बृहत्पाराशरहोराशास्त्रम् 6.1
श्रुता ग्रहगुणास्त्वत्तस्तथा राशिगुण मुने।
श्रोतमिच्छामि भावानां भेदांस्तान् कृपया वद॥ १॥
97 अध्यायों की सूची; 91 अध्यायों का पाठ उपलब्ध। अध्याय 16, 18, 20, 22, 23 और 35 में स्रोत का गलत दोहराव मिलने से पाठ रोका गया है। यह अभी पूर्ण BPHS नहीं है।
मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।
श्रुता ग्रहगुणास्त्वत्तस्तथा राशिगुण मुने।
श्रोतमिच्छामि भावानां भेदांस्तान् कृपया वद॥ १॥
वर्गान् षोडश यानाह ब्रह्मा लोकपितामहः।
तानहं सम्प्रवक्ष्यामि मैत्रेय स्रूयतामिति॥ २॥
क्षेत्रं होरा च द्रेष्काणस्तुर्यांशः सप्तमांशकः।
नवांशो दशमांशश्च सूर्याम्शः षोडशांशकः॥ ३॥
विंशांशो वेदवाह्वंशो भांशस्त्रिंशांशकस्ततः।
खवेदांशोऽक्षवेदांशः षष्ठ्यंशश्च ततः परम्॥ ४॥
तत्क्षेत्रं तस्य खेटस्य राशेर्यो यस्य नायकः।
सूर्येन्द्वोर्विषमे राशौ समे तद्विपरीतकम्॥ ५॥
पितरश्चन्द्रहोरेशा देवाः सूर्यस्य कीर्तिताः।
राशेरर्द्धं भवेद्धोरा ताश्चतुर्विंशतिः स्मृता।
मेषादि तासां होराणां परिवृत्तिद्वयं भवेत्॥ ६॥
राशित्रिभागाद्रेष्काणास्ते च षट्त्रिंशदीरिताः।
परिवृत्तित्रयं तेषां मेषादेः क्रमशो भवेत्॥ ७॥
स्वपंचनवमानां च राशीनां क्रमशश्च ते।
नारदाऽगस्तिदुर्वासा द्रेष्काणेशाश्चरादिषु॥ ८॥
स्वर्क्षादिकेन्द्रपतयस्तुर्यांशेशाः क्रियादिषु।
सनकश्च सनन्दश्च कुमारश्च सनातनः॥ ९॥
सप्तांशपास्त्वोजगृहे गणनीया निजेशतः।
युग्मराशौ तु विज्ञेयाः सप्तमर्क्षादिनायकात्॥ १०॥
क्षारक्षीरौ च दध्याज्यौ तथेक्षुरससम्भवः।
मध्यशुद्धजलावोजे समे शुद्धजलादिकाः॥ ११॥
नवांशेशाश्चरे तस्मात्स्थिरे तन्नवमादितः।
उभये तत्पंचमादेरिति चिन्त्यं विचक्षणौः।
देवा नृराक्षसाश्चैव चरादिषु गृहेषु च॥ १२॥
दशमांशाः स्वतश्चैजे युग्म तन्नवमात् स्मृताः।
दश पूर्वादिदिक्पाला इन्द्राऽग्नियमराक्षसाः॥ १३॥
वरुणो मारुतश्चैव कुबेरेशानपद्मजाः।
अनन्तश्च क्रमादीये समे वा व्युत्क्रमेण तु॥ १४॥
द्वादशांशस्य गणना तत्तत्क्षेत्राद्विनिर्दिशेत्।
तेषामघीशाः क्रमशो गणेशाऽश्वियमाहयाः॥ १५॥
अजसिंहाऽश्वितो ज्ञेया षोडशांशाश्चरादिषु।
अजविष्णू हरः सूर्ये ह्योजे युग्मे प्रतीपकम्॥ १६॥
अथ विंशतिभागानामधिपा ब्रह्मणोदिताः।
