बृहत्पाराशरहोराशास्त्रम् 56.56
अथ जीवान्तर्दशाफलाध्यायः ||५६||
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
स्रोत में दोहराए श्लोक क्रमांक मिले; पहली प्रति रखी गई।
अथ जीवान्तर्दशाफलाध्यायः ||५६||
स्वोच्चे स्वक्षेत्रगे जीवे लग्नात्केन्द्रत्रिकोणगे |
अनेकराजधीशो वा सम्पन्नो राजपूजितः ||१||
मोमहिष्यादिलाभश्च वस्त्रवाहनभूषणम् |
नूतनस्थाननिर्माणं हर्म्यप्राकारसंयुतम् ||२||
गजान्तैश्वर्यसम्पत्तिर्भाग्यकर्मफलओदयः |
ब्राह्मणप्रभुसम्मानं समानं प्रभुदर्शनम् ||३||
स्वप्रभोः स्वफलाधिक्य दारपुत्रादिलाभकृत् |
नीचांशे नीचराशिस्थे षष्ठाष्टमव्ययराशिगे ||४||
नीचसङ्गो महादुःखं दायादजनविग्रहः |
कलहो न विचारोस्य स्वप्रभुष्वपमृत्युकृत् ||५||
पुत्रदारवियोगश्च धनधान्यार्थहानिकृत् |
सप्तमाधिपदोषेण देववाधा भविष्यति ||६||
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् |
रुद्रजाप्यं च गोदानं कुर्यात् स्वाऽभीष्टलब्धये ||७||
जीवस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रमित्रभे |
लग्नात्केन्द्रत्रिकोणस्थे लाभे वा बलसंयुते ||८||
राज्यलाभो महत्सौख्यं वस्त्राभरणसंयुतम् |
धनधान्यादिलाभश्च स्त्रीलाभो बहुसौख्यकृत् ||९||
वाहनाम्बरपश्वादिभूलाभः स्थानलाभकृत् |
पुत्रमित्रादिसौख्यं च नरवाहनयोगकृत् ||१०||
नीलवस्त्रादिलाभश्च नीलाश्वं लभते च सः |
पश्चिमां दिशमाश्रित्य प्रयाणं राजदर्शनम् ||११||
अनेकयानलाभं च निर्दिशेन्मन्दभुक्तिषु |
लग्नात्षष्ठाष्टमे मन्दे व्यये नीचेऽस्तगेऽप्यरौ ||१२||
धनधान्यादिनाशश्च ज्वरपीडा मनोरुजः |
स्त्रीपुत्रादिषु पीडा वाव्रणार्त्यादिकमुद्भवेत् ||१३||
गृहे त्वशुभकार्याणि भ्र्त्यवर्गादिपीडनम् |
गोमहिष्यादिहानिश्च बन्धुद्वेषी भविष्यति ||१४||
दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा |
भूराभश्चार्थलाभश्च पुत्रलाभसुखं भवेत् ||१५||
गोमहिष्यादिलाभश्च शूद्रमूलाद्धनं तथा |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ||१६||
धनधान्यादिनाशश्च बन्धुमित्रविरोधकृत् |
उद्योगभङ्गो देहार्तिः स्वजनानां महद्भयम् ||१७||
द्विसप्तमाधिपे मन्दे ह्यपमृत्युर्भविष्यति |
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ||१८||
कृष्णां गां महिषीं दद्यादनेनारोग्यमादिशेत् |
मन्दग्रहप्रसादेन सत्यं सत्यं द्विजोत्तम ||१९||
जीवस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे |
स्वोच्चे वा स्वर्क्षगे वापि दशाधिपसमन्विते ||२०||
अर्थलाभो देहसौख्यं राज्यलाभो महत्सुखम् |
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ||२१||
वाहनाम्बरपश्वादिगोधनैस्संकुलं गृहम् |
महीसुतेन संदृष्टे शत्रुवृद्धिः सुखक्षयः ||२२||
व्यवसायात्फलं निष्टं ज्वरातीमारपीडनम् |
दायेशाद्भाग्यकोणे वा केन्द्रे वा तुङ्गराशिगे ||२३||
स्वदेशे धनलाभश्च पितृमातृसुखावहा |
गजवाजिसमायुक्तो राजमित्रप्रसादतः ||२४||
दायेशात्षष्ठरन्ध्रस्थे व्यये वा पापसंयुते |
शुभदृष्टिविहीने च धन्धान्यपरिच्युतिः ||२५||
