो धनवान् पुत्रवानपि॥ ११३॥
कर्मेशे रिपुभावस्थे पितृसौख्यविवर्जितः।
चतुरोऽपि धनैर्हीनः शत्रुभिः परिपीडितः॥ ११४॥
राज्येशे दारभावस्थे जातो दारसुखान्वितः।
मनस्वी गुणवान् वाग्मी सत्यधर्मरतः सदा॥ ११५॥
कर्मेशे रन्ध्रभावस्थे कर्महीनो भवेन्नरः।
दीर्घायुरप्यसौ जातः परनिन्दापरायणः॥ ११६॥
राज्येशे भाग्यभे जातो राजा राजकुलोद्भवः।
तत्समोऽन्यकुलोत्पन्नो धनपुत्रादिसंयुतः॥ ११७॥
कर्मेशे राज्यभावस्थे सर्वकर्मपटुः सुखी।
विक्रमी सत्यवक्ता च गुरुभक्तिरतो नरः॥ ११८॥
राज्येशे लाभभावस्थे जातो धनसुतान्वितः।
हर्षवान् गुणवांश्चापि सत्यवक्ता सदा सुखी॥ ११९॥
राज्येशे व्ययभावस्थे तस्य राजगृहे व्ययः।
शत्रुतोऽपि भयं नित्यं चतुरश्चापि चिन्तितः॥ १२०॥
लाभेशे लग्नगे जातः सात्त्विको धनवान् सुखी।
समदृष्टिः कविर्वाग्मी सदा लाभसमन्वितः॥ १२१॥
लाभेशे धनभावस्थे जातः सर्वधनान्वितः।
सर्वसिद्धियुतो दाता धार्मिकश्च सुखी सदा॥ १२२॥
लाभेशे सहजे जातः कुशलः सर्वकर्मसु।
धनी भ्रातृसुखोपेतः शूलरोगभयं क्वचित्॥ १२३॥
लाभेशे सुखभावस्थे लाभो मातृकुलाद् भवेत्।
तीर्थयात्राकरो जातो गृहभूमिसुखान्वितः॥ १२४॥
लाभेशे सुतभावस्थे भवन्ति सुखिनः सुताः।
विद्यवन्तोऽपि सच्छीलाः स्वयं धर्मरतः सुखी॥ १२५॥
लाभेशे रोगभावस्थे जातो रोगसमन्वितः।
क्रूरबुद्धिः प्रवासी च शत्रुभि परिपीडितः॥ १२६॥
लाभेशे दारभावस्थे लाभो दारकुलात् सदा।
उदारश्च गुणी कामी जनो भार्यावशानुगः॥ १२७॥
लाभेशे रन्ध्रभावस्थे हानिः कार्येषु जायते।
तस्यायुश्च भवेद्दीर्घं प्रथमं मरणं स्त्रियः॥ १२८॥
लभेशे भाग्यभावस्थे भाग्यवान् जायते नरः।
चतुरः सत्यवादी च राजपुज्यो धनाधिपः॥ १२९॥
लाभेशे कर्मभावस्थे भूपवन्द्यो गुणान्वितः।
निजधर्मरतो धीमान् सत्यवादी जितेन्द्रियः॥ १३०॥
लाभेशे लाभभावस्थे लाभः सर्वेषु कर्मसु।
पण्डित्यं च सुखं तस्य वर्द्धते च दिने दिने॥ १३१॥
लाभेशे व्ययभावस्थे सत्कार्येषु व्ययः सदा।
कामुको बहुपत्नीको म्लेच्छसंसर्गकारकः॥ १३२॥
व्ययेशे लग्नगे जातो व्ययशीलो जतो भवेत्।
दुर्बलः कफरोगी च धनविद्याविवर्जितः॥ १३३॥
व्ययेशे धनभावस्थे शुभकार्ये व्ययः सदा।
धार्मिकः प्रियवादी च गुणसौख्यसमन्वितः॥ १३४॥
व्ययेशे सहजे जातो भ्रातृसौक्यविवर्जितः।
भवेदन्यजनद्वेषी स्वशरीरस्य पोषकः॥ १३५॥
व्ययेशे सुखभावस्थे मातुः सुखविवर्जितः।
भूमियानगृहादीनां हानिस्तस्य दिनेदिने॥ १३६॥
व्ययेशे सुतभावस्थे सुतविद्याविवर्जितः।
पुत्रार्थे च व्ययस्तस्य तीर्थाटनपरो नरः॥ १३७॥
व्ययेशे रिपुभावस्थे जातः स्वजनवैरकृत्।
क्रोधी पापी च दुःखी च परजायारतो नरः॥ १३८॥
व्ययेशे दारभावस्थे व्ययो दारकृतः सदा।
तस्य भार्यासुखं नैव बलविद्याविवर्जितः॥ १३९॥
व्ययेशे मृत्युभावस्थे जातो लाभान्वितः सदा।
प्रियवाङ् मध्यमायुश्च सम्पूर्णगुणसंयुतः॥ १४०॥
व्ययेशे भाग्यभावस्थे गुरुद्वेषी भवेन्नरः।
मित्रैरपि भवेद्वैरं स्वार्थसाधनतत्परः॥ १४१॥
व्ययेशे राज्यभावस्थे व्ययो राजकुलाद्भवेत्।
पितृतोऽपि सुखं तस्य स्वल्पमेव हि जायते॥ १४२॥
व्ययेशे लाभभावस्थे लाभे हानिः प्रजायते।
परेण रक्षितं द्रव्यं कदाचिल्लभते नरः॥ १४३॥
व्ययेशे व्ययभावस्थे व्ययाधिक्यं हि जायते।
न शरीरसुखं तस्य क्रोधी द्वेषपरो नृणाम्॥ १४४॥
इति ते कथितं विप्र भावेशानां च यत् फलम्।
बलाबलविवेकेन सर्वेषं तत्समादिशेत्॥ १४५॥
द्विराशीशस्य खेटस्य विदित्वोभयथा फलम्।
विरोधे तुल्यफलयोर्द्वयोर्नाशः प्रजायते॥ १४६॥
विभिन्नयोस्तु फलयोर्द्वयोः प्राप्तिर्भवेद्ध्रुवम्।
ग्रहे पूर्णबले पुर्णमर्धमर्धबले फलम्॥ १४७॥
पादं हीनबले खेटे ज्ञेयमित्थं बुधैरिति।
उक्तं भावस्थितानां ते भावेशानां पलं मया॥ १४८॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 24 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%AA_(%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A5%87%E0%A4%B6%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=74902