क्रियाच्चरे स्थिरे चापान् मृगुन्द्राद् द्विस्वभावके॥ १७॥
काली गौरी लक्ष्मीविजया विमला सती।
तारा ज्वालामुखी श्वेता ललिता बगलामुखी॥ १८॥
प्रत्यङ्गिरा शची रौद्री भवानी वरदा जया।
त्रिपुरा सुमुखी चेति विषमे परिचिन्तयेत्॥ १९॥
समराशौ दया मेधा छिन्नशीर्षा पिशाचिनी।
धूमावती च मातङ्गी बाला भद्रऽरुणानला॥ २०॥
पिङ्गला छुच्छुका घोरा वाराही वैष्णवी सिता।
भुवनेशी भैरवी च मङ्गला ह्यपराजिता॥ २१॥
सिद्धांशकानामधिपाः सिंहादोजभगे ग्रहे।
कर्कद्युग्मभगे खेटे स्कन्दः पर्शुधरोऽनलः॥ २२॥
विश्वकर्मा भगो मित्रो मयोऽन्तकवृषध्वजाः।
गोविन्दो मदनो भीमः सिंहादौ विषमे क्रमात्।
कर्कादौ समभे भीमाद्विलोमेन विचिन्तयेत्॥ २३॥
भांशाधिपाः क्रमाद्दस्रयमवह्निपितामहाः।
चन्द्रेशादितिजीवाहिपितरो भगसंज्ञिताः॥ २४॥
अर्यमार्कत्वष्ट्टमरुच्छक्राग्निमित्रवासवाः।
निरृत्युदकविश्वेऽजगोविन्दो वसवोऽम्बुपः॥ २५॥
ततोऽजपादहिर्बुध्न्यः पूषा चैव प्रकीर्तिताः।
नक्षत्रेशास्तु भांशेशा मेषादिचरभक्रमात्॥ २६॥
त्रिंशांशेशाश्च विषमे कुजर्कीज्यज्ञभार्गवाः।
पंचपंचाष्टसप्ताक्षभागानां व्यत्ययात् समे॥ २७॥
वह्निः समीरशक्रौ च धनदो जलदस्तथा।
विषमेषु क्रमाज्ज्ञेयाः समराशौ विपर्ययात्॥ २८॥
चत्वारिंशद्विभागानामधिपा विषमे क्रियात्।
समभे तुलतो ज्ञेयाः स्वस्वाधिपसमन्विताः॥ २९॥
विष्णुश्चन्द्रो मरीचिश्च त्वष्टा धाता शिवो रविः।
यमो यक्षश्च गन्धर्वः कालो वरुण एव च॥ ३०॥
तथाक्षवेदभागानामधिपाश्चरभे क्रियात्।
स्थिरे सिंहाद् द्विभेचापात् विधीशविष्णवश्चरे॥ ३१॥
ईशाच्युतसुरज्येष्ठा विष्णुकेशाः स्थिरे द्विभे।
देवाः पंचदशावृत्त्या विज्ञेया द्विजसत्तम॥ ३२॥
राशीन् विहाय खेटस्य द्विघ्नमंशाद्यमर्कहृत्।
शेषं सैकं तद्राशेर्भपाः षष्ट्यंशापाः स्मृताः॥ ३३॥
घोरश्च राक्षशो देवः कुबेरो यक्षकिन्नरौ।
भ्रष्टः कुलघ्नो गरलो वह्निर्माया पुरीषकः॥ ३४॥
अपाम्पतिर्मरुत्वांश्च कालः सर्पामृतेन्दुकाः।
मृदुः कोमलहेरम्बब्रह्मविष्णुमहेश्वराः॥ ३५॥
देवार्द्रौ कलिनाशश्च क्षितीशकमलाकरौ।
गुलिको मृत्युकालश्च दावाग्निर्घोरसंज्ञकः॥ ३६॥
यमश्च कण्टकसुधाऽमृतौ पूर्णनिशाकरः।
विषदग्धकुलान्तश्च मुख्यो वंशक्षयस्तथा॥ ३७॥
उत्पातकालसौम्याख्याः कोमलः शीतलाभिधः।
