बृहत्पाराशरहोराशास्त्रम् 57.57
अथ शन्यन्तर्दशाफलाध्यायः ||५७||
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
स्रोत में दोहराए श्लोक क्रमांक मिले; पहली प्रति रखी गई।
अथ शन्यन्तर्दशाफलाध्यायः ||५७||
मूलत्रिकोणे स्वर्क्षे वा तुलायामुच्चगेऽपि वा |
केन्द्रत्रिकोणलाभे वा राजयोगादिसंयुते ||१||
राज्यलाभो महत्सौख्यं दारपुत्रादिवर्धनम् |
वाहनत्रयसंयुक्तं गजाश्वाम्बरसङ्कुलम् ||२||
महाराजप्रसादेन सेनापत्यादिलाभकृत् |
चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ||३||
तथाऽष्टमे व्यये मन्दे नीचे वा पापसंयुते |
तद्भुक्त्यादौ राजभीतिर्विषशस्त्रादिपीडनम् ||४||
रक्तस्त्रावो गुल्मरोगो ह्यतिमारादिपीडनम् |
मध्ये चौरादि भीतिश्च देशत्यागो मनोरुजः ||५||
अन्ते शुभकरी चैव शनेरन्तर्दशा द्विज |
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ||६||
तद्दोषपरिहारार्थं म्र्ट्युञ्जयजपं चरेत् |
ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ||७||
मन्दस्यान्तर्गते सौम्ये त्रिकोणे केन्द्रगेऽपि वा |
सम्मानं च यशः कीर्तिं विद्यालाभं धनागमम् ||८||
स्वदेशे सुखमाप्नोति वाहनादिफलैर्युतम् |
यज्ञादिकर्मसिद्धिश्च राजयोगादिसम्भवम् ||९||
देहसौख्यं हृदुत्साहं गृहे कल्याणसम्भवम् |
सेतुस्नानफलावाप्तिस्तीर्थयात्रादिकर्मणा ||१०||
वाणिज्याद्धनलाभश्च पुराणश्रवणादिकम् |
अन्नदानफलं चैव नित्यं मिष्ठान्नभोजनम् ||११||
षष्ठाष्टमव्यये सौम्ये नीचे वास्तंगते सति |
रव्यारफणिसंयुक्ते दायेशाद्वा तथैव च ||१२||
नृपाभिषेकमर्थाप्तिर्देशग्रामाधिपत्यता |
फलमीदृशमादौ तु मध्यान्ते रोगपीडनम् ||१३||
नष्टानि सर्वकार्याणि व्याकुलत्वं महद्भयम् |
द्वितीयसप्तमाधिशे देहबाधा भविष्यति ||१४||
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् |
अन्नदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ||१५||
मन्दस्यान्तर्गते केतौ शुभदृष्टियुतेक्षिते |
स्वोच्चे वा शुभराशिस्थे योगकारकसंयुते ||१६||
केन्द्रकोणगते वापि स्थानभ्रंशो महद्भयम् |
दरिद्रबन्धनं भीतिः पुत्रदारादिनाशनम् ||१७||
स्वप्रभोश्च महाकष्टं विदेशगमनं तथा |
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ||१८||
गङ्गादिसर्वतीर्भेषु स्नानं दैवतदर्शनम् |
दायेशात्केन्द्रकोणे वा तृतीयभवराशिगे ||१९||
समर्थो धर्मबुद्धिश्च सौख्यं नृपसमागमः |
तथाऽष्टमे व्यये केतौ दायेशाद्वा तथैव च ||२०||
अपमृत्युभयं चैव कुत्सितान्नस्य भोजनम् |
शीतज्वरातिसारश्च व्रणचौरादिपीडनम् ||२१||
दारपुत्रवियोगश्च संसारे भवति ध्रुवम् |
द्वितियद्यूनराशिस्थे देह पीडा भविष्यति ||२२||
छागदानं प्रकुर्वीत ह्यपमृत्युनिवारणम् |
केतुग्रहप्रसादेन सुखशान्तिमवाप्नुयात् ||२३||
मन्दस्यान्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रगेऽपि वा |
केन्द्रे वा शुभसंयुक्ते त्रिओकोणे लाभगेऽपि वा ||२४||
दारपुत्रधनप्राप्तिर्देहारोग्यं महोत्सवः |
गृहे कल्याण्सम्पत्ति राज्यलाभं महत्सुखम् ||२५||
महाराजप्रसादेन हीष्टसिद्धिः सुखावहा |
स्सम्मानं प्रभुसम्मानं प्रियवस्त्रादिलाभकृत् ||२६||
