बृहत्पाराशरहोराशास्त्रम् 77.77
अथ सत्त्वादिगुणफलाध्यायः ॥ ७७॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ सत्त्वादिगुणफलाध्यायः ॥ ७७॥
अथो गुणवशेनाहं कथयामि फलं द्विज ।
सत्त्वग्रहोदये जातो भवेत्सत्त्वाधिकः सुधीः ॥ १॥
रजःखेटोदये विज्ञो रजोगुणसमन्वितः ।
तमःखेटोदये मूर्खो भवेज्जातस्तमोऽधिकः ॥ २॥
गुणसाम्ययुतो जातो गुणसाम्यखगोदये ।
एवं चतुर्विधा विप्र जायन्तो जन्तवो भुवि ॥ ३॥
उत्तमो मध्यमो नीच उदासीन इति क्रमात् ।
तेषां गुणानहं वक्ष्ये नारदारिप्रभाषितान् ॥ ४॥
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
अलोभः सत्यवादित्वं जने सत्त्वाधिके गुणाः ॥ ५॥
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाऽप्यपलायनम् ।
साधूनां रक्षणं चेति गुणा ज्ञेया रजोऽधिके ॥ ६॥
लोभश्चासत्यवादित्वं जाड्यमालस्यमेव च ।
सेवाकर्मपटुत्वंच गुणा एते तमोऽधिके ॥ ७॥
कृषिकर्मणि वाणिज्ये पटुत्वं पशुपालने ।
सत्यासत्यप्रभाषित्वं गुणसाम्ये गुणा इमे ॥ ८॥
गतैश्च लक्षणैर्लक्ष्य उत्तमो मध्यमोऽधमः ।
उदासीनश्च विप्रेन्द तं तत्कर्मणि योजयेत् ॥ ९॥
द्वाभ्यामेकोऽधिको यश्च तस्याधिक्यं निगद्यते ।
अन्यथा गुणसाम्यं च विज्ञेयं द्विजसत्तम ॥ १०॥
सेव्यसेवकयोरेवं कन्यकावरयोरपि ।
गुणैः सदृशयोरेव प्रीतिर्भवति निश्चला ॥ ११॥
उदासीनोऽधमस्यैवमुदासीनस्य मध्यमः ।
मध्यमस्योत्तमो विप्र प्रभवत्याश्रयो मुदे ॥ १२॥
अतोऽवरा वरात् कन्य सेव्यतः सेवकोऽवरः ।
गुणैस्ततः सुखोत्पत्तिरन्यथा हानिरेव हि ॥ १३॥
वीर्यं क्षेत्रं प्रसूतेश्च समयः सङ्गतिस्तथा ।
उत्तमादिगुणे हेतुर्बलवानुत्तरोत्तरम् ॥ १४॥
अतः प्रसूतिकालस्य सदृशो जातके गुणः ।
जायते तं परीक्ष्यैव फलं वाच्यं विचक्षणैः ॥ १५॥
कालः सृजति भूतनि पात्यथो संहरत्यपि ।
इश्वरः सर्वलोकानामव्ययो भगवान् विभु ॥ १६॥
तच्छक्तिः प्रकृतिः प्रोक्ता मुनिभिस्त्रिगुणात्मिका ।
तथा विभक्तोऽव्यक्तोऽपि व्यक्तो भवति देहिनाम् ॥ १७॥
चतुर्धाऽवयवास्तस्य स्वगुणैश्च चतुर्विधः ।
जायन्ते ह्युत्तमो मध्ये उदासीनोऽधमः क्रमात् ॥ १८॥
उत्तमे तूत्तमो जन्तुर्मध्येऽङ्गे च मध्यमः ।
उदासीने ह्यदासीनो जायते चाऽधमेऽधमः ॥ १९॥
उत्तमाङ्गं शरिस्तस्य मध्यमाङ्गमुरःस्थलम् ।
जंघाद्वयौदासीनमधमं पदमुच्यते ॥ २०॥
एवं गुणवशादेव कालभेदः प्रजायते ।
जातिभेदस्तु तद्भेदाज्जायतेऽत्र चराचरे ॥ २१॥
एवं भगवता सृष्टं विभुना स्वगुणैः समम् ।
चतुर्विधेन कालेन जगदेतच्चतुर्विधम् ॥ २२॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 77 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD%E0%A5%AD_(%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A5%81%E0%A4%A3%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85882