बृहत्पाराशरहोराशास्त्रम् 7.1
अथ षोडशवर्गेषु विवेकं च वदाम्यहम्।
लग्ने देहस्य विज्ञानं होरायां सम्पदादिकम्॥ १॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
अथ षोडशवर्गेषु विवेकं च वदाम्यहम्।
लग्ने देहस्य विज्ञानं होरायां सम्पदादिकम्॥ १॥
द्रेष्काणे भ्रातृजं सौख्यं तुर्यांशे भाग्यचिन्तनम्।
पुत्रपौत्रादिकानां चै चिन्तनं सप्तमांशके॥ २॥
नवमांशे कलत्राणां दशमांशे महत्फलम्।
द्वादशांशे तथा पित्रोश्चिन्तनं षोडशांशके॥ ३॥
सुखाऽसुखस्य विज्ञानं वाहनानां तथैव च।
उपासनाया विज्ञानं साध्यं विंशतिभागके॥ ४॥
विद्याया वेदबाह्वंशे भांशे चैव बलाऽबलम्।
त्रिंशांशके रिष्टफलं खवेदांशे शुभाऽशुभम्॥ ५॥
अक्षवेदांशके चैव षष्ट्यंशेऽखिलमीक्षयेत्।
यत्र कुत्रापि सम्प्राप्तः क्रूरषष्ट्यंशकाधिपः॥ ६॥
तत्र नाशो न सन्दे हो गर्गादीनां वचो यथा।
यत्र कुत्रापि सम्प्राप्तः कलांशाधिपतिः शुभः॥ ७॥
तत्र वृद्धिश्च पुष्टिश्च गर्गादिनां वचो यथा।
इति षोडशवर्गाणां भेदास्ते प्रतिपादिताः॥ ८॥
उदयादिषु भावेषु खेटस्य भवनेषु वा।
वर्गविंशोपकं वीक्ष्य ज्ञेयं तेषां शुभाऽशुभम्॥ ९॥
अथातः सम्प्रवक्ष्यामि वर्गविंशोपकं बलम्।
यस्य विज्ञानमार्तेण विपाकं दृष्टिगोचरम्॥ १०॥
गृहविंशोपकं वीक्ष्यं सूर्यादीनां खचारिणाम्।
स्वगृहोच्चे बलं पूर्णं शून्यं तत्सप्तमस्थिते॥ ११॥
ग्रहस्थितिवशाज्ज्ञेयं द्विराश्यधिपतिस्तथा।
मध्येऽनुपाततो ज्ञेयं ओजयुग्मर्क्षभेदतः॥ १२॥
सूर्यहोराफलं दद्युर्जीवार्कवसुधात्मजाः।
चन्द्रास्फुजिदर्कपुत्राश्चन्द्रहोराफलप्रदाः॥ १३॥
फलद्वयं बुधो दद्यात् समे चान्द्रं तदन्यके।
रवेः फलं स्वहोरादौ फलहीनं विरामके॥ १४॥
मध्येऽनुपातात् सर्वत्र द्रेष्काणेऽपि विचिन्तयेत्।
गृहवत् तुर्यभागेपि नवांशादावपि स्वयम्॥ १५॥
सूर्यः कुजफलं धत्ते भार्गवस्य निशापतिः।
त्रिंशांशके विचिन्त्यौवमत्रापि गृहवत् स्मृतम्॥ १६॥
लग्नहोरादृकाणांकभागसूर्यका इति।
त्रिंशांशकश्च षड्वर्गा अत्र विंशोपकाः क्रमात्॥ १७॥
रमनेत्राबिधपंचाश्विभूमयः सप्तवर्गके।
ससप्तमांशके तत्र विश्वकाः पंच लोचनम्॥ १८॥
त्रयः सार्द्धं द्वयं सार्द्धवेदा द्वौ रात्रिनायकः।
स्थूलं फलं च संस्थाप्य तत्सूक्ष्मं च ततस्ततः॥ १९॥
दशवर्गां दिगंशाढ्याः कलांशाः षष्टिभागकाः।
त्रयं क्षेत्रस्य विज्ञेयः पंचषष्ट्यंशकस्य च॥ २०॥
सार्द्धौकभागाः शेषाणां विश्वकाः परिकीर्तिता।
अथ वक्ष्ये विशेषेण बलं विंशोपकाह्वयम्॥ २१॥
क्रमात् षोडशवर्गाणां क्षेत्रादीनां पृथक् पृथक्।
होरात्रिंशांशदृक्काणे कुचन्द्रशशिनः क्रमात्॥ २२॥
कलांशस्य द्वयं ज्ञेयं त्रयं नन्दांशकस्य च।
