बृहत्पाराशरहोराशास्त्रम् 84.84
अथ ग्रहशान्त्यध्यायः ॥ ८४॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ ग्रहशान्त्यध्यायः ॥ ८४॥
ग्रहाणां दोषशान्त्यर्थं तेषां पूजाविधिं वद ।
मानवानां हितार्थाय संक्षेपात् कृपया मुने ॥ १॥
ग्रहा सूर्यादयः पूर्वं मया प्रोक्ता द्विजोत्तम ।
जगत्यां सर्वजन्तूनां तदधीनं सुखाऽसुखम् ॥ २॥
तस्मात् सुशान्तिकामो वा श्रीकामो वा सुचेतसा ।
वृष्टायायुः पुष्टिकामो वा तेषां यज्ञं समाचरेत् ॥ ३॥
ताभ्राच्च स्फटिकाद्रक्तचन्दनात् स्वर्णकादुभौ ।
रजतादयसः सीसात् कांस्यात् कार्याः क्रामद् ग्रहाः ॥ ४॥
पूर्वोक्तैः स्वस्ववर्णैर्वा पटे लेख्या द्विजोत्तमैः ।
स्वस्वोक्तदिग्विभागेषु गन्द्याद्यैर्मण्डनेषु वा ॥ ५॥
पद्मासनः पद्महस्तः पद्मपत्रसमद्युतिः ।
सप्ताश्वरथसंस्थश्च द्विभुजश्च दिवाकरः ॥ ६॥
श्वेतः श्वेताम्बरो देवो दशाश्वः श्वेतभूषणः ।
गदाहस्तो द्विबाहुश्च विधातव्यो विधुर्द्विज ॥ ७॥
रक्तमाल्याम्बरधरो शक्तिशूलगदाधरः ।
वरदस्तु चतुर्बाहुर्मङ्गलो मेषवाहनः ॥ ८॥
पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः ।
खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ ९॥
गुरुशुक्रौ क्रमात् पीतश्वेतवर्णौ चतुर्भुजौ ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥ १०॥
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
वाणवाणासनधरो विज्ञेयोऽर्कसुतो द्विज ॥ ११॥
करालवदनः खड्गचर्मशूली वरप्रदः ।
सिंहस्थो नीलवर्णश्च राहुरेवं प्रकल्प्यते ॥ १२॥
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।
गृध्रासना नित्यं केतवः स्युर्वरप्रदा ॥ १३॥
सर्वे किरीटिनः कार्या ग्रहा लोकहितप्रदाः ।
स्वांगुलेनोच्छ्रिता विज्ञैः शतमष्टोत्तरं सदा ॥ १४॥
यथावर्णं प्रदेयानि सुद्ष्पाणि वसनानि च ।
गन्धो दीपो बलिश्चैव धूपो देयश्च गुग्गुलुः ॥ १५॥
यस्य ग्रहस्य यद्द्रव्यमन्नं यस्य च यत् प्रियम् ।
तच्च तस्यै प्रदातव्यं भक्तियुक्तेन चेतसा ॥ १६॥
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।
उद्बुध्यस्वेति मन्त्रांश्च जपेदथ बृहस्पते ॥ १७॥
अन्नात् परिश्रुतश्चेति शन्नो देवीरभीष्टये ।
कया नश्चित्र इत्येवं केतु कृण्वन्निमांस्तथा ॥ १८॥
सप्त रुद्रा दिशो नन्दा नवचन्द्रा नृपास्तथा ।
त्रिपक्षा अष्टचन्द्राश्च सप्तचन्द्रास्तथैव च ॥ १९॥
इमाः संख्याः सहस्रघ्ना जपसंख्याः प्रकीर्तिताः ।
क्रमादर्कादिखेटानां प्रीत्यर्थं द्विजपुङ्गव ॥ २०॥
अर्कः पलाशः खदिरस्त्वपामार्गस्तु पिप्पलः ।
उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ॥ २१॥
होतव्या मधुसर्पिभ्यां दध्ना क्षीरेण वा युताः ।
एकैकस्य त्वष्ट शतमष्टाविंशतिरेव वा ॥ २२॥
गुडैदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥ २३॥
दद्याद् ग्रहक्रमादेवं विप्रेभ्यो भोजनं द्विज ।
शक्तितो वा यथालाभं देयं सत्कारपूर्वकम् ॥ २४॥
धेनुः शङ्खस्तथाऽनड्वान् हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता रव्यादिदक्षिणाः ॥ २५॥
यस्य यश्च यदा दुःस्थः स तं यत्नेन पूजयेत् ।
एषां धात्रा वरो दत्तः पूजिताः पूजयिष्यथ ॥ २६॥
मानवानां ग्रहाधीना उञ्छ्रायाः पतनानि च ।
भावाऽभावौ च जगतां तस्मात् पूज्यतमा ग्रहाः ॥ २७॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 84 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AE%E0%A5%AA_(%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%B6%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85896