Astrological HarshAuthor · Teacher · Researcher
अध्ययन · संस्कृत · शास्त्रीय संदर्भSTUDY · SANSKRIT · CLASSICAL REFERENCES

फलदीपिका · अध्याय 2 · द्वितीयोऽध्यायः (ग्रहभेदः)

शास्त्रीय ग्रंथ केन्द्र / फलदीपिका

28 अध्यायों की सूची; 27 अध्यायों का पाठ उपलब्ध। अध्याय 25 का स्रोत गलत होने से उसका पाठ रोका गया है। यह अभी पूर्ण फलदीपिका नहीं है।

मूल मुद्रित संस्करण से पूर्ण प्रूफरीड शेष है। OCR/टाइपिंग त्रुटियाँ और संस्करणों के पाठभेद संभव हैं। अनुवाद जहाँ उपलब्ध है वहीं दिखता है। मशीन अनुवाद का मसौदा और संपादक द्वारा जाँचा अनुवाद अलग चिह्नित हैं।

फलदीपिका 2.1

द्वितीयोऽध्यायः
             ग्रह भेद
ताम्रं स्वर्णं पितृशुभफलं चात्मसौख्यप्रतापं
धैर्यं शौर्यं समितिविजयं राजसेवं प्रकाशम् |
शौवं कार्यं वनगिरिगतिं होमकार्यप्रवृत्तिं
देवस्थानं कथयतु बुधस्तैक्ष्ण्यमुत्साहमर्कात् || १||

फलदीपिका 2.2

मातुः स्वस्ति मनःप्रसादमुदधिस्नानं सितं चामरं
छत्रं सुव्यजनं फलानि मृदुलं पुष्पाणि सस्यं कृषिम् |
कीर्तिं मौक्तिककांस्यरौप्यमधुरक्षीरादिवस्त्राम्बुगो-
योषाप्तिं सुखभोजनं तनुसुखं रूपं वदेच्चन्द्रतः || २||

फलदीपिका 2.3

सत्त्वं भूफलनं सहोदरगुणं क्रौर्यं रणं साहसं
विद्वेषं च महानसाग्निकज्ञात्यस्त्रचोरान्रिपून् |
उत्साहं परकामिनीरतिमसत्योक्तिं महोजाद्वदे-
द्वीर्यं चित्तसमुन्नतिं च कलुषं सेनाधिपत्यं क्षतम् || ३||

फलदीपिका 2.4

पान्डित्यं सुवचः कलातिपुणतां विद्वत्स्तुतिं मातुलं
वाक्चातुर्यमुपासनादिपटुतां विद्यासु युक्तिं मतिम् |
यज्ञं वैष्णवकर्म सत्यवचनं शुक्तिं विहारस्थलं
शिल्पं बान्धवयौवराज्यसुहृदस्तद्भागिनेयं बुधात् || ४||

फलदीपिका 2.5

ज्ञानं सद्गुणमात्मजं च सचिवं स्वावारमाचार्यकं
माहात्म्यं श्रुतिशास्त्रधीस्मृतिमतिं सर्वोन्नार्तं सद्गतिम् |
देवब्राह्मणभक्तिमध्वरतपःश्रद्धाश्च कोशस्थलं
वैदुष्यं विजितेन्द्रियं धवसुखं संमानमीड्याद्दयाम् || ५||

फलदीपिका 2.6

संपद्वाहनवस्त्रभूषणनिधिद्रव्याणि तौर्यत्रिकं
भार्यसौख्यसुगन्धपुष्पमदनव्यापारशय्यालयाण् |
श्रीमत्त्वं कवितासुखं बहुवधूसङ्गं विलासं मदं
साचिव्यं सरसोक्तिमाह भृगुजाद्वाहकर्मोत्सवम् || ६||

फलदीपिका 2.7

आयुष्यं मरणं भयं पतिततां दुःखावमानामयान्
दारिद्रयं भृतकापवादकलुषाण्याशौचनिन्द्यापदः |
स्थैर्यं नीचजनाश्रयं च महिषं तन्द्रीमृणं चायसं
दासत्वं कृषिसाधनं रविसुतात्कारागृहं बन्धनं || ७||

