Astrological HarshAuthor · Teacher · Researcher
अध्ययन · संस्कृत · शास्त्रीय संदर्भSTUDY · SANSKRIT · CLASSICAL REFERENCES

फलदीपिका · अध्याय 26 · षड्विंशोऽध्यायः (गोचरफलम्)

शास्त्रीय ग्रंथ केन्द्र / फलदीपिका

28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।

मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।

फलदीपिका 26.1

गोचरफल
सर्वेषु लग्नेष्वपि सत्सु चन्द्र-
लग्नं प्रधानं खलु गोचरेषु |
तस्मात्तदृक्षादपि वर्तमान्-
ग्रहेन्द्रचारैः कथयेत्फलानि || १||

फलदीपिका 26.2

सूर्यः षट्त्रिदशस्थितस्त्रिदशषट्सप्ताद्यगश्चन्द्रमाः
जीवस्त्वस्ततपोद्विपंचमगतो वक्रार्कजौ षट्त्रिगौ |
सौम्यः षट्स्वचतुर्दशाष्टमगतः सर्वेऽप्युपान्तस्थिताः
शुक्रः खास्तरिपून्विहाय शुभदस्तिग्मांशुवद्भोगिनौ || २||

फलदीपिका 26.3

लाभविक्रमखशत्रषु स्थितः
शोभनो निगदितो दिवाकरः |
खेचरैः सुततपोजलान्त्यगैः
व्यार्किभिर्यदि न विद्ध्यते तदा || ३||

फलदीपिका 26.4

द्यूनजन्मरिपुलाभखत्रिगः
चन्द्रमाः शुभफलप्रदः सदा |
स्वात्मजान्त्यमृतिबन्धुधर्मगै
विध्द्यते न विबुधैर्यदि ग्रहैह् || ४||

फलदीपिका 26.5

विक्रमायरिपुगः कुजः शुभः
स्यात्तदान्त्यसुतधर्मगैः खगैः |
चेन्न विद्ध इनसूनुरप्यसौ
किन्तु धर्मधृणना न विध्द्यते || ५||

फलदीपिका 26.6

स्वाम्बुशत्रुमृतिखायगः शुभो
ज्ञस्तदा न खलु विध्द्यते सदा |
स्वाल्मजत्रितप आद्यनैधन
प्राप्तिगैविबुधुभिर्यदि ग्रहैः || ६||

फलदीपिका 26.7

स्वायधर्मतनयास्तसंस्थितो नाकनायकपुरोहितः शुभः |
रिःफरन्ध्रखजलत्रिगैर्यदा विध्द्यते गगनचारिभिर्न हि || ७||

फलदीपिका 26.8

आसुताष्टमतपोव्ययायगो विद्ध आस्फुजिदशोभनः स्मृतः |
नैधनास्ततनुकर्मधर्मधीलाभवरिसहजस्थखेचरैः || ८||

फलदीपिका 26.9

जन्मन्यायासदाता क्षपयति विभवान् क्रोधरोगाध्वदाता
वित्तभ्रंशं द्वितीये दिशति न सुखदो पञ्चनामाग्रहं च |
स्थानप्राप्तिं तृतीये धननिचयमुदाकल्यकृच्चारिहन्ता
रोगाण् दत्ते चतुर्थे जनयति च मुहुः स्रग्धराभोगविघ्नम् || ९||

फलदीपिका 26.10

वित्तक्षोभं सुतस्थो वितरति बहुशो रोगमोहादिदाता
षष्ठेऽर्को हन्ति रोगान् क्षपयति च रिपूञ्छोकमोहान्प्रमाष्टिं |
आध्वानं सप्तमस्थो जठरगुदभयं दैन्यभावं च तस्मै
रुक्त्रासावष्टमस्थः कलयति कलहं राजभीतिं च तापम् || १०||

फलदीपिका 26.11

आपद्दैन्यं तपसि विरहं चित्तचेष्टानिरोधं
प्राप्तोन्युग्रां दशमगृहगे कर्मसिद्धिं दिनेशे |
स्थानं मानं विभवमपि चैकादशे रोगनाशं
क्लेशं वित्तक्षयमपि सुहृद्वैरमन्त्ये ज्वरं च || ११||

