बृहत्पाराशरहोराशास्त्रम् 78.78
अथ नष्टजातकाध्यायः ॥ ७८॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ नष्टजातकाध्यायः ॥ ७८॥
जन्मकालवशादेवं फलं प्रोक्तं त्वया मुने ।
यज्जन्मसमयोऽज्ञातो ज्ञेयं तस्य फलं कथम् ॥ १॥
शुभं वाऽप्यशुभं वापि मनुजस्य पुराकृतम् ।
अस्ति कश्चिदुपायश्चेत् तं भवान् वक्तुमर्हति ॥ २॥
साधु पृष्टं त्वया विप्र लोकानुग्रहमानसा ।
कथयामि तव स्नेहात् फलमज्ञातजन्मनाम् ॥ ३॥
वर्षायनर्तुमासार्धतिथिनक्षत्रभादिषु ।
यदज्ञातं च तन्मानं ज्ञायते प्रश्नलग्नतः ॥ ४॥
प्रश्नाङ्गद्वादशांशर्क्षस्थिते जन्म वदेत् गुरौ ।
अयनं लग्नपूर्वार्धे सौम्यं याम्यं परार्धके ॥ ५॥
ऋतुर्लग्नदृकाणर्क्षस्वामिभिः शशिरादयः ।
शनिशुक्रकुजेन्दुज्ञजीवैर्ग्रीष्मस्तु भानुना ॥ ६॥
अयनर्तुविरोधे तु परिवर्त्याः परस्परम् ।
बुधचन्द्र सुराचार्याः कुजशुक्रशनैश्चरैः ॥ ७॥
मासो दृकाणपूर्वार्धेर्पूर्वोऽन्यस्तु परार्धके ।
अनुपातात् तिथिर्ज्ञेया भास्करांशसमा द्विज ॥ ८॥
तद्वशादिष्टकालो यो जन्मकालसमो हि सः ।
तत्र ग्रहांश्च भावांश्च ज्ञात्वा तस्य फलं वदेत् ॥ ९॥
गुरुर्द्वादशभ्र्वर्षैः पुनस्तद्राशिगो भवेत् ।
तत् कस्मिन् पर्ययो तस्य ज्ञेयः संवत्सरो मुने ॥ १०॥
संवस्तरस्य सन्देहे प्रश्नकर्तुर्द्विजोत्तम ।
वयोऽनुमानतस्तत्र द्वादश द्वादश क्षिपेत् ॥ ११॥
तत्रापि संशये जाते गुरुर्लग्नत्रिकोणगः ।
कल्प्यो वयोऽनुमानेन वत्सरः पूर्ववत् ततः ॥ १२॥
ज्ञात्वा मासं ससूर्यांशं कालज्ञानं कथं भवेत् ।
भगवन्निति मे ब्रूहि लोकानुग्रहचेतसा ॥ १३॥
सक्रान्तेरिष्टसूर्यांशतुल्येऽह्नि द्विजसत्तम ।
रविरौदयिकः साध्यस्तस्येष्टार्कस्य चान्तरम् ॥ १४॥
कलीकृत्य स्वषण्निघ्नं स्फुटार्कगतिभाजितम् ।
लब्धंघट्यादिमानं यत् तावान् सूर्योदयात् परम् ॥ १५॥
पूर्वं जन्मेष्टकालो हि क्रमाज् ज्ञेयो विपश्चिता ।
साधितौदयिकादर्कादिष्टेऽर्केऽनिकहीनके ॥ १६॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 78 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD%E0%A5%AE_(%E0%A4%A8%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%9C%E0%A4%BE%E0%A4%A4%E0%A4%95%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85884