Astrological HarshAuthor · Teacher · Researcher
अध्ययन · संस्कृत · शास्त्रीय संदर्भSTUDY · SANSKRIT · CLASSICAL REFERENCES

फलदीपिका · अध्याय 19 · एकोनविंशोऽध्यायः (दशाफलम्)

शास्त्रीय ग्रंथ केन्द्र / फलदीपिका

28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।

मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।

फलदीपिका 19.1

दशाफल
भक्त्या येन नवग्रहा बहुविधैराराधितास्ते चिरं
सन्तुष्ताः फलबोधहेतुमदिशन्सानुग्रहं निर्णयम् |
ख्यातां तेन पराशरेण कथितां संगृह्य होरागमात्
सारं भूरिपरीक्षयातिफलितां वक्ष्ये महाख्यां दशाम् || १||

फलदीपिका 19.2

अग्न्यादितारपत्यो रविचन्द्रभौम-
सर्पमरेण्यशनिचन्द्रजकेतुशुक्राः |
तेने नटः सनिजया चटुधान्यसौम्य-
स्थने नखा निगदिताः शरदस्तु तेषां || २||

फलदीपिका 19.3

तृक्षस्य गम्या घटिका दशाब्द-
निघ्ना नताप्ता स्वदशाब्दसंख्या |
रूपैर्नगैः संगुणयेन्नतेन
हृतास्तु मासा दिवसाः क्रमेण || ३||

फलदीपिका 19.4

रविस्फुटं तज्जनने यदासीत्
तथा विधश्चेत्प्रतिवर्षमर्कः |
आवृत्तयुः सन्ति दशाब्दकानां
भागक्रमात्तदृवसाः प्रकल्प्याः || ४||

फलदीपिका 19.5

दशाफल
भानुः करोति कलहं क्षितिपालकोप-
माकस्मिकं स्वजनरोगपरिभ्रमं च |
अन्योन्यवैरमतिदुःसहचित्तकोपं
गुप्त्यर्थधान्यसुतदारकृशानुपीडाम् || ५||

फलदीपिका 19.6

क्रौर्यध्विभूपैः कलहैर्धनाप्तिं
वनाद्रिसंचारमतिप्रसिद्धिम् |
करोति सुस्थो विजयं दिनेश-
स्तैक्ष्ण्यं सदोद्योगरतिं सुखं च || ६||

फलदीपिका 19.7

मनःप्रसादं प्रकरोति चन्द्रः
सर्वार्थसिद्धिं सुखभोजनं च |
स्त्रीपुत्रभूषाम्बररत्नसिद्धीं
गोक्षेत्रेलाभं द्विजपूजनं च || ७||

फलदीपिका 19.8

बलेन सर्वं शशिनस्तु वाच्यं
पूर्वे दशाहे फलमत्र मध्यम् |
मध्ये दशहे परिपूर्णवीर्यं
तृतीयेभागेऽल्पफलं क्रमेण || ८||

फलदीपिका 19.9

भौमस्य स्वदशाफलानि हुतभुग्भूपाहवाद्यैर्धनं
भैषज्यानृतवञ्चनैश्च विविधैः क्रौर्यैर्धनस्यागमः |
पित्तासृग्ज्वरबाधितश्च सततं नीचाङ्गनासेवनं
विद्वेषः सुतदारबन्धुगुरुभिः कष्टोऽन्यभाग्ये रतः || ९||

फलदीपिका 19.10

सौम्यः करोति सुहृदागममात्मसौख्यं
विद्वत्प्रशंसितयशश्च गुरुप्रसादम् |
प्रागल्भ्यमुक्तिविषयेऽपि परोपकारं
जायात्मजादिसुहृदां कुशलं महत्त्वम् || १०||

फलदीपिका 19.11

धर्मक्रियाप्तिममरेन्द्रगुरुर्विधत्ते
संतानसिद्धिमवनीपतिपूजनं च |
श्लाघ्यत्वमुन्नतजनेषु गजाश्वयान-
प्राप्तिं वधूसुतसुहृद्युतिमिष्टसिद्धिम् || ११||

फलदीपिका 19.12

क्रीडासुखोपकरणानि सुवाहनाप्तिं
गोरत्मभूषणनिधिप्रमदाप्रमोदम् |
ज्ञनक्रियां सलिलयानमुपैति शौक्रयां
कल्याणकर्मबहुमानमिलाधिनाथात् || १२||

फलदीपिका 19.13

पाकेऽर्कजस्यनिजदारसुतातिरोगान्-
वातोत्तरान्कृषिविनाशमसत्प्रलापम् |
कुस्त्रीरतिं परिजनैर्वियुतिं प्रवास
माकस्मिकं स्वजनभूमिसुखार्थनाशम् || १३||

