Astrological HarshAuthor · Teacher · Researcher
अध्ययन · संस्कृत · शास्त्रीय संदर्भSTUDY · SANSKRIT · CLASSICAL REFERENCES

फलदीपिका · अध्याय 8 · अष्टमोऽध्यायः (भावाश्रयफलम्)

शास्त्रीय ग्रंथ केन्द्र / फलदीपिका

28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।

मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।

फलदीपिका 8.1

लग्नेऽर्केऽल्पकचः क्रियालसतमः क्रोधी प्रचण्डोन्नतो
मानी लोचनरूक्षचः कृशतनुः शूरोऽक्षमो निर्घृणः।
स्फोटाक्षः शशिभे क्रिये सतिमिरः सिंहे निशान्धः पुमन्
दरिद्र्योपहतो विनष्टतनयो जांतस्तुलायं भवेत्॥ १॥

फलदीपिका 8.2

विगतविद्या विनयवित्तं स्खलितवाचं धनगतः
सबलशौर्य श्रियमुदारं स्वजनशत्रुं सहजगः।
जनयतीमं सुहृदि सूर्यो विसुखबन्धुक्षितिसुहृद्
भवनसुक्तं नृपतिसेवा जनकसंपद्व्ययकरम्॥ २॥

फलदीपिका 8.3

सुखधनायुस्तनयहीनं सुमतिमात्मन्यटविगं
प्रथितमुर्वीपतिमरिस्थः सुगुणसंपद्विजयगम्।
नृपविरुद्धं कुतनुमस्तेऽध्वगमदारं ह्यवमतं
हतधनायुः सुहृदमर्को विगतदृष्टि निधनगः॥ ३॥

फलदीपिका 8.4

विजनकोऽर्के सौतबन्धुस्तपसि देवद्विजमनाः
ससुतयानस्तुतिमतिश्रीबलयशाः खे क्षितिपतिः।
भवगतेऽर्के बहुधनायुर्विगतशोको जनपतिः
पितुरमित्रं विकलनेत्रो विधनपुत्रो व्ययगते॥ ४॥

फलदीपिका 8.5

सिते चन्द्रे लग्ने दृढतनुरदभ्रायुरभयो
बलिष्ठो लक्ष्मीवान् भवति विपरीतं क्षयगते।
धनाढयोऽन्तर्वाणिर्विषयसुखवान् वाचि विकलः
सहोत्ये सभ्रातृप्रमदबलशौर्योऽतिकृपणः॥ ५॥

फलदीपिका 8.6

सुखी भोगी त्यागी सुहृदि ससुहृद्वाहनयशाः
सुपुत्रो मेधावी मृदुगतिरमात्यः सुतगते।
क्षतेऽल्पायुश्चन्द्रेऽमतिरुदररोगी परिभवी
स्मरे दृष्टेः सौम्यो वरयुवतिकान्तोऽतिसुभगः॥ ६॥

फलदीपिका 8.7

मृतौ रोग्यल्पायुस्तपसि शुभधर्मात्मसुतवान्
जयी सिद्दारम्भो नभसि शुभकृत्सत्प्रियकरः।
मनस्वी बह्वायुर्धनतनयभृत्यैः सह भवे
व्यये द्वेष्यो दुह्खी शशिनि परिभूतोऽलसतमः॥ ७॥

फलदीपिका 8.8

क्षततनुरतिक्रूरोऽल्पायुस्तनौ धनसाहसी
वचसि विमुखो निर्विद्यार्थः कुजे कुजनाश्रितः।
सुगुणधनवाञ्छूरोऽधृष्यः सुखी व्यनुजोऽनुजे
सुहृदि विसुहृन्मतृक्षोणीसुखालयवाहनः॥ ८॥

फलदीपिका 8.9

विसुखतनयोऽनर्थप्रायः सुते पिशुनोऽल्पधीः
प्रबलमदनः श्रीमान् ख्यातो रिपौ विजयी नृपः।
अनुचितकरो रोगार्तोऽस्तेध्वगो नृतदारवान्
कुतनुरधनोऽल्पायुश्छिद्रे कुजे जननिन्दितः॥ ९॥

फलदीपिका 8.10

नृपसुहृदपि द्वेष्योऽतातः शुभ जनघतको
नभसि नृपति क्रूरो दाता प्रधानजनस्तुतः।
धनसुखयुतोऽशोकः शूरो भवे सुशीलः कुजे
नयनविकृतः क्रूरोऽदारो व्यये पिशुनोऽधमः॥ १०॥

फलदीपिका 8.11

दीर्घयुर्जन्मनि ज्ञे मधुरचतुरवाक् सर्वशास्त्रार्थबोधः
स्याद्बुद्ध्योपार्जितस्वः कविरमलवचा वाचि मिष्टान्नभोक्ता
शौर्ये शूरः समायुः सुसहजसहिनः सश्रमो दैन्ययुक्तः
संख्यावण् चाटुवाक्यः सुहृदि सुक्रसुहृत्क्षेत्रधान्यार्थभोगी॥ ११॥

