बृहत्पाराशरहोराशास्त्रम् 58.58
अथ बुधान्तर्दशाफलाध्यायः ||५८||
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
स्रोत में दोहराए श्लोक क्रमांक मिले; पहली प्रति रखी गई।
अथ बुधान्तर्दशाफलाध्यायः ||५८||
मुक्ताविद्रुमलाभश्च ज्ञानकर्मसुखादिकम् |
विद्यामहत्त्वं कीर्तिश्च नूतनप्रभुदर्शनम् ||१||
विभवं दारपुत्रादि पितृमातृसुखावहम् |
स्वोच्चादिस्थेऽथ नीचेऽस्ते षष्ठाष्टमव्ययराशिगे ||२||
पापयुक्तेऽथवा दृष्टे धनधान्यपशुक्षयः |
आत्मबन्धुविरोधश्च शूलरोओगादिसम्भवः ||३||
राजकार्यकलापेन व्याकुलो भव्ति ध्रुवम् |
द्वितीयद्यूननाथे तु दारक्लेशो भविष्यति ||४||
आत्मसम्बन्धिमरणं वातशूलादिसम्भवः |
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ||५||
बुधस्यान्तर्गते केतौ लग्नात्केन्द्रत्रिकोणगे |
शुभयुक्ते शुभैर्दृष्टे लग्नाधिपसमन्विते ||६||
योगकारकसम्बन्धे दायेशात्केन्द्रलाभगे |
देहसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशेत् ||७||
चतुष्पाज्जीवलाभः स्यात्संचारेण धनागमः |
विद्याकीर्तिर्प्रसङ्गश्च समानप्रभुदर्शनम् ||८||
भोजनाम्बरसौख्यं च ह्यादौ मध्ये सुखावहम् |
दायेशाद्यदि रन्ध्रस्थे व्यये वा पापसंयुते ||९||
वाहनात्पतनं चैव पुत्रक्लेशादिसम्भवः |
चौरादिराजभीतिश्च पापकर्मरतः सदा ||१०||
वृश्चिकादिविषाद्भीतिर्नीचैः कलहसंभवः |
शोकरोगादिदुःखं च नीचसङ्गादिकं भवेत् ||११||
द्वितीयद्यूननाथे तु देहजाड्यं भविष्यति |
तद्दोषपरिहाराय छागदानं तु कारयेत् ||१२||
सौम्यस्यान्तर्गते शुक्रे केन्द्रे लाभे त्रिकोणगे |
सत्कथापुण्यधर्मादिसंग्रहः पुण्यकर्मकृत् ||१३||
मित्रप्रभुवशादिष्टं क्षेत्रलाभः सुखं भवेत् |
दशाधिपात्केन्द्रगते त्रिकोणे लाभगेऽपि वा ||१४||
तत्काले श्रियमाप्नोति राजश्रीधनसम्पदः |
वापीकूपतडागदिदानधर्मादिसंग्रहः ||१५||
व्यवसायात्फलाधिक्यं धनधान्यसमृद्धिकृत् |
दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ||१६||
हृद्रोगो मानहानिश्च ज्वरातीसारपीडनम् |
आत्मबन्धुवियोगश्च संसारे भवति ध्रुवम् ||१७||
आत्मकष्टं मनस्तापदायकं द्विजसत्तम |
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ||१८||
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् |
जगदम्बाप्रसादेन ततः शान्तिमवाप्नुयात् ||१९||
सौम्यस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे |
त्रिकोणे धनलाभे तु तुङ्गांशे स्वांशगेऽपि वा ||२०||
राजप्रसादसुभाग्यं मित्रप्रभुवशात्सुखम् |
भूम्यात्मजेन संदृष्टे आदौ भूलाभमादिशेत् ||२१||
लग्नाधिपेन संदृष्टे बहुसौख्यं धनागमम् |
ग्रामभूम्यादिलाभं च भोजनाम्बरसौख्यकृत् ||२२||
लग्नाष्टमव्यये वापि शन्यारफणिसंयुते |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ||२३||
चौरादिशस्त्रपीडा च पित्ताधिक्यं भविष्यति |
शिरोरुङ्मनसस्ताप इष्टबन्धुवियोगकृत् ||२४||
द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविश्यति |
तद्दोषपरिहारार्थं शान्तिं कुर्याद्यथाविधि ||२५||
सौम्यस्यान्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे वा स्वर्क्षगे वापि गुरुदृष्टिसमन्विते ||२६||
योगस्थानाधिपत्येन योगप्राबल्यमादिशेत् |
स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम् ||२७||
नूतनालयलाभं च नित्यं मिष्ठान्नभोजनम् |
गीतवाद्यप्रसंगं च शास्त्रविद्यापरिश्रमम् ||२८||
दक्षिणां दिशमाश्रित्य प्रयाणं च भविष्यति |
द्वीपान्तरादिवस्त्राणां लाभश्चैव भविष्यति ||२९||
मुक्ताविद्रुमरत्नानि धौतवस्त्रादिकं लभेत् |
नीचारिक्षेत्रसंयुक्ते देहबाधा भविष्यति ||३०||
दायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा |
तद्भुक्त्यादौ पुण्यतीर्थस्थानदैवतदर्शनम् ||३१||
मनोधैर्यं हृदुत्साहो विदेशधनलाभकृत् |
दायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते ||३२||
चोराग्निनृपभीतिश्च स्त्रीसमागमतो भवेत् |
दुष्कृतिर्धनहानिश्च कृषिगोश्वादिनाशकृत् ||३३||
द्वितीयद्यूननाथे तु देहबाधा भविष्यति |
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ||३४||
वस्त्रदानं प्रकुर्वीत आयुर्वृद्धिसुखावहम् |
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ||३५||