फलदीपिका 26.12

क्रमेण भाग्योदयमर्थहातिं जयं श्लोकमरोगतां च |
सुखान्यनिष्टं गदमिष्टसिद्धिं मोदं व्ययं च प्रददाति चन्द्रः || १२||

फलदीपिका 26.13

अन्तः शोकं स्वजनविरहं रक्तपित्तोष्णरोगं
लग्ने वित्ते भयमपि गिरां दोषमर्थक्षयं च |
धैरे भौमो जनयति जयं स्वर्णभूषंप्रमोदं
स्थानभ्रंशं रुजमुदरजां बन्धुदुःखं चतुर्थे || १३||

फलदीपिका 26.14

ज्वरमनुचितचिन्तां पुत्रहेतुव्यथां वा
कलयति कलहंस्वैः पञ्चमे भूमिपुत्रः |
रिपुकलहनिवृत्तिं रोगशान्तिं च षष्ठे
विजयमथ धनाप्तिं सर्वकार्यानुकूल्यम् || १४||

फलदीपिका 26.15

कलत्रकलहाक्षिरुग्जठररोगकृत्सप्तमे
ज्वरक्षतजरूक्षितो विगतवित्तमानोऽष्टमे |
कुजे नवमसंस्थिते परिभवोऽर्थनाशादिभि-
विलम्बितगतिर्भवत्यबलदेहधातुक्षयैः || १५||

फलदीपिका 26.16

दुश्चेष्टा वा कर्मविघ्नः श्रमः खे
द्रव्यारोग्यक्षेत्रवृद्धिश्च लाभे |
भौमः खेटो गोचरे द्वादशस्थो
द्रव्यच्छेदस्ताप उष्णामयाद्यैः || १६||

फलदीपिका 26.17

वित्तक्षयं श्रियमरातिभयं धनाप्तिं
भार्याप्तनूजकलहं यिजयं विरोधम् |
पुत्रार्थलाभमथ विघ्नमशेषसौख्यं
पुष्टिं पराभवभयं प्रकरोति चान्द्रिः || १७||

फलदीपिका 26.18

जीवे जन्मनि देशनिर्गमनमप्यर्थच्युतिं शत्रुतां
प्राप्नोति द्रविणं कुटुम्बसुखमप्यर्थे स्ववाचां फलम् |
दुश्चिक्ये स्थितिनाशमिष्टवियुतिं कार्यान्तरायं रुजं
दुःखैर्बन्धुजनोद्भवैश्च हिबुके दैन्यं चतुष्पाद्भयम् || १८||

फलदीपिका 26.19

पुत्रोत्पत्तिमुपैति सज्जनयुतिं राजामुकूल्यं सुते
षष्ठे मन्त्रिणि पीडयन्ति रिपवः स्वज्ञातयो व्याधयः |
यात्रां शोभनहेतवे वनितया सौख्यं सुताप्तिं स्मरे
मार्गक्लेशमरिष्टमष्टमगते नष्टं धनैः कष्टताम् || १९||

फलदीपिका 26.20

भाग्ये जीवे सर्वसौभाग्यसिद्धिः
कर्मण्यर्थास्थनपुत्रादिपिडा
लाभे पुत्रस्थानमानदिलाभो
रिःफे दुःखं साध्वसं द्रव्यहेतोः || २०||

फलदीपिका 26.21

अखिलविषयभोगं वित्तसिद्धिं विभूतिं
सुखसुहृदभिवृद्धिं पुत्रलब्धिं विपत्तिम् |
दिशति युवतिपीडां सम्पदं वा सुखाप्तिं
कलहमभयमर्थप्राप्तिमिन्द्रारिमन्त्री || २१||

फलदीपिका 26.22

रोगाशौचक्रियाप्तिं धनसुतविहतिं स्थानभृत्यार्थलाभं
स्त्रीबन्ध्वर्थप्रणाशं द्रविणसुतमतिप्रच्युतिं सर्वसौख्यम् |
स्त्रीरोगाध्वावभीतिं स्वसुतपशुसुहृद्बित्तनाशामयातिं
जन्मादेरष्टमान्तं दिशति पदवशेनार्कसूनुः क्रमेण || २२||

