Astrological HarshAuthor · Teacher · Researcher
अध्ययन · संस्कृत · शास्त्रीय संदर्भSTUDY · SANSKRIT · CLASSICAL REFERENCES

फलदीपिका · अध्याय 4 · चतुर्थोऽध्यायः (ग्रह बलम्)

शास्त्रीय ग्रंथ केन्द्र / फलदीपिका

28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।

मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।

फलदीपिका 4.1

वीर्यं शड्विधमाह कालजबलं चेअबलं स्वोच्चजं
दिग्विर्यं त्वयनोद्भवं दिविषदां स्थानोद्भवं च क्रमात् |
निश्यारेन्दुसिताः परे दिवि सदा ज्ञः शुक्लपक्षे शुभाः
कृष्णेऽन्ये च निजाब्दमासदिनहोरास्वङ्ध्रिवृधद्ध्या क्रमात् || १||

फलदीपिका 4.2

राकाचन्द्रस्य चेआबलमुदगयते भास्वतो वक्रगानां
युद्धे चोदक्स्थितानां स्फुटबहुलरुचां स्वोच्चवीर्यं स्वतुङ्गे |
दिग्वीर्यं खेऽर्कभौमौ सुहृदि शशिसितौ विद्गुरू लग्नगौ
चेन्मन्देऽस्ते याम्यमार्गे बुधशनिशशिनोऽन्येऽयनाख्ये परस्मिन् || २||

फलदीपिका 4.3

स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः षट्सु स्ववर्गेषु वा
प्रोक्तं स्थानबलं चतुअयमुखात्पूर्णार्द्धपादाः क्रमात् |
मध्याद्यन्तकषण्डमर्त्यवनिताः खेटा बलिआः क्रमात्
मन्दारज्ञगुरूशनोब्जरवयो नैजे बले वर्द्धनाः || ३||

फलदीपिका 4.4

वक्रं गतो रुचिररश्मिमसमहपूर्णो
नीचारिभांशसहितोऽपि भवेत्स खेटः |
वीर्यानिवतस्तुहिनरश्मिरिवोच्चमित्र-
स्वक्षेत्रगोऽपि विबलो हतदीधितिश्चेत् || ४||

फलदीपिका 4.5

तुङ्गस्था बलिनोऽखिलाश्च शशिनः श्लाघ्यं हि पक्षोद्भवं
भानोर्दिग्बलमाह वक्रगमने तराग्रहाणां बलम् |
कर्क्युक्षाजघटालिगोहिरबलान्त्योक्षाश्विपाश्चात्यगः
केतुस्तत्परिवेषधन्वसु बली चेन्द्वर्कयोगो निशि || ५||

फलदीपिका 4.6

रूपं मानुषभेऽलिभेऽङ्ध्रेरपरेष्वर्द्धं बलं स्यात्तनोः
तुल्यं स्वामिबलेन चोपचयगे नाथेऽतिवीर्योत्कटम् |
स्वामीड्यज्ञयुतेक्षिते कवियुते चान्यैरयुक्तेक्षिते
शर्वर्यांन्निशि राशयोऽहनि परे वीर्यान्विताः कीर्तीताः || ६||

फलदीपिका 4.7

स्वोच्चे पूर्णं स्वत्रिकोणे त्रिपादं स्वक्षेत्रऽर्द्धं मित्रभे पाद्दमव |
द्विट्क्षेत्रेऽल्पं नीचगेऽस्तं गतेऽपि क्षेत्रं वीर्यं निष्फलं स्याद् ग्रहानाम् || ७||

फलदीपिका 4.8

केन्द्रे ग्रहाणामुदितं बलं यत्सुखे भवस्यस्तगृहे विलग्ने |
उपर्युपर्युक्तपदक्रमेण बलाभिवृद्धि हि विकल्पयन्ति || ८||

फलदीपिका 4.9

श्रेष्ठेति सा सप्तमदृष्टिरेव सर्वत्र वाच्या न तथाऽन्यदृष्टिः |
योगादिषु न्यूनफलप्रदेति विशेषदृष्टिर्न तु कैश्चिदुक्ता || ९||

फलदीपिका 4.10

नैसर्गिगं शत्रुसुहृत्त्वमेव भवेत्प्रमाणं फलकारि सम्यक् |
तात्कालिकं कार्यवशेन वाच्यं तच्छत्रुमित्रत्वमनित्यमेव || १०||

फलदीपिका 4.11

निःशेषदोषहरणे शुभवर्द्धने च
वीर्यं गुरोरधिकमस्त्यखिलग्रहेभ्यः |
तद्वीर्यपाददलशक्तिभृतौ ज्ञशुक्रौ
चान्द्रं बलं तु निखिलग्रहवीर्यबीजम् || ११||