फलदीपिका 8.12

विद्यासौख्यप्रतापः प्रचुरसुतयुतो मान्त्रिकः पञ्चमस्थे
जातक्रोधो विवादिर्द्वीषि रिपुबलहन्तालसो निष्ठुरोक्तिः।
प्राज्ञोऽस्ते चारुवेषः ससकलमहिमा याति भार्यां सवित्तां
विख्याताख्यश्चिरायुः कुलभृदधिपतिर्ज्ञेऽष्टम दण्दनेता॥ १२॥

फलदीपिका 8.13

विद्यार्थाचारधर्मैः सह तपसि बुधे स्यात्प्रवीणोऽतिवाग्मी
सिद्धारम्भः सुविद्याबलमतिसुखसत्कर्मसत्यान्वितः खे।
बह्वायुः सत्यसन्धो विपुलधनसुखी लाभगे भृत्ययुक्तो
दीनो विद्याविहीनः परिभव सहितोऽन्त्ये नृशंसोऽलसश्च॥ १३॥

फलदीपिका 8.14

शोभावान् सुकृती चिरायुरभयो लग्ने सुरौ सात्मजो
वाग्मी भोजनसारवांश्च सुमुखो विते धनी कोविदः
सावज्ञः कृपणः प्रतीतसहजः शौर्येऽघकृद्दुष्टधी-
र्बन्धौ मतृसुहृत्परिच्छदसुतस्त्रीसौख्यधान्यान्वितः॥ १४॥

फलदीपिका 8.15

पुत्रैः क्लेशयुतो महीशसचिवो धीमान् सुतस्थे गुरौ
षष्ठे स्यादलसोऽरिहा परिभवी मन्त्राभिचारे पदुः।
सत्पत्नीसुतवान्मदेऽतिसुभगस्तातादुदारोऽधिको
दीनो जीवति सेवया कलुषभग्दीर्घयुरिज्येऽष्टमे॥ १५॥

फलदीपिका 8.16

ख्यातः सन् सचिवः शुभेऽर्थसुतवान् स्याद्धर्मकार्योत्सुकः
स्वाचारः सुयशा नभस्यतिधनी जिवे महीशप्रियः।
आयस्थे धनिकोऽभयोऽल्पतनयो जैवातृको यानगो
द्वेष्यो धिक्कृतवाग्व्यये वितनयः साधोऽलसः सेवकः॥ १६॥

फलदीपिका 8.17

तनौ सुतनुदृक्प्रियं सुखिनमेव दीर्घयुषं
करोति कविरर्थगः कविमनेकवित्तान्वितम्।
विदारसुखसम्पदं कृपणमप्रियं विक्रमे
सुवाहनसुमन्दिराभरण वस्त्रगन्धं सुखे॥ १७॥

फलदीपिका 8.18

अखण्डितधनं नृपं सुमतिमात्मजे सात्मजं
विशत्रुमधनं क्षेते युवतिदूषितं विक्लवं।
सुभार्यमसतीरतं नृतकलत्रमाढ्यं मदे
चिरायुषमिलाधिपं धनिनमष्टमे संस्थितः॥ १८॥

फलदीपिका 8.19

सदारसुहृदात्मजं क्षितिपलब्धभाग्यं शुभे
नभस्यतियशः सुहृत्सुखितवृत्तियुक्तं प्रभुम्
धनाढ्यमितराङ्गनारतमनेकसौख्या भवे
भृगुर्जनयति व्यये सरतिसौख्यवित्तद्युतिम्॥ १९॥

फलदीपिका 8.20

स्वोच्चे स्वकीयभवने क्षितिपालतुल्यो
लग्नेऽर्कजे भवति देशपुराधिनाथः।
शेषेषु दुखपरिपीडित एव बाल्ये
दारिद्र्यदुःखवशगो मलिनोऽलसश्च॥ २०॥

फलदीपिका 8.21

विमुखमधनमर्थेऽन्यायवन्तं च पश्चा
दितरजनपदस्थं यानभोगार्थयुक्तम्।
विपुलमतिमुदारं दारसौख्यं च शौर्ये
जनयति रविपुत्रश्चालसं विक्लवं च॥ २१॥

फलदीपिका 8.22

दुःखी स्याद्गृहयानमातृवियुतो बाल्ये सरुग्बन्धुभे
भ्रान्तो ज्ञानसुतार्थहर्षरहितो धीस्थे शटो दुर्मतिः।
बह्वाशी द्रविणान्वितो रिपुहतो धृष्टश्च मानी रिपो
कामस्थे रविजे कुदारनिरतो निःस्बोऽध्वगो विह्वलः॥ २२॥