करालदंष्ट्रचन्द्रास्यौ प्रवीणः कालपावकः॥ ३८॥
दण्डभृन्निर्मलः सौम्यः क्रूरोऽतिशीतलोऽमृतः।
पयोधिभ्रमणाख्यौ च चन्द्ररेखा त्वयुग्मपाः॥ ३९॥
समे भे व्यत्ययाज्ज्ञेयाः षष्ट्यंशेशाः प्रकीर्तिताः।
षष्ट्यांशस्वामिनस्त्वोजे तदीशादव्यत्पयः समे॥ ४०॥
शुभषष्टयंशसंयुक्ता ग्रहाः शुभफलप्रदाः।
क्रूरषष्ट्यंशासंयुक्ता नाशयन्ति खचारिणः॥ ४१॥
वर्गभेदानहं वक्ष्ये मैत्रेय त्वं विधारय।
षड्वर्गाः सप्तवर्गाश्च दिग्वर्गा नृपवर्गकाः॥ ४२॥
भवन्ति वर्गसंयोगे षडवर्गे किंशुकादयः।
द्वाभ्यां किंशुकनामा च त्रिभिर्व्यञ्जनमुच्यते॥ ४३॥
चतुर्भिश्चामराख्यं च छत्रं पञ्चभिरेव च।
षड्भिः कुण्डलयोगः स्यान्मुकुटाख्यं च सप्तभिः॥ ४४॥
सप्तवर्गेऽथ दिग्वर्गे पारिजातादिसंज्ञकाः।
पारिजातं भवेद्द्वाभ्यामुत्तमं त्रिभिरुच्यते॥ ४५॥
चतुर्भिर्गोपुराख्यं स्याच्छरौः सिंहासनं तथा।
पारावतं भवेत् षड्भिर्देवलोकं च सप्तभिः॥ ४६॥
वसुभिर्ब्रह्मलोकाख्यं नवभिः शक्रवाहनम्।
दिग्भिः श्रीधामयोगः स्यादथ षोडशवर्गके॥ ४७॥
भेदकं च भवेद्द्वाभ्यां त्रिभिः स्यात् कुमुमाख्यकम्।
चतुर्भिर्नागपुष्पं स्यात् पंचभिः कन्दुकाह्वयम्॥ ४८॥
केरलाख्यं भवेत् षड्भिः सप्तभिः कल्पवृक्षकम्।
अष्टभिश्चन्दनवं नवभिः पूर्णचन्द्रकम्॥ ४९॥
दिग्भिरुच्चैःश्रवा नाम रुद्रैर्धन्वन्तरिर्भवेत्।
सूर्यकान्तं भवेद् सूर्यैर्विश्वैः स्याद्विद्रुमाख्यकम्॥ ५०॥
शक्रसिंहासनं शक्रैर्गोलोकं तिथिभिर्भवेत्।
भूपैः स्रीवल्लभाख्यं स्याद्वर्गा भेदैरुदाहृताः॥ ५१॥
स्वोच्चमूलत्रिकोणस्वभवनाधिपतेः शुभाः।
स्वारुढात् केन्द्रनाथानां वर्गा ग्राह्याः सुधीमता॥ ५२॥
अस्तंगता ग्रहजिता नीचगा दुर्बलाश्च ये।
शयनादिगतास्तेभ्य उत्पन्ना योगनाशकाः॥ ५३॥
संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11
विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।
अध्याय 6 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AC%E0%A5%83%E0%A4%B9%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%B0%E0%A4%B9%E0%A5%8B%E0%A4%B0%E0%A4%BE%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%AC_(%E0%A4%B7%E0%A5%8B%E0%A4%A1%E0%A4%B6%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83)&oldid=74382