बृहत्पाराशरहोराशास्त्रम् 41.41
अथ विशेषधनयोगाऽध्यायः ||४१||
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ विशेषधनयोगाऽध्यायः ||४१||
अथाऽतः संप्रवक्ष्यामि धनयोगं विशेषतः |
यस्मिन् योगे समुत्पन्नो निश्चितो धनवान् भवेत् ||१||
पण्चमे भृगुजक्षेत्रे तस्मिन् शुक्रेण संयुते |
लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः ||२||
पंचमे तु बुधक्षेत्रे तस्मिन् बुधयुतो सति |
चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः ||३||
पण्चमे च रविक्षेत्रे तस्मिन् रवियुते सति |
लाभे शनीन्दुजीवाढ्ये बहुद्रव्यस्य नायकः ||४||
पंचमे तु शनिक्षेत्रे तस्मिन् शनियुते सति |
लाभे रवीन्दुसंयुक्ते बहुद्रव्यस्य नायकः ||५||
पंचमे तु गुरुक्षेत्रे तस्मिन् गुरुयुते सति |
लाभे चन्द्रसुते जातो बहुद्रव्यस्य नायकः ||६||
पंचमे तु कुजक्षेत्रे तस्मिन् कुजयुते सति |
लाभस्थे भृगुपुत्रे तु बहुद्रव्यस्य नायकः ||७||
पंचमे तु शशिक्षेत्रे तस्मिन् शशियुते सति |
शनौ लाभस्थिते जातो बहुद्रव्यस्य नायकः ||८||
भानुक्षेत्रगते लग्ने तस्मिन् भानुयुते पुनः |
भौमेन गुरुणा युक्ते दृष्टे जातो युतो धनैः ||९||
चन्द्रक्षेत्रगते लग्ने तस्मिन् चन्द्रयुते सति |
बुधेन गुरुणा युक्ते दृष्टे जातो धनी भवेत् ||१०||
भौमक्षेत्रे गते लग्ने तस्मिन् भौमेन संयुते |
सौम्यशुक्रार्कजैर्युक्ते दृष्टे श्रीमान्नरो भवेत् ||११||
बुधक्षेत्रगते लग्ने तस्मिन् बुधयुते सति |
शनिजीवयुते दृष्टे जातो धनयुतो भवेत् ||१२||
गुरुक्षेत्रगते लग्ने तस्मिन् गुरुयुते सति |
बुधभौमयुते दृष्टे जायते धनवान्नरः ||१३||
भृगुक्षेत्रगते लग्ने तस्मिन् भृगुयुते सति |
शनिसौम्ययुते दृष्टे यो जातः स धनी भवेत् ||१४||
शनिक्षेत्रगते लग्ने तस्मिन् शनियुते सति |
भौमेन गुरुणा युक्ते दृष्टे जातो धनैर्युतः ||१५||
धनदौ धर्मधीनाथौ ये वा ताभ्यां युता ग्रहाः |
तेऽपि स्वस्वदशाकाले धनदा नाऽत्र संशयः ||१६||
ग्रहाणामुक्तयोगेषु क्रूरसौम्यविभागतः |
बलाबलविवेकेन फलमूह्यं विचक्षणैः ||१७||
केन्द्रेशः पारिजातस्थस्तदा दाता भवेन्नरः |
उत्तमे ह्युत्तमो दाता गोपुरे पुरुषत्वयुक् ||१८||
सिंहासने भवेन्मान्यः शूरः पारावतांशके |
सभाध्यक्षो देवलोके ब्रह्मलोके मुनिर्मत |
ऐरावतांशके तृष्टो दिग्योगो नैव जायते ||१९||
पारिजाते सुताधीशे विद्या चैव कुलोचिता |
उत्तमे चोत्तमा ज्ञेया गोपुरे भुवनांकिता ||२०||
सिंहासने तथा वाच्या साचिव्येन समन्विता |
पारावते च विज्ञेया ब्रह्मविद्या द्विजोत्तम ||२१||
सुतेशे देवलोकस्थे कर्मयोगश्च जायते |
उपासना ब्रह्मलोके भक्तिस्त्वरावतांशके ||२२||
धर्मेशे पारिजातस्थे तीर्थकृत्त्वत्र जन्मनि |
पूर्वजन्मन्यपि ज्ञेयस्तीर्थकृच्चोत्तमांशके ||२३||
गौपुरे मखकर्ता च परे चैवाऽत्र जन्मनि |
सिंहासने भवेद्वीरः सत्यवादी जितेन्द्रियः ||२४||
सर्वधर्मान् परित्यज्य ब्रह्मैकपदमाश्रितः |
पारवते च परमो हंअश्चैवात्र जन्मनि ||२५||
लगुडी वा त्रिदण्डी स्याद्देवलोके न संशयः |
ब्रह्मलोके शक्रतदं याति कृत्वाऽश्वमेधकम् ||२६||
ऐरावते तु धर्मात्मा स्वयं धर्मो भविष्यति |
श्रीरामः कुन्तिपुत्राद्यो यथा जातो द्विजोत्तम ||२७||
विष्णुस्थानं च केन्द्रं स्याल्लक्ष्मीस्थानं त्रिकोणकम् |
तदीशयोश्च सम्बन्धाद्राजयोगः पुरोदितः ||२८||
पारिजाते स्थितौ तौ चेन्नृपो लोकानुरक्षकः |
उत्तमे चोत्तमो भूपो गजवाजिरथादिमान् ||२९||
गोपुरे नृपशार्दूलः पूजितांध्रिर्नृपैर्भवेत् |
सिंहासने चक्रवर्ती सर्वभूमिप्रपालकः ||३०||
अस्मिन् योगे हरिश्चन्द्रो मनुश्चैवोत्तमस्तथा |
बलिर्वैश्वानरो जातस्तथान्ये चक्रवर्तिनः ||३१||
वर्तमानयुगे जातस्तथा राजा युधिष्ठिरः |
भविता शालिवाहाद्यस्तथैव द्विजसत्तम ||३२||
पारावतांशकेऽप्येवं जाता मन्वादयस्तथा |
विष्णोः सर्वेऽवताराश्च जायन्ते देवलोकके ||३३||
ब्रह्मलोकके तु ब्रह्माद्या जायन्ते विश्वपालकाः |
ऐरावतांशके जातः पूर्व स्वायंभुवो मनुः ||३४||
-
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 41 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AA%E0%A5%A7_(%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%87%E0%A4%B7%E0%A4%A7%E0%A4%A8%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%BE%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85817