बृहत्पाराशरहोराशास्त्रम् 87.87
अथ कृष्णचतुर्दशीजन्म शान्त्यध्यायः ॥ ८७॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ कृष्णचतुर्दशीजन्म शान्त्यध्यायः ॥ ८७॥
कृष्णपक्षचतुर्दश्याः षड्भागेषु फलं क्रमात् ।
जन्म चेत् प्रथमे भागे तदा ज्ञेयं शुभं द्विज ॥ १॥
द्वितीये पितरं हन्ति मातरं च तृतीयके ।
चतुर्थे मातुलं चैव पञ्चमे वंशनाशनम् ॥ २॥
षष्ठे तु धननाशः स्यादात्मनो नाश एव वा ।
तद्दोषपरिहारार्थं शान्तिं कुर्याद् प्रयत्नतः ॥ ३॥
शिवस्य प्रतिमां कुर्यात् सौवर्णीं कर्षसम्मिताम् ।
तदर्धार्धमितां वाऽपि यथावित्तं मनोहराम् ॥ ४॥
बालचन्द्रकिरीटाञ्च श्वेतमाल्याम्बरान्विताम् ।
त्रिनेत्रां च वृषासीनां वराभयकरामथ ॥ ५॥
त्रयम्बकं चेति मन्त्रेण पूजां कुर्यादतन्द्रितः ।
आवाह्य वारुणैर्मन्त्रैराचार्यो मन्त्रतत्त्ववित् ॥ ६॥
इमं मे वरुणे त्येवं तत्त्वा यामी त्यृचा पुनः ।
त्त्वन्न अग्ने इत्यनया सत्वं नो इत्यृचापि च ॥ ७॥
आग्नेयं कुम्भमारभ्य पूजयेद् भक्तितः क्रमात् ।
आ नोभद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम् ॥ ८॥
जप्त्वा पुरुषसूक्तं च कन्द्रुद्रेति तथा जपेत् ।
शङ्करस्याऽभिषेकं च ग्रहपूजां च कारयेत् ॥ ९॥
समिदाज्यचरूंश्चैव तिलमाषांश्च सर्पपान् ।
अश्वस्थल्पक्षपालासखादिराः समिधः शुभाः ॥ १०॥
अष्टोत्तरशतं वह्नौ जुहुयाद् विधिपूर्वकम् ।
अष्टविंशतिसंख्या वा होमं कुर्यात् पृथक् पृथक् ॥ ११॥
मन्त्रेण त्र्यम्बकेनाथ तिलान् व्याहृतिभिस्तथा ।
ग्रहहोमं च विधिवत् कुर्याद् क्षेमं ततो भवेत् ॥ १२॥
अभिषेकं च जातस्य तत्पित्रोश्चापि मन्त्रवित् ।
कुर्यात् ततो यथाशक्ति ब्राह्मणान् भोजयेत् सुधीः ॥ १३॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 87 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AE%E0%A5%AD_(%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%9A%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%B6%E0%A5%80%E0%A4%9C%E0%A4%A8%E0%A5%8D%E0%A4%AE_%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85902