Astrological HarshAuthor · Teacher · Researcher
अध्ययन · संस्कृत · शास्त्रीय संदर्भSTUDY · SANSKRIT · CLASSICAL REFERENCES

फलदीपिका · अध्याय 3 · तृतीयोऽध्यायः (वर्ग-विभागः)

शास्त्रीय ग्रंथ केन्द्र / फलदीपिका

28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।

मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।

फलदीपिका 3.2

वर्ग- विभाग
क्षेत्रत्रिभागनवभागदशांशहोरात्रिंशंशसप्तलवषष्टिलवाः कलांशाः |
ते द्वादशांशसहिता दशवर्गसंज्ञा वर्गोत्तमो निजनिजे भवने नवांशः ||
दशांशषष्ट्यंशकलांशहीनास्ते सप्तवर्गाश्च विसप्तमांशाः
षड्वर्गसंज्ञास्त्वथ राशिभावतुल्यं नवांशस्य फलं हि केचित् || २||

फलदीपिका 3.3

क्षेत्रेषु पूर्णमुदितं फलमन्यवर्गे-
ष्वर्द्धं कलादशमषष्टिलवेषु पादम् |
बालः कुमारतरुणौ प्रवया मृतः षड्
भागः क्रमाद्युजि विपर्ययमित्यवस्थाः || ३||

फलदीपिका 3.4

क्षेत्रस्यार्द्धं हि होरा त्वयुजि रविसुधांश्वोः समे व्यस्तमेतद्
द्रेष्काणेशास्त्रिभागैस्तनुसुतशुभपा द्वादशांशस्तु लग्नात् |
भौमार्कीड्यज्ञशुक्राः शिशुजसमलवा ह्योजभे युग्मभे तद्-
व्यस्तं त्रिंशांशनाथाः क्रियमकरतुलाः कर्कटाद्या नवांशाः || ४||

फलदीपिका 3.5

यज्ञं रत्न जनं धनं नय पटं रूपं शुकं चिटिना
नागं योग खगं बलं भग शिला धूलिर्नवं प्रस्वनम् |
लाभं विश्व दिवं रम धमं षष्ट्यंशकाश्चौजभे
क्रूराख्याः समभे विपर्ययमिदं शेषास्तु सौम्याह्वयाः || ५||

फलदीपिका 3.6

स्वात् सप्तांशदशांशकौ तु विषमे तु कामाच्छुभात्
स्वादीशाश्च कलांशपा विधिहरीशार्कः समर्क्षेऽन्यथा |
ख्यातैः कोणयुतैस्त्रिकोणभवनस्वर्क्षोच्चकेन्द्रोत्तमै-
र्वर्गाः सप्त दश त्रयोदशमिता वर्गाः प्रदिष्टाः परैः || ६||

फलदीपिका 3.7

वर्गान्योजयतु त्रयोदश सुहृत्स्वर्क्षोच्चभेषु क्रमाद्-
द्विस्त्रिः पञ्च चतुर्नाद्रिवसुषट्संख्यासु वर्गैक्यतः |
प्राहुश्चोत्तमपारिजातकथितौ सिंहासनं गोपुरं
चेत्यय्रावतदेवलोकसुरलोकांशांश्च पारावतम् || ७||

फलदीपिका 3.8

आर्यनिल्पगुणार्थसौख्यविभवान्यः पारिजातांशकः
स्वाचारं विनयान्वितं निपुणं यद्युत्तमांशे स्थितः |
खेतो गोपुरभागगः शुभमतिं स्वक्षेत्रगो मन्दिरं
यः सिंहासनगो नृपेन्द्रदयितं भूपालपुल्यं नरम् || ८||

फलदीपिका 3.9

श्रेष्ठाश्वद्विपवाहनादि विभवं पारावताधिष्ठितः
सत्कीर्तिं यदि देवलोकसहितो भूमण्डलाधीश्वरम् |
वन्द्यं भूपतिभिः सुरेन्द्रसदृशं त्वैरावतांशास्थितः
सद्भाग्यं धनधान्यपुत्रसहितं भूपं विदध्याद् ग्रहः || ९||

फलदीपिका 3.10

यद्वर्गेष्वखिलेषु मृत्युरबलेष्वत्राथ वक्ष्ये क्रमा-
न्नाशं दुःखमनर्थतां च विसुखं बन्धुप्रियं तद्वरम् |
भूपेष्टं धनिनं नृपं नृपवरं वर्गे बलिष्ठेऽखिले
वधिष्णुं सुखिनं नृपं गदमृती बालाद्यवस्थाफलम् || १०||