क्षेत्रे सार्द्धं च त्रितयं वेदाः षष्ट्यंशकस्य हि॥ २३॥
अर्द्धमर्धं तु शेषाणां ह्येतत् स्वीयमुदाहृतम्।
पूर्णं विंशोपकं विंशो धृतिः स्यादधिमित्रके॥ २४॥
मित्रे पंचदश प्रोक्तं समे दश प्रकीर्तितम्।
शत्रौ सप्ताधिशत्रौ च पंचविंशोपकं भवेत्॥ २५॥
वर्गविश्वाः स्वविश्वघ्नाः पुनर्विंशतिभाजिताः।
विश्वाफलोपयोग्यं तत्पञ्चोनं फलदो न हि॥ २६॥
तदूर्ध्वं स्वल्पफलदं दशोर्ध्वं मध्यमं स्मृतम्।
तिय्यूर्धं पूर्णफलदं बोध्यं सर्वं खचारिणाम्॥ २७॥
अथाऽन्यदपि वक्ष्येऽहं मैत्रेय त्वं विधारय।
खेताः पूर्णफलं दद्युः सूर्यात् सप्तमके स्थिताः॥ २८॥
फलाभावं विजानीयात् समे सूर्यनभश्चरे।
मध्येऽनुपातात् सर्वत्र ह्युदयास्तविंशोपकाः॥ २९॥
वर्गविंशोपकं ज्ञेयं फलमस्य द्विजर्षभ।
यच्च यत्र फलं बुद्ध्वा तत्फलं परिकीर्तितम्॥ ३०॥
वर्गविंशोपकं चादावुदयास्तमतः परम्।
पूर्णं पूर्णेतिपूर्नंस्यात् सर्वदौवं विचिन्तयेत्॥ ३१॥
हीनं हीनेतिहीनं स्यात् स्वल्पेल्पात्यल्पकं स्मृतम्।
मध्यं मध्येतिमध्यं स्याद्यावत्तस्य दशास्थितिः॥ ३२॥
अथाऽन्यदपि वक्ष्यामि मैत्रेय स्रृणु सुव्रत्।
लग्नतुर्यास्तवियतां केन्द्रसंज्ञा विशेषतः॥ ३३॥
द्विपंचरन्ध्रलाभानां ज्ञेयं पणफराभिधम्।
त्रिषष्ठभाग्यरिष्फानामापोक्लिममिति द्विज॥ ३४॥
लग्नात् पंचमभाग्यस्य कोणसंज्ञा विधीयते।
षष्ठाष्टव्ययभाबानां दुःसंज्ञास्त्रिकसंज्ञकाः॥ ३५॥
चतुरस्रं तुर्यरन्ध्रं कथयान्ते द्विजोत्तम।
स्वस्थादुपचयर्क्षाणि त्रिषडायाम्बराणि हि॥ ३६॥
तनुर्धनं च सहजो बन्धुपुत्रारयस्तथा।
युवतीरन्ध्रधर्माख्यकर्मालाभव्ययाः क्रमात्॥ ३७॥
संक्षेपेणौतदुदितमन्यद् बुद्ध्यनुसारतः।
किञ्चिद्विशेषं वक्ष्यामि यथा भह्ममुखार्च्छुतम्॥ ३८॥
नवमेऽपि पितुर्ज्ञानं सूर्याच्च नवमेऽथवा।
यत्किञ्चिद्दशमे लाभे तत्सूर्याद्दशमे भवे॥ ३९॥
तुर्ये तनौ धने लाभे भाग्ये यच्चिन्तनं च तत्।
चन्द्रात्तुर्ये तनौ लाभे भग्ये तच्चिन्तयेद् ध्रुवम्॥ ४०॥
लग्नाद् दुश्चिक्यभवने यत्कुजाद्विक्रमेऽखिलम्।
विचार्यं षष्ठभावस्य बुधात् षष्ठे विलोकयेत्॥ ४१॥
पुत्रस्य च गुरोः पुत्रे जायायाः सप्तमे भृगोः।
अष्टमस्य व्ययस्यापि मन्दान्मृत्यौ व्यये तथा॥ ४२॥
यद्भावाद्यत्फलं चिन्त्यं तदीशात्तत्फलं विदुः।
ज्ञेयं तस्य फलं तद्धि तत्र चिन्त्यं शुभाऽशुभम्॥ ४३॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 7 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AD_(%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A4%B5%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%95%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=85816