द्विपान्तराद्वस्त्रलाभः श्वेताश्वो महिषी तथा |
गुरुचारवशाद्भाग्यं सौख्यं च धनसम्पदः ||२७||
शनिचारान्मनुष्योऽसौ योगमाप्नोत्यसंशयम् |
शत्रुनीचास्तगे शुक्रे षष्ठाष्टमव्ययराशिगे ||२८||
दारनाशो मनःक्लेशः स्थाननाशो मनोरुजः |
दारानां स्वजनक्लेशः सन्तापो जनविग्रहः ||२९||
दायेशाद्भाग्यगे चैव केन्द्रे वा लाभसंयुते |
राजप्रीतिकरं चैव मनोऽभीष्टप्रदायकम् ||३०||
दानधर्मदयायुक्तं तीर्थयात्रादिकं फलम् |
सास्र्तार्थकाव्यरचनां वेदान्तश्रवणादिकम् ||३१||
दारपुत्रादिसौख्यं च लभते नाऽत्र संशयः |
दायेशाद्व्ययगे शुक्रे षष्ठे वा ह्यष्टमेऽपि वा ||३२||
नेत्रपीडा ज्वरभयं स्वकुलाचारवर्जितः |
कपोले दन्तशूलादि हृदि गुह्ये च पीडनम् ||३३||
जलभीतिर्मनस्तापो वृक्षात्पतनसम्भवः |
राजद्वारे जनद्वेषः सोधरेण विरोधनम् ||३४||
द्वितीयसप्तमाधीशे आत्मक्लेशो भविष्यति |
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ||३५||
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम् |
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ||३६||
मन्दस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा |
भाग्याधिपेन संयुक्ते केन्द्रलाभत्रिकोणगे ||३७||
शुभदृष्टियुते वापि स्वप्रभोश्च महत्सुखम् |
गृहे कल्याणसम्पत्तिः पुत्रादिसुखवर्द्धनम् ||३८||
वाहनाम्बरपश्वादिगोक्षीरैस्संकुलं गृहम् |
लग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च ||३९||
हृद्रोगो मानहानिश्च स्थानभ्रंशो मनोरुजा |
इष्ट्बन्धुवियोगश्च उद्योगस्य विनाशनम् ||४०||
तापज्वरादिपीडा च व्याकुलत्वं भयं तथा |
आत्मसम्बन्धिमरणमिष्टवस्तुवियोगकृत् ||४१||
द्वितीयद्यूननाथे तु देहबाधा भविष्यति |
तद्दोषपरिहारार्थं सूर्यपूजां च कारयेत् ||४२||
मन्दस्यान्तर्गते चन्द्रे जीवदृष्टिसमन्विते |
स्वोच्चे स्वक्षेत्रकेन्द्रस्थे त्रिकोणे लाभगेऽपि वा ||४३||
पूर्णे शुभग्रहैर्युक्ते राजप्रीतिसमागमः |
महाराजप्रसादेन वाहनाम्बरभूषणम् ||४४||
सौभाग्यं सुखवृद्धिं च भृत्यानां परिपालनम् |
पितृमातृकुले सौख्यं पशुवृद्धिः सुखावहा ||४५||
क्षीणे वा पापसंयुक्ते पापदृष्टे वा नीचगे |
क्रूरांशकगते वापि क्रूरक्षेत्रगतेऽपि वा ||४६||
जातकस्य महत्कष्टं राजकोपो धनक्षयः |
पितृमातृवियोगश्च पुत्रीपुत्रादिरोगकृत् ||४७||
व्यवसायात्फलं नेष्टं नानामार्गे धनव्ययः |
अकाले भोजनं चैव मौषधस्य च भक्षणम् ||४८||
फलमेतद्विजानीयादादौ सौख्यं धनागमः |
दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ||४९||
वाहनाम्बरपश्वादिभ्रातृवृद्धिः सुखावहा |
पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागमः ||५०||
मित्रप्रभुवशादिष्टं सर्वसौख्यं शुभावहम् |
दायेशाद्द्वादश भावे रन्ध्रे वा बलवर्जिते ||५१||
शयनं रोगमालस्यं स्थानभ्रष्टं सुखापहम् |
शत्रुवृद्धिविरोधं च बन्धुद्वेषमवाप्नुयात् ||५२||
द्वितीयद्यूननाथे तु देहालस्य भविष्यति |
तद्दोषशमनार्थं च तिलहोमादिकं चरेत् ||५३||
गुडं घृतं च दध्नाक्तं तण्डुलं च यथाविधि |
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ||५४||