फलदीपिका 3.11

षड्वर्गेषु शुभग्रहाधिकगुणैः श्रीमांश्चिरं जीवति
क्रूरांशे बहुले विलग्नभवने दीनोऽल्पजीवः शठः |
तन्नाथा बलिनो नृपोऽस्त्यथ नवांशेशो दृगाणेश्वरो
लग्नेशः क्रमशः सुखी नृपसमः क्षोणिपतिर्भग्यवान् || ११||

फलदीपिका 3.12

ओजे क्रूरेऽर्कहोरां गतवति बलवान् क्रूरवृत्तिर्धनाढ्यो
युग्मे चान्द्रींशुभेषु द्युतिविनयवचोहृद्यसौभाग्ययुक्तः |
व्यस्तं व्यस्तेऽत्र मिश्रे समफलमुदितं लग्नचन्द्रौ बलिष्ठौ
तन्नाथौ द्वौ च तद्वद्यदि भवति चिरंजीव्यदुःखी यशस्वी || १२||

फलदीपिका 3.13

सिंहाजाश्वितुलानृयुग्मभवनेष्वन्त्या हयाजादिमाः
मध्यौ स्त्रीयमयोरिहायुधभृतः पाशोलिमध्यो भवेत् |
नक्राद्यो निगलो मृगेन्द्रघटयोराद्यो वणिङ्मःध्यमो
गृध्रास्यो वृषभान्तिमश्च विहगः कर्क्यादि कोलाननम् || १३||

फलदीपिका 3.14

कौर्प्यद्यः कर्कटान्त्यो भूषचरममहिश्चाजगोमध्यसिंहा-
द्यल्यन्त्यं स्याच्चतुष्पादिह फलमधनक्रूरनिन्द्या दरिद्राः |
द्वन्द्वर्क्षे स्युर्दृगाणैरधमसमशुभान्यस्थिरे चोत्क्रमेण
प्राहुस्तज्ज्ञाः स्थिरर्क्षेष्वशुभशुभसमान्येव लग्ने फलानि || १४||

फलदीपिका 3.15

द्रेक्काणेशे स्ववर्गे शुभखगसहिते स्वोच्चमित्रर्क्षगे वा
तद्व त्रिंशांशनाथे बलवति यदि चेद् द्वादशांशाधिपे वा
होरानाथे तथा चेन्निखिलगुणगणो नित्यशुद्धप्रवीणो
दीर्घायुः स्याद्दयावान् सुतधनसहितः कीर्तिमान्राजभोगः || १५||

फलदीपिका 3.16

मान्दिस्थराशिपतिसङ्गतसुत्रिकोणं
तस्यांशराशिपतिसंयुतमंशकोणम् |
लग्नं वदन्ति गुलिकांशकराशिकोणं
तद्वद्विधौ बलयुते शशिनैव विद्यात् || १६||

फलदीपिका 3.17

कुर्यादात्मसुहृद्दृगाणगशशी कल्याणरूपं गुणं
श्रेयांस्युत्तमवर्गजस्त्वपरगस्तन्नाथजातान् गुणान् |
स्वत्रिंशांशगता ग्रहा विदधते तत्कारकत्वोदितं
तत्रैकोऽपि सुहृद्ग्रहेक्षितयुतः स्वोच्चेऽर्थयुक्तं नृपम् || १७||

फलदीपिका 3.18

स्वोच्चे प्रदीप्तः सुखितस्त्रिकोणे स्वस्थः स्वगेहे मुदितः सुहृभे |
शान्तस्तु सौम्यग्रहवर्गयुक्तः शक्तो मतोऽसौ स्फुटरशिमजालः || १८||

फलदीपिका 3.19

ग्रहाभिभूतः स निपीडितः स्यात् खलस्तु पापग्रहवर्गयातः |
सुदुःखितः शत्रुगृहे ग्रहेन्द्रो नीचेऽतिभीतो विकलोऽस्तयातः || १९||

फलदीपिका 3.20

पूर्णं प्रदीप्ता विकलास्तु शून्यं मध्येऽनुपाताच्च शुभं क्रमेण |
अनुक्रमेणाशुभमेव कुर्युर्नामानुरूपाणि फलानि तेषाम् || २०||

← पिछला अध्याय अगला अध्याय →

पाठ का स्रोत और उपयोग अधिकार

संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11

विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।

CC BY-SA 4.0

अध्याय 3 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%97-%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83)&oldid=73759