विदेशगमनं चैव मार्गे चौरभयं तथा |
व्रणदाहाक्षिरोगश्च नानादेशपरिभ्रमः ||२६||
लग्नात्षष्ठाष्टमभावे वा व्यये वा पापसंयुते |
अक्समात्कलहश्चैव गृहे मिष्ठुरभावणम् ||२७||
चतुष्पाज्जीवहानिश्च व्यवहारे तथैव च |
अपमृत्युभयं चैव शत्रूणां कलहो भवेत् ||२८||
शुभदृष्टे शुभैर्युक्ते दारसौख्यं धनागमः |
आदौ शुभं देहसौख्यं वाहनाम्बरलाभकृत् ||२९||
अन्ते तु धनहानिश्चेत्स्वात्मसौख्यं न जायते |
द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ||३०||
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् |
आयुर्वृद्धिकरं चैव सर्वसौभाग्यदायकम् ||३१||
जीवस्यान्तर्गते केतौ शुभग्रहसमन्विते |
अल्पसौख्यधनव्याप्तिः कुत्सितान्नस्य भोजनम् ||३२||
परान्नं चैव श्राद्धान्नं पापमूलाद्धनानि च |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ||३३||
राजकोपो धनच्छेदो बन्धनं रोगपीडनम् |
बलाहानिः पितृद्वेषो भ्रातृद्वेषो मनोरुजम् ||३४||
दायेशात्सुतभाग्यस्थे वाहने कर्मगेऽपि वा |
नरवाहनयोगश्च गजाश्वाम्बरसङ्कुलम् ||३५||
महाराजप्रसादेन स्वेष्टकार्यार्थलाभकृत् |
व्यवसायात्फलाधिक्यं गोमहिष्यादिलाभकृत् ||३६||
यवनप्रभुमूलाद्वा धनवस्त्रादिलाभकृत् |
द्वितीयद्यूननाथे तु देहवाधा भविष्यति ||३७||
छागदानं प्रकुर्वीत मृत्युञ्जयजपं चरेत् |
सर्वदोषोपशमनीं शान्तिं कुर्याद्विधानतः ||३८||
जीवस्यान्तर्गते शुक्रे भाग्यकेन्द्रेशसंयुते |
लाभे वा सुतराशिस्थे स्वक्षेत्रे शुभसंयुते ||३९||
नरवाहनयोगश्च गजाश्वाम्बरसंयुतः |
महारजप्रसादेन लाभाधिक्यं महत्सुखम् |
नीलाम्बराणां रक्तानां लाभश्चैव भविष्यति ||४०||
पूर्वस्यां दिशि विप्रेन्द्र प्रयाणं धन्लाभदम् |
कल्याणं च महाप्रीतिः पितृमातृसुखावहा ||४१||
देवतागुरुभक्तिश्च अन्नदानं महत्तथा |
तडागगोपुरादीनि दिशेत् पुण्यानि भूरिशः ||४२||
षष्ठाष्टमव्यये नीचे दायेशाद्वा तथैव च |
कल्हो बन्धुवैषम्यं दारपुत्रादिपीडनम् ||४३||
मन्दारराहुसंयुक्ते कलहो राजतो भयम् |
स्त्रीमूलात्कलहश्चैव श्वसुरात्कलहस्तथा ||४४||
सोदरेण विवादः स्याद्धनधान्यपरिच्युतिः |
दायेशात्केन्द्रराशिस्थे धने वा भाग्यगेऽपि वा ||४५||
धनधान्यादिलाभश्च स्र्/ईलाभो राजदर्शनम् ||४६||
वाहनं पुत्रलाभश्च पशुवृद्धिर्महत्सुखम् |
गीतावाद्यप्रसङ्गादिर्विद्वज्जनसमागमः ||४७||
दिव्यान्नभोजनं सौख्यं स्वबन्धुजनपोषकम् |
द्विसप्तमाधिपे शुक्रे तद्दशानां धनक्षतिः ||४८||
अपमृत्युभयं तस्य स्त्रीमूलादौषधादितः |
तस्य रोगस्य शान्त्यर्थं शान्तिकर्म समाचरेत् ||४९||
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये |
शुक्रग्रहप्रसादेन ततः सुखमवाप्नुयात् ||५०||
जीवस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा |
केन्द्रे वाऽथत्रिकोणे च दुश्चिक्ये लाभगेऽपि वा ||५१||
धने वा बलसंयुते दायेशाद्वा तथैव च |
तत्काले धनलाभः स्याद्राजसम्मानवैभवम् ||५२||
वाहनाम्बरपश्वादिभूषणं पुत्रसम्भवः |
मित्रप्रभुवशादिष्टं सर्वकार्ये शुभावहम् ||५३||