मन्दस्यान्तर्गते भौमे केन्द्रलाभत्रिकोणगे |
तुङ्गे स्वक्षेत्रगे वापि दशाधिपसमन्विते ||५५||
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः |
राजप्रीतिकरं सौख्यं वाहनाम्बरभूषणम् ||५६||
नीचे चास्तङ्गते भौमे लग्नादष्टव्ययस्थिते |
पापदृष्टियुते वापि धनहानिर्भविष्यति ||५८||
चौराहिव्रणशस्त्रादिग्रन्थिरोगादिपीडनम् |
भ्रातृपित्रादिपीडा च दायादजनविग्रहः ||५९||
चतुष्पाज्जीवहानिश्च कुत्सितान्नस्य भोजनम् |
विदेशगमनं चैव नानमार्गे धनव्ययः ||६०||
अष्टमद्यूननाथे तु द्वितीयस्थेऽथ वा यदि |
अपमृत्युभयं चैव नानाकष्टं पराभवः ||६१||
तद्दोषपरिहारार्थं शान्तिहोमं च कारयेत् |
वृषदानं प्रकुर्वीत सर्वारिष्टनिवारणम् ||६२||
मन्दस्यान्तर्गते राहौ कलहश्च मनोव्यथा |
देहपीडा मनस्तापः पुत्रद्वेषो रुजोभयम् ||६३||
अर्थव्ययो राजभयं स्वजनादिविरोधिता |
विदेशगमनं चैव गृहक्षेत्रादिनाशनम् ||६४||
लग्नाधिपेन संयुक्ते योगकारकसंयुते |
स्वोच्चे स्वक्षेत्रगे केन्द्रे दायेशाल्लाभराशिगे ||६५||
आदौ सौख्यं धनावाप्तिं गृहक्षेत्रादिसम्पदम् |
देवब्राह्मणभक्तिं च तीर्थयात्रादिकं लभेत् ||६६||
चतुष्पाज्जीवलाभः स्याद्गृहे कल्याण्वर्द्धनम् |
मध्ये तु राजभीतिश्च पुत्रमित्रविरोधनम् ||६७||
मेषे कन्यागते वापि कुलीरे वृषभे तथा |
मीनकोदण्डसिंहेषु गजान्तैश्वर्यमादिशेत् ||६८||
राजसम्मनभूषाप्तिं मृदुलाभरसौख्यकृत् |
द्विसप्तमाधिपैर्युक्ते देहबाधा भविष्यति ||६९||
मृत्युञ्जयं प्रकुर्वीत छागदानं च कारयेत् |
वृषदानं प्रकुर्वीत सर्वसम्पत्सुखावहम् ||७०||
मन्दस्यान्तर्गते जीवे केन्द्रे लाभत्रिकोणगे |
लग्नाधिपेन संयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ||७१||
सर्वकार्यार्थसिद्धिः स्याच्छोभनं भवति ध्रुवम् |
महाराजप्रसादेन धनवाहनभूषणम् ||७२||
सन्मानं प्रभुसम्मानं प्रियवस्त्रार्थलाभकृत् |
देवतागुरुभक्तिश्च विद्वज्जनसमागमः ||७३||
दारपुत्रादिलाभश्च पुत्रकल्याणवैभवम् |
षष्ठाष्टमव्यये जीवे नीचे वा पापसंयुते ||७४||
निजसम्बन्धिमरणं धनधान्यविनाशनम् |
राजस्थाने जनद्वेषः कर्यहानिर्भविष्यति ||७५||
विदेशगमनं चैव कुष्ठरोगादिसम्भवः |
दायेशात्केन्द्रकोणे वा धने वा लाभगेऽपि वा ||७६||
विभवं दारसौभाग्यं राजश्रीधनसम्पदः |
भोजनाम्बरसौख्यं च दानधर्मादिकं भवेत् ||७७||
ब्रह्मप्र्तिष्ठासिद्धिश्च क्रतुकर्मफलं तथा |
अन्नदानं महाकीर्तिर्वेदान्तश्रवणादिकम् ||७८||
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते |
बन्धुद्वेषो मनोदुःखं कलहः पदविच्युति ||७९||
कुभोजनं कर्महानी राजदण्डाद्धनव्यय |
कारागृहप्रवेशश्च पुत्रदारादिपीडनम् ||८०||
द्वितीयद्यूननाथे तु देहवाधा मनोरुजः |
आत्मसम्बन्धमरणं भविष्यति न संशयः ||८१||
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् |
स्वर्णदानं प्र्कुर्वीत ह्यारोग्यं भवति ध्रुवम् ||८२||
-
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 57 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AB%E0%A5%AD_(%E0%A4%B6%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85847