फलदीपिका 8.23

श्रवैश्चरे मृतिस्थिते मलीमसोऽशंसोऽवसुः।
करालधीर्बुभुक्षितः सुहृञ्जनवमानितः॥ २३॥

फलदीपिका 8.24

भाग्यार्थत्मजतातधर्मरहितो मन्दे शुभे दुर्जनो
मन्त्री वा नृपतिर्धनी कृषिपरः शूरः प्रसिद्धोऽम्बरे
बह्वायुः स्थिरसंपदायसहितः शूरो विरोगो धनी
निर्लज्जार्थसुतो व्ययेऽङ्गविकलो मूर्खो रिपूत्सारितः॥ २४॥

फलदीपिका 8.25

लग्नेऽहावचिरायुरर्थबलावानूर्ध्वङ्गरोगान्वित-
श्छन्नोक्तिर्मुखरुग्घृणी नृपधनी वित्ते सरोषः सुखी।
मानी भ्रातृविरोधको दृढमतिः शौर्ये चिरायुर्धनी
मूर्खो वेश्मनि दुःखकृत्ससुहृदल्पायुः कदाचित्सुखी॥ २५॥

फलदीपिका 8.26

नासोद्यद्वचनोऽसुतः कठिनहृद्राहौ सुते कुक्षिरु-
ग्द्विट्क्रूरग्रहपीडितः सगुदरुपछ्रीमांश्चिरायुः क्षते।
स्त्रीसंगादधनो मदेऽथ विधुरोऽवीर्यः स्वतन्त्रोऽल्पधी-
रन्ध्रेऽल्पायुरशुद्धिकृच्च विकलो वातामयोऽल्पात्मजः॥ २६॥

फलदीपिका 8.27

धर्मस्थे प्रतिकूलवाग्गणपुरग्रामाधिपोऽपुण्यवान्
ख्यातः खेऽल्पसुतोऽन्यकार्यनिरतः सत्कर्महीनोऽभयः।
श्रीमान्नातिसुतश्चिरायुरसुरे लभे सकर्णामयः
प्रच्छन्नाघरतो बहुव्ययकरो रिःफेऽम्बुरुक्पीडितः॥ २७॥

फलदीपिका 8.28

लग्ने कृतघ्नमसुखं पिशुनं विवणं
स्थानच्युतं विकलदेहमसत्समाजम्।
विद्यार्थहीनमधमोक्तियुतं कुदृष्टिं
पातः परान्ननिरतं कुरुते धनस्थः॥ २८॥

फलदीपिका 8.29

आयुर्बलं धनयशा प्रमदान्नसौख्यं
केतौ तृतियभवने सहजप्रणाशम्
भूक्षेत्रयानजननीसुखजन्मभूमि-
नाशं सुखे परगृहस्थितिमेव दत्ते॥ २९॥

फलदीपिका 8.30

पुत्रक्षयं जठररोगपिशाचपीडां
दुर्बुद्धिमात्मनि खलप्रकृतिं च पातः।
औदार्यमुत्तमगुणं दृढतां प्रसिद्धिं
षष्ठे प्रभुत्वमरिमदर्नमिष्टसिद्धिम्॥ ३०॥

फलदीपिका 8.31

द्यूनेऽवमानमसतीरतिमान्त्ररोगं
पातः स्वदारवियुतिं मदधातुहानिम्
स्वल्पायुरिष्टविरहं कलहं च रन्ध्रे
शस्त्रक्षतं सकलकार्यविरोधमेव॥ ३१॥

फलदीपिका 8.32

पापप्रवृत्तमशुभं पितृभाग्यहीनं
दारिद्रयमार्यजनदूषणमाह धर्मे।
सत्कर्मविघ्नमशुचित्वमवद्यकृत्यं
तेजस्विनं नभसि शौर्यमतिप्रसिद्धिम्॥ ३२॥

फलदीपिका 8.33

लाभेऽर्थसंचयमनेकगुणं सुभोगं
सद्द्रव्यसोपकरणं सकलार्थसिद्धिम्।
प्रच्छन्नपापमधमव्ययमर्थनाशं
रिःफे विरुद्धगतिमक्षिरुजं च पातः॥ ३३॥

फलदीपिका 8.34

उदयर्क्षशस्फुटतुल्यांशे निवसन् पूर्णं फलमाधत्ते
शनिवद्राहुः कुजवत्केतुः फलदाता स्यादिह संप्रोक्तः॥ ३४॥

फलदीपिका 8.35

भावसमांशकसंस्था भावफलं पूर्णमेव कलयन्ति।
न्यूनाधिकांशवशतः फलवृद्धिह्लसिता वाच्या॥ ३५॥

← पिछला अध्याय अगला अध्याय →

पाठ का स्रोत और उपयोग अधिकार

संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11

विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।

CC BY-SA 4.0

अध्याय 8 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%85%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%AE%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%BE%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A4%AB%E0%A4%B2%E0%A4%AE%E0%A5%8D)&oldid=72621