लग्नादष्टमव्यये सूर्ये दायेशाद्वा तथैव च |
शिरोरोगादिपीडा च ज्वरपीडा तथैव च ||५४||
सत्कर्मसु तदा हीनः पापकर्मचयस्तथा |
सर्वत्र जनविद्वेषो ह्यात्मबन्धुवियोगकृत् ||५५||
तद्दोषपरिहारार्थमादित्यहृदयं जपेत् |
सर्वपीडोपशमनं श्रीसूर्यस्य प्रसादतः ||५७||
जीवस्यान्तर्गते चन्द्रे केन्द्रे लाभत्रिकोणगे |
स्वोच्चे वा स्वर्क्षराशिस्थे पूर्णे चैव बलैर्युते ||५८||
दायेशाच्छुभराशिस्थे राजसम्मानवैभवम् |
दारपुत्रादिसौख्यं च क्षीराणं भोजनं तथा ||५९||
सत्कर्म च तथा कीर्तिः पुत्रपौत्रादिवृद्धिदा |
महाराजप्रसादेन सर्वसौख्यं धनागमः ||६०||
अनेकजनसौख्यं च दानधर्मादिसंग्रहः |
षष्ठाष्टमव्यये चन्द्रे स्थिते वा पापसंयुते ||६१||
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते |
मानार्थबन्धुहानिश्च विदेशपरिविच्युतिः ||६२||
नृपचौरादिपीडा च दायादजनविग्रहः |
मातुलादिवियोगश्च मातृपीडा तथैव च ||६३||
द्वितीयषष्ठयोरीशे देहपीडा भविष्यति |
तद्दोषपरिहारार्थं दुर्गापाठं च कारयेत् ||६४||
जीवस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ||६५||
विद्याविवाहकार्याणि ग्रामभूम्यादिलाभकृत् |
जनसामर्थ्यमाप्नोति सर्वकार्यार्थसिद्धिदम् ||६६||
दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा |
शुभयुक्ते शुभैर्दृष्टे धनधान्यादिसम्पदः ||६७||
मिष्ठान्नदानविभवं राजप्रीतिकरं शुभम् |
स्त्रीसौख्यं च सुतवाप्तिः पुण्यतीर्थफलं तथा ||६८||
दायेशाद्रन्ध्रभावे वा व्यये वा नीचगेऽपि वा |
पापयुतेक्षिते वापि धान्यार्थगृहनाशनम् ||६९||
नानरोगभयं दुःखं नेत्ररोगादिसम्भवः |
पूर्वार्द्धे कष्टमधिकमपरार्द्धे महत्सुखम् ||७०||
द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजः |
वृषभस्य प्रदानं तु सर्वसम्पत्प्रदायकम् ||७१||
जीवस्यान्तर्गते राहौ स्वोच्चे वा केन्द्रगेऽपि वा |
मूलत्रिकोणे भाग्ये च केन्द्राधिपसमन्विते ||७२||
शुभयुतेक्षिते वापि योगप्रीतिं समादिशेत् |
भुक्त्यादौ पञ्चमासांश्च धनधान्यादिकं लभेत् ||७३||
देशग्रामाधिकं च यवनप्रभुदर्शनम् |
गृहे कल्याणसम्पत्तिर्बहुसेनाधिपत्यकम् ||७४||
दूरयात्रादिगमनं पुण्यधर्मादिसंग्रहः |
सेतुस्नानफलावाप्तिरिष्टसिद्धिः सुखावहा ||७५||
दायेषाद्रन्ध्रभावे वा व्यये वा पापसंयुते |
चौराहिव्रणभीतिश्च राजवैषम्यमेव च ||७६||
गृहे कर्मकलापेन व्याकुलो भवति ध्रुवम् |
सोदरेण विरोधः स्याद्दायादजनविग्रहः ||७७||
गृहे त्वशुभकार्याणि दुःस्वप्नादिभयं ध्रुवम् |
अकस्मात्कलहश्चैव क्षूद्रशून्यादिरोगकृत् ||७८||
द्विसप्तमस्थिते राहौ देहवाधां विनिर्दिशेत् |
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ||७९||
छागदानं प्रकुर्वीत सर्वसौख्यमवाप्नुयात् |
देवपूयप्रसादेन राहुतुष्ट्या द्विजोत्तम ||८०||
-
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 56 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AB%E0%A5%AC_(%E0%A4%9C%E0%A5%80%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85845