फलदीपिका 19.14

कुर्यार्दहिः क्षितिपचोरविषाग्नोशस्त्र-
भीर्तिं सुतार्तिसतिविभ्रमबन्धुनाशम् |
नीचावमाननमतिक्रमतोऽपवादं
स्थानच्युतिं पदहातिं कृतकार्यहानिम् || १४||

फलदीपिका 19.15

विधुंतुदे शुभान्विते प्रशस्तभावसंयुते
दशा शुभप्रदा तदा महीपतुल्यभूतिदा |
अभीष्टकार्यसिद्धयो गृहे सुखस्थितिर्भवे-
दचञ्चलार्थसंचयाः क्षितौ प्रसिद्धकीर्तयः || १५||

फलदीपिका 19.16

पथोनमीनालिगतस्य राहो-
र्दशाविपाके महितं च सौख्यम् |
देशाधिप्त्यं नरवाहनाप्ति-
र्दशावसाने सकलस्य नाशः || १६||

फलदीपिका 19.17

केतोर्दशायामरिचोरभूपैः
पीडा च शस्त्रक्षतमुष्णरोगः |
मिथ्यापवादः कुलदूषितत्वं
वह्नेर्भयं प्रोषणमात्मदेशात् || १७||

फलदीपिका 19.18

अथ तरणिदशायां क्रौर्यभूपालयुद्धै-
र्धनमनलचतुष्पात्पीडनं नेत्रतापः |
उदरदशनरोगः पुत्रदारार्तिरुच्चै-
र्गुरुजनविरहः स्याद्भृत्यनाशोऽर्थहानिः || १८||

फलदीपिका 19.19

शिशिरकरदशायां मन्त्रदेवद्विजोर्वी-
पतिजनितविभूतिः स्त्रीधनक्षेत्रसिद्धिः |
कुसुमवसनभूषागन्धनानारसाप्ति-
भर्वति खलविरोधः स्वक्षयो वातरोगः || १९||

फलदीपिका 19.20

क्षितितनयदशायां क्षेत्रवैरक्षितिश-
प्रतिजनितविभूतिः स्यात्पशुक्षेत्रलाभः |
सहजतनयवैरं दुर्जनस्त्रीषुसक्ति-
दर्हनरुधिरपित्तव्याधिरर्थोपहानिः || २०||

फलदीपिका 19.21

असुरवरदशायां दुःस्वभावोऽथवा स्या-
दतिगहनगदार्तिः सूनुनार्योर्विनाशः |
विषभयमरिपीडावीक्षणोद्धर्वाङ्गीरोगः
सुहृदि कृषविरोधो भूपतेर्द्वेषलाभः || २१||

फलदीपिका 19.22

अमरगुरुदशायामम्बराद्यर्थसिद्धिः
परिजनपरिवारप्रौढिरत्यर्थमानः |
सुतधनसुहृदाप्तिः साधुवादाप्तपूजा
भवति गुरुवियोगः कर्णरोगः कफार्तिः || २२||

फलदीपिका 19.23

रवितनयदशायां राष्टपीडाप्रहार-
प्रतिजनितविभूतिः प्रेष्यवृद्धाङ्गनाप्तिः |
पशुमहिषवृषाप्तिः पुत्रदारप्रपीडा
पवनकफगुदार्तिः पादहस्ताङ्गतापः || २३||

फलदीपिका 19.24

शशितनयदशायां शश्वदाचार्यसिद्धि-
र्द्विजजनितधनाप्तिः क्षेत्रेगोवाजिलाभः |
मनवरसुरपूजा वित्तसंधातसिद्धिः
प्रभवति मरुदुष्णश्लेष्मरोगप्रपीडा || २४||

फलदीपिका 19.25

शिखिजनितदशायां शोकमोहोऽङ्गनाभिः
प्रभुजनपरिपीडा वित्तनाशोऽपराधः |
प्रभवति तनुभाजां स्वीयदेशा-
दृशनचरणरोगः श्लेष्मन्तापनं च || २५||

फलदीपिका 19.26

भृगुतनयदशायामङ्गनारत्नवस्त्र-
द्यतिमिधिधनभूषावाजिशय्यासनाप्तिः |
क्रयकृषिजलयानप्राप्तवित्तागमो वा
भवति गुरुवियोगो बान्धवातिर्मनोरुक् || २६||

← पिछला अध्याय अगला अध्याय →

पाठ का स्रोत और उपयोग अधिकार

संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11

विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।

CC BY-SA 4.0

अध्याय 19 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%8F%E0%A4%95%E0%A5%8B%E0%A4%A8%E0%A4%B5%E0%A4%BF%E0%A4%82%E0%A4%B6%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%A6%E0%A4%B6%E0%A4%BE%E0%A4%AB%E0%A4%B2%E0%A4%AE%E0%A5%8D)&oldid=73769