सौम्यस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे वा स्वर्क्षगे वापि लग्नाधिपसमन्विते ||३६||
राजानुग्रहशान्तिं च गृहे कल्याणसम्भवम् |
लक्ष्मीकटाक्षचिह्नानि नष्टराज्यार्थमाप्नुयात् ||३७||
पुत्रोत्सवादिसन्तोषं गृहे गोधनसंकुलम् |
गृहक्षेत्रादिलाभं च गजवाजिसमन्वितम् ||३८||
राजप्रीतिकरं चैव स्त्रीसौख्यं चातिशोभनम् |
नीचक्षेत्रसमायुक्ते ह्यष्टमे वा व्ययेऽपि वा ||३९||
पापदृष्टियुते वापि देहपीडा मनोव्यथा |
उद्योगभङ्गो दशादौ स्वग्रामे धान्यनशनम् ||४०||
ग्रंथिशस्त्रव्रणादीनां भयं तापज्वरादिकम् |
दायेशात्केन्द्रगे भौमे त्रिकोणे लाभगेऽपि वा ||४१||
शुभदृष्टे धनप्राप्तिर्देहसौख्यं भवेनृणाम् |
पुत्रलाभो यशोवृद्धिर्भ्रातृवर्गो महाप्रियः ||४२||
दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते |
तद्भुक्त्यादौ महाक्लेशो भ्रातृवर्गे महद्भयम् ||४३||
नृपाग्निचौरभीतिश्च पुत्रमित्रविरोधनम् |
स्थानभ्रंशो भवेदादौ मध्ये सौख्यं धनागमः ||४४||
अन्ते तु राजभीतिः स्यात्स्थानभ्रंशोह्यथापिवा |
द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ||४५||
गोदानं च प्रकुर्वीत मृत्युञ्जयजपं चरेत् |
शङ्करस्य प्रसादेन ततः सुकह्मवाप्नुयात् ||४६||
बुधस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे |
कुलीरे कुम्भगे वापि कन्यायां वृषभेपि वा ||४७||
राजसम्मानकीर्तिं च धनं च प्रभविष्यति |
पुण्यतीर्थस्थानलाभो देवतादर्शनं तथा ||४८||
इष्तापूर्ते च महतो मानश्चाम्बरलाभकृत् |
भुक्त्यादौ देहपीडा च त्वन्ते सौख्यं विनिर्दिशेत् ||४९||
लग्नाष्टव्ययराशिस्थे तद्भुक्तौ धननाशनम् |
भुक्त्यादौ देहनाशश्च वातज्वरमजीर्णकृत् ||५०||
लग्नादुपचये राहौ शुभग्रहसमन्विते |
राजसंलापसन्तोषो नूतनप्रभुदर्शनम् ||५१||
दायेशाद्द्वादशे वापि ह्यष्टमे पापसंयुते |
निष्ठुरं राजकार्याणि अथानभ्रंशो महद्भयम् ||५२||
बन्धनं रोगपीडा च निजबन्धुमनोव्यथा |
हृद्रोगो मानहानिश्च धनहानिर्भविष्यति ||५३||
द्वितीयसप्तमस्थे वा ह्यपमृत्युर्भविष्यति |
तद्दोषपरिहारार्थं दुर्गालक्ष्मीजपं चरेत् ||५४||
श्वेतां गां महिषीं दद्यादायुआरोग्यदायिनीम् |
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ||५५||
बुधस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे वा स्वर्क्षगे वापि लाभे वा धनराशिगे ||५६||
देहसौख्यं धनावाप्ती राजप्रीतिस्तथैव च |
विवाहोत्सवकार्याणि नित्यं मिष्ठान्नभोजनम् ||५७||
यज्ञकर्मप्रवृद्धिश्च शिवपूजाफलं तथा |
नीचे वास्तंगते वापि षष्ठाष्टव्ययगेऽपि वा ||५९||
शन्यारदृष्टसंयुक्ते कलहो राजविग्रहः |
चौरादिदेहपीडा च पितृमातृविनाश्नम् ||६०||
मानहानि राजदण्डो धनहानिर्भविष्यति |
विषाहिज्वरपीडा च कृषिभूमिविनाशनम् ||६१||
दयेशात्केन्द्रकोणे वा लाभे वा बलसंयुते |
बन्धुपुत्रहृदुत्साहो शुभं च धनसंयुतम् ||६२||
पशुवृद्धिर्यशोवृद्धिरन्नदानादिकं फलम् |
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ||६३||
अङ्गतापश्च वैकल्यं देहबाधा भ्विष्यति |
कलत्रबन्धुवैषम्यं राजकोपो धनक्षयः ||६४||
अकस्मात्कलहाद्भीतिः प्रमादो द्विजतो भयम् |
द्वितीयसप्तमस्थे वा देहबाधा भविष्यति ||६५||
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् |
गोभूरिरण्यदानेन सर्वारिष्टं व्यपोहति ||६६||
सौम्यस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रकेन्द्रगे |
त्रिकोणलाभगे वापि गृहे कल्याणवर्द्धनम् ||६७||
राज्यलाभं महोत्साहं गृहं गोधनसंकुलम् ||६८||
शुभस्थानफलवाप्तिं तीर्थवासं तथादिशेत् |
अष्टमे वा व्यये मन्दे दायेशाद्वा तथैव च ||६९||
अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम् |
बुद्धिभ्रंशो बन्धुनाशः कर्मनाशो मनोरुजः ||७०||
विदेशगमनं चैव दुःस्वप्नादिप्रदर्शनम् |
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ||७१||
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् |
कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ||७२||
-
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 58 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AB%E0%A5%AE_(%E0%A4%AC%E0%A5%81%E0%A4%A7%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85849