फलदीपिका 4.12

चन्द्रक्रियादि
जन्मर्क्षविघती नीतैर्ज्ञानाङ्गैर्ननयैर्भजेत् |
लब्धाश्चन्द्रक्रियावस्थावेलाख्याम्स्तन्फलं क्रमात् || १२||

फलदीपिका 4.13

चन्द्रक्रिया फल
स्थानाद्भ्रास्तप्स्वी परयुवतिरतो द्यूतकृद्धस्तिमुख्या-
रूढः सिंहासनस्थो नरपतिररिहा दण्डनेता गुणी च |
निष्प्रानश्छिन्नमूर्द्धा क्षतकरचरणो बन्धनस्थो विनष्टो
राजा वेदानधीते स्वपिति सुचरितः संस्मृतो धर्मकर्ता || १३||

फलदीपिका 4.14

सद्वंश्यो निधिसंगतः श्रुतकुलो व्याख्यापरः शत्रुहा
रोगी शत्रुजितः स्वदेशचलितो भृत्यो विनष्टार्थकः |
अस्थानी च सुमन्त्रकः परमहीभर्ता सभार्यो गज-
त्रस्तः संयुगभीतिमानतिभयो लीनोन्नदाताग्निगः || १४||

फलदीपिका 4.15

क्षुद्बाधासहितोऽन्नमत्ति विचरन्मांसानोऽस्त्रक्षतः
सोद्वाहो धृतकन्दुको विहरति द्यूतैर्नृपो दुःखितः |
शयास्थो रिपुसेवितश्च ससुहृद्योगी च भार्यान्वितो
मिष्टाही च पयः पिबन् सुकृतकृत् स्वस्थस्तथास्ते सुखम् || १५||

फलदीपिका 4.16

चन्द्र- अवस्था फल
आत्मस्थानात्प्रवासो महितनृपहितो दासता प्राणहानि-
र्भूपालत्वं स्ववंशोचितगुणनिरतो रोग आस्थानवत्त्वम् |
भीतिः क्षुद्बाधितत्वं युवतिपरिणयो स्म्यशय्यानुषाक्ति
मृर्ष्टाशित्वं च गीता इति नियमवशात्सद्भिरिन्दोरवस्था || १६||

फलदीपिका 4.17

चन्द्रवेला- फल
मूर्द्धमयो मुदितता यजनं सुखस्थो
नेत्रमयः सुखितता वनिताविहरः |
उग्रज्वरः कनकभूषणमश्रुमोक्षः
क्ष्वेला नं निधुवनं जठरस्य रोगः || १७||

फलदीपिका 4.18

क्रीडा जले हसनचित्रविलेखने च
क्रोडश्च नृत्तकरणं घृतभुक्तिनिद्रे |
दानक्रिया दशनरुक् कलहः प्रयाण-
मुन्मत्तता च सलिलाप्लवनं विरोधः || १८||

फलदीपिका 4.19

स्वोच्छास्नानं क्षुद्भयं शास्त्रलाभं स्वैर गोष्ठी योधनं पुन्यकर्म |
पापा चारः क्रूरकर्मा प्रहर्षं प्राज्ञैरेवं चन्द्रवेला प्रदिष्टा || १९||

फलदीपिका 4.20

जातके च मुहूर्ते च प्रश्ने चन्द्रक्रियादयः |
सम्यक् फलप्रदास्तस्माद्विशेषेण विचिन्तयेत् || २०||

फलदीपिका 4.21

ओअक्षोद्भवं हिमकरस्य विशेष्शमाहुः
स्थानोद्भवं तु बलमप्यधिक्रं परेषां |
तत्संप्रयुक्तमितरैरधिकाधिकं स्या-
दन्यानि तेन सदृशानि बहूनि ते स्युः || २१||

फलदीपिका 4.22

बलपिंड
सार्द्धानि षशतीक्ष्णकरो बलीयान् चन्द्रस्तु षशपञ्च वसुन्धराजः
सप्तेन्दुसूनो रविवद्गुरोस्तु सार्द्धानि पञ्चाथ सितो बली स्यात् || २२||

फलदीपिका 4.23

मन्दस्तु पञ्चैव हि षड्बलानां संयोग एवापरथान्यथा स्युः |
एवं ग्रहाणां स्वबलाबलानि विचिन्त्य सम्यक्कथयेत्फलानि || २३||

फलदीपिका 4.24

लग्नादिकानामधिपस्य पिण्डे रूपान्विते तद्बलपिण्डमाहुः |
गृहस्य यस्यां दिशादिग्बलं स्यात्तद्भाववीर्य सहितस्य दृष्ट्या || २४||

← पिछला अध्याय अगला अध्याय →

पाठ का स्रोत और उपयोग अधिकार

संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11

विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।

CC BY-SA 4.0

अध्याय 4 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%9A%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9_%E0%A4%AC%E0%A4%B2%E0%A4%AE%E0%A5%8D)&oldid=73758