बृहत्पाराशरहोराशास्त्रम् 29.1
कथ्याम्यथा भावानां खेटानां च पदं द्विज।
तद्विशेषफलं ज्ञातुं यथोक्तं प्राङ् महर्षिभिः॥ १॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
कथ्याम्यथा भावानां खेटानां च पदं द्विज।
तद्विशेषफलं ज्ञातुं यथोक्तं प्राङ् महर्षिभिः॥ १॥
लग्नाद् यावतिथे राशौ तिष्ठेल्लग्नेश्वरः क्रमात्।
ततस्तावतिथे राशौ लग्नस्य पदमुच्यते॥ २॥
सर्वेषामाप भावानां ज्ञेयमेवं पदं द्विज।
तनुभावपदं तत्र बुधा मुख्यपदं विदुः॥ ३॥
स्वस्थानं सप्तमं नैवं पदं भवितुमर्हति।
तस्मिन् पदत्वे विज्ञेयं मध्यं तुर्यं क्रमात् पदम्॥ ४॥
यथा तुर्यस्थिते नाथे तुर्यमेव पदं भवेत्।
सप्तमे च स्थिते नाथे विज्ञेयं दशमं पदम्॥ ५॥
यस्माद् यावतिथे राशौ खेटात् तद्भवनं द्विज।
ततस्तावतिथं राशिं खेटारूढं प्रचक्षते॥ ६॥
द्विनाथद्विभयोरेवं विज्ञेयं सबलावधि।
विगणय्य पदं विप्र ततस्तस्य फलं वदेत्॥ ७॥
अथाऽहं पदमाश्रित्य फलं किञ्चिद् ब्रुवे द्विज।
पदादेकादशे स्थाने ग्रहैर्युक्तोऽथवेक्षिते॥ ८॥
धनवान् जायते बालस्तथा सुखसमन्वितः।
शुभयोगात् सुमार्गेण धनाप्तिः पापतोऽन्तथा॥ ९॥
मिश्रैर्मिश्रं फलं ज्ञेयं स्वोच्चमित्रादिगेहगैः।
बहुधा जायते लाभो बहुधा च सुखागमः॥ १०॥
पदाल्लाभगृहं यस्य पश्यन्ति सकला ग्रहाः।
राजा वा राजतुल्यो वा स जातो नात्र संशयः॥ ११॥
पदाल्लाभगृहं पश्येद् व्ययं कश्चिन्न पश्यति।
अविध्नेन सदा लाभो जायते द्विजसत्तम॥ १२॥
ग्रहदृग्योगबाहुल्ये पदादेकादशे द्विज।
सार्गले चापि तत्रापि बह्वर्गलसमागमे॥ १३॥
शुभग्रहार्गले विप्र तत्राप्युच्चग्रहार्गले।
शुभेन स्वामिना दृष्टे लग्नभाग्यादिगेन वा॥ १४॥
जातस्य भाग्यप्राबल्यं निर्दिशेदुत्तरोत्तरम्।
उक्तयोगेषु चेत् खेटे द्वादशं नैव पश्यति॥ १५॥
पदस्थानाद् व्यये विप्र शुभपापयुतेक्षिते।
व्ययबाहुल्यमित्येवं विशेषोपार्जनात् सदा॥ १६॥
शुभग्रहे सुमार्गेण कुमार्गात् पापखेचरे।
मिश्रे मिश्रफलं वाच्यमेवं लाभोऽपि लाभगे॥ १७॥
पदारूढाद् व्यये शुक्रभानुस्वर्भानुभिर्युते।
राजमूलाद् व्ययो वाच्यश्चन्द्रदृष्ट्या विशेषतः॥ १८॥
पदारूढाद् व्यये सौम्ये शुभखेटयुतेक्षिते।
ज्ञातिमध्ये व्ययो नित्यं पापदृक् कलहाद् व्ययः॥ १९॥
पदाद् व्यये सुराचार्ये वीक्षिते चान्यखेचरैः।
करमूलाद् व्ययो वाच्यः स्वस्यैव द्विजसत्तम॥ २०॥
आरूढाद् द्वादशे सौरे धरापुत्रेण संयुते।
अन्यग्रहेक्षिते विप्र भ्रातृवर्गाद् धनव्ययः॥ २१॥
आरूढाद् द्वादशे स्थाने ये योगाः कथिता यथा।
लाभभावे च ते योगा लाभयोगकरास्तथा॥ २२॥
आरूढात् सप्तमे राहुरथवा संस्थितः शिखी।
कुक्षिव्यथायुतो बालः शिखिना पीडितोथ वा॥ २३॥
आरूधात् सप्तमे केतुः पापखेटयुतेक्षितः।
साहसी श्वेतकेशी च वृद्धलिङ्गी भवेन्नरः॥ २४॥
पदात्तु सप्तमे स्थाने गुरुशुक्रनिशाकराः।
त्रयो द्वयमथैकोऽपि लक्ष्मीवान् जायते जनः॥ २५॥
स्वतुङ्गे सप्तमे खेटः शुभो वाऽप्यशुभः पदात्।
श्रीमान् सोऽपि भवेन्नुनं सत्कीर्तिसहितो द्विज॥ २६॥
ये योगाः सप्तमे स्थाने पदाश्च कथिता मया।
चिन्त्यास्तथैव ते योगा द्वितीयेऽपि सदा द्विज॥ २७॥
उच्चस्थो रौहिणेयो वा जीवो वा शुक्र एव वा।
एवो बली धनगतः श्रियं दिशति देहिनः॥ २८॥
ये योगाश्च पदे लग्ने यथावद् गदिता मया।
ते योगाः कारकांशेऽपि विज्ञेया बांधवर्जिताः॥ २९॥
आरूढाद् वित्तभे सौम्ये सर्वदेशाधिपो भवेत्।
सर्वज्ञो यदि वा स स्यात् कविर्वादी च भार्गवे॥ ३०॥
आरूधात् केन्द्रकोणेषु स्थिते दारपदे द्विज।
लग्नजायापदे वापि सबलग्रहसंयुते॥ ३१॥
स्र्ईमांश्च जायते नूनं देशे विख्यातिमान् भवेत्।
षष्ठेष्टमे व्ययस्थाने जातो दारपदेऽधनः॥ ३२॥
पदे तत्सप्तमे वापि केन्द्रे वृद्धौ त्रिकोणके।
सुवीर्यः संस्थितः खेतः भार्याभर्तृसुखप्रदः॥ ३३॥
पदाद्दारपदे चैवं केन्द्रे कोणे च संस्थिते।
द्वयोर्मैत्री भवेन्नूनं त्रिके वैरं न संशयः॥ ३४॥
एवं लग्नपदाद् विप्र तनयादिपदे स्थिते।
मित्रामित्रे विजानीयाल्लाभालाभौ विचक्षणः॥ ३५॥
लग्नदारपदे विप्र मिथः केन्द्रगते यदि।
त्रिलाभयोस्त्रिकोणे वा तथा राजा धराधिपः॥ ३६॥
एवं लग्नपदादेव धनादिपदतो द्विज।
स्थानद्वयं समालोक्य जातकस्य फलं वदेत्॥ ३७॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 29 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A8%E0%A5%AF_(%E0%A4%AA%E0%A4%A6%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=74906