फलदीपिका 26.23

दारिध्रं धर्मविघ्नं पितृसमविलयं नित्यदुःखं शुभस्थे
दुर्व्यापारप्रवृत्तिं कलयति दशमे मानभङ्गं रुजं वा |
सौख्यान्येकादशस्थो बहुविधविभवप्राप्तिमुत्कृष्टकीर्तिं
विश्रान्ति व्यर्थकार्याद्विसुहृतिमरिभिः स्त्रीसुतव्याधिमन्त्ये || २३||

फलदीपिका 26.24

देहक्षयं वित्तविनाशसौख्ये
दुःखार्थनाशौ सुखनाशमृत्यून् |
हानिं च लाभं सुभगं व्ययं च
कुर्यत्तमो जन्मगृहात्क्रमेण || २४||

फलदीपिका 26.25

क्षितितनयपतङ्गौ राशिपूर्वत्रिभागे
सुरपतिगुरुशुक्रौ राशिमध्यत्रिभागे|
तुहिनकिरणमन्दौ राशिपाश्चात्यभागे
शशितनयभुजङ्गौ पाकदौ सार्वकालम् || २५||

फलदीपिका 26.26

नक्षत्रगोचरम्
रेखाह् सप्तसमालिखेदुपरिगास्तिर्यक्तथैव क्रमा-
दीशादग्निभमादितोऽपि गणयेदादित्यभस्यावधि |
वेधा जन्मादिने मृतिर्भयमथाधानाख्यनक्षत्रके
कर्मण्यर्थविनाशं खलु रविर्दद्यात्सपापो मृतिम् || २६||

फलदीपिका 26.27

एवं विद्धे खचरैः क्रररन्यैर्मरणम् |
सौम्यैर्विद्धे न मृतिविद्यादेवं सकलं || २७||

फलदीपिका 26.28

आधनकर्मर्क्षविपन्निजर्क्षे
वैनाशिके प्रत्यरभे वधाख्ये
पापग्रहो मृत्युभयं विदध्या
द्वेधेतथा कार्यहरः शुभाख्ये || २८||

फलदीपिका 26.29

आदित्यसङ्क्रान्तिदिने ग्रहाणं
प्रवेशने वा ग्रहणे च युद्धे |
उल्कानिपाते च तथाद्भुते च
जन्मत्रयं स्यान्मरणादिदुःखम् || २९||

फलदीपिका 26.30

असत्फलः सौम्यनिरीक्षितो यः
शुभप्रदश्चाप्यशुभेक्षितश्च |
द्वौ निष्फलौ द्वावपि खेचरेन्द्रौ
यः शत्रुणा स्वेन विलोकितश्च || ३०||

फलदीपिका 26.31

अनिष्टभावस्थितखेचरेन्द्रः
स्वोच्चस्वगेहोपगतो यदि स्यात् |
न दोषकृच्चोत्तमभावगश्चेत्
पूर्णं फलं यच्छति गोचरेषु || ३१||

फलदीपिका 26.32

ग्रहेश्वरारुते शुभगोचरस्था
नीचारिमौढ्यं समुपाश्रिताश्रेत् |
ते निष्फलाः किन्त्वशुभाङ्कसंस्थाः
कष्टं फलं संविदधत्यनल्पम् || ३२||

फलदीपिका 26.33

द्वादशाष्टमजन्मस्थाः शन्यर्काङ्गारका गुरुः |
कुर्वन्ति प्राणसन्देहं स्थानभ्रंशं धनक्षयम् || ३३||

फलदीपिका 26.34

चद्राष्टमे च धरणीतनयः कलत्रे
राहुः शुभे कविररौ च गुरुस्तृतीये |
अर्कः सुतेऽर्किरुदये च बुधश्चतुर्थे
मानार्थहानिमरणानि वदेद्विशेषात् || ३४||

फलदीपिका 26.35

अङ्गग्रहाः
वक्त्रे क्ष्मा मूर्घ्नि चत्वार्युरसि च चतुरः सव्यहस्ते चतुष्कं
पादे षड्वामहस्ते चतुरथ नयने द्वौ च गुह्ये द्वयं च |
भानुर्नाशं विभुतिं विजयमथ धनं निर्धनं देहपीडां
लाभं मृत्युं च चक्रे जनयति विविधान् जन्मभाद्देहसंस्थः || ३५||

फलदीपिका 26.36

शीतांशोर्वदने द्वयोरतिभयं क्षेमंशिरस्यम्बुधौ
पृष्ठे शत्रुजयं द्वयोर्नयनयोर्नेत्रे धनं जन्मभात् |
पञ्चस्वात्मसुखं हृदि त्रिषु करे वामे विरोधं क्रमात्
पादौ षट्सु विदेशतां जनयति त्रिष्वर्थलाभं करे || ३६||

फलदीपिका 26.37

वक्त्रे द्वे मरणं करोत्यवनिजः षट् पादयोविग्रहं
क्रोडे त्रीणि जयं चतुर्विधनतां वामे करे मस्तके |
द्वे लाभं चतुराननेऽधिकभयं क्षेमंकरे दक्षिणे
वार्द्धिर्द्वे नयने विदेशगमनं चक्रे स्वजन्मर्क्षतः || ३७||

फलदीपिका 26.38

मूघ्निं त्रीणि मुखे त्रयं च करयोः षट् पञ्च कुक्षौ तथा
लिङ्गे द्वे द्विचतुष्टयं चरणयोः प्राप्तेऽमरेन्द्राचिंतः |
शोकं लाभमनर्थमर्थनिचयं नाशं प्रतिष्ठां तथा
दद्यादात्मदिनात्तथैव भृगुजस्तद्वद्बुधोऽपि क्रमात् || ३८||

फलदीपिका 26.39

भूवेदवह्निगुणवेदशराग्नेत्र-
दस्त्रं च वक्त्रकरपादपदेषु हस्ते |
कुक्षौ च मूर्घ्नि नयनद्वयपृष्ठोभागे
न्यस्य क्रमेण शनिसंयुतभान्निजर्क्षात् || ३९||

फलदीपिका 26.40

दुःखं च सौख्यं गमनं च नाशं
लाभं स्वभोगं सुखसौख्यमृत्यून् |
वक्त्रक्रमादाह फलानि मन्द-
स्यैवं तमःखेचरयोर्वदन्तु || ४०||

फलदीपिका 26.41

यत्राष्टवर्गेऽधिकबिन्दवः स्यु-
स्तत्र स्थितो गोचरतो ग्रहेन्द्रः |
तद्वत्फलं प्राह शुभं व्ययारि-
रन्ध्रस्थितो वाऽपि शुभं विद्धत्ते || ४१||

फलदीपिका 26.42

रवेद्वदिशनक्षत्रं भूसुतस्य तृतीयकम् |
गुरोः षट्तारकं चैव शनेरष्टमतारकम् || ४२||

फलदीपिका 26.43

एतेषां च पुरोलत्ता पृष्ठोलत्तः प्रकीर्त्तिताः |
शुक्रस्य पञ्चमं तारं चन्द्रजस्य तु सप्तमम् || ४३||

फलदीपिका 26.44

राहोस्तु नवम चैव द्वाविंशं भं हिमद्युतेः |
ग्रहस्थितर्क्षाद्गणयेल्लत्तायां जन्मभे व्यथा || ४४||

फलदीपिका 26.45

रवेः सर्वार्थहानिः स्यात्तमसोर्दुःखमुच्यते |
मरणं जीवलत्तायां बन्धुनाशो भयावहः || ४५||

फलदीपिका 26.46

शुक्रस्य कलहो भ्रंश अनर्थः शशिजस्य तु |
चन्द्रस्य तु महाहानिर्लत्तामात्रफलं भवेत् || ४६||

फलदीपिका 26.47

सर्वत्र लत्तासाङ्कर्ये द्विगुणत्रिगुणादिकम् |
वदेद्दोषफलं नॄणां ग्रहाल्लत्ताधिकक्रमात् || ४७||

फलदीपिका 26.48

सर्वतो भद्र चक्रोक्त शुभवेधाः शुभावहाः |
पापवेधा दुःखतरा गोचरेताश्च चित्तयेत् || ४८||

अगला अध्याय →

पाठ का स्रोत और उपयोग अधिकार

संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11

विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।

CC BY-SA 4.0

अध्याय 26 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%B7%E0%A4%A1%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%97%E0%A5%8B%E0%A4%9A%E0%A4%B0%E0%A4%AB%E0%A4%B2%E0%A4%AE%E0%A5%8D)&oldid=73771