फलदीपिका 2.8

पित्तास्थिसारोऽल्पकचश्च रक्तश्यामाकृतिः स्यान्मधुपिङ्गलाक्षः |
कौसुभ्भवासाश्चतुरस्रदेहः शूरः प्रचण्डः पृथुबाहुरर्कः || ८||

फलदीपिका 2.9

स्थूलो युवा च स्थविरः सितः कान्तेक्षणश्चासितसूक्ष्ममूर्धजः |
रक्तैकसारो मृदुवाक् सितांशुको गौरः शशी वातकफात्मको मृदुः || ९||

फलदीपिका 2.10

मध्ये कृशः कुञ्चितदीप्तकेशः क्रूरेक्षणः पैत्तिक उग्रबुद्धिः |
रक्ताम्बरो रक्ततनुर्महीजश्चण्डोऽत्युदारस्तरुणोऽतिमज्जः || १०||

फलदीपिका 2.11

दूर्वलताश्यामतनुस्त्रिधातुमिश्रः सिरावान्मधुरोक्तियुक्तः |
रक्तायताक्षो हरितंशुकस्त्वक्सारो बुधो हास्यरुचिः समङ्गः || ११||

फलदीपिका 2.12

पीतद्युतिः पिङ्गकचेक्षणः स्यात् पीनोन्नतोराश्च बृहच्छरीरः |
कफात्मकः श्रेष्ठमतिः सुरेड्यः सिंहाब्जनादश्च वसुप्रधानः || १२||

फलदीपिका 2.13

चित्राम्बराकुञ्चितकृष्णकेशः स्थूलाङ्गदेश्च कफानिलात्मा |
दूर्वङ्कुराभः कमनो विशालनेत्रो भृगुः साधितशुक्लवृद्धिः || १३||

फलदीपिका 2.14

पङ्गुनिम्नविलोचनः कृशतनुदरीर्घः सीरालोअऽलसः
कृष्णाङ्गः पवनात्मकोऽतिपिशुनः स्नाय्वात्मको निर्घृणः |
मूर्खः स्थूलनखद्विजः परुषरोमाङ्गोऽशुचिस्तामसो
रौद्रः क्रोधपरो जरापरिणतः कृष्णाम्बरो भास्करिः || १४||

फलदीपिका 2.15

शौवं धाम बहिःप्रकाशकमरुद्देशो रवेः पूर्वदिक्
दुर्गास्थनचधूलौषधिमधुस्थानं विधोर्वायुदिक् |
चोरम्लिच्छकृशानुयुद्धभुवि दिग्याम्या कुजस्योदिता
विद्वद्विष्णुसभाविहारगणकस्थानान्युदीचीं विदुः || १५||

फलदीपिका 2.16

कोशाश्वत्थसुरद्विजातिनिलयस्त्वैशानदिग्गीष्पते-
वेर्श्यावीथ्यवरोघनृत्तशयनस्थानं भृगिरग्निदिक् |
नीचश्रेण्यशुचिस्थलं वरुणदिक्छास्तुः शनेरालयो
वल्मीकाहितमोबिलान्यहिशिखिस्थानानि दिग्रक्षसः || १६||

फलदीपिका 2.17

शैवो भिषङ्नृपतिरध्वरकृत्प्रधानी
व्याध्रो मृगो दिनपतेः किल चक्रवाकः
शास्ताङ्गनारजकर्कषकतोयगाः स्यु-
रिन्दोः शशश्च हरिणश्च बकश्चकोरः || १७||

फलदीपिका 2.18

भौमो महानसगतायुधभृत्सुवर्ण-
काराजकुक्कुटशिवाकपिगृध्रचोराः |
गोपज्ञशिल्पगणकोत्त मविष्णुदासा-
स्तार्क्ष्यः किकी दिवीशुकौ शशिजो बडालः || १८||

फलदीपिका 2.19

दैवज्ञमन्त्रिगुरुविप्रयतीशमुख्याः
पारावतः सुरगुरोस्तुरगश्च हंसः |
गानी धनी विटवणिङ्नटतन्तुवाय-
वेश्यामयूरमहिषाश्च भृगोः शुको गौः || १९||

फलदीपिका 2.20

तैलक्रयी भृतकनीचकिरातकाय-
स्काराश्च दन्तिकरटाश्च पिकाः शनेः स्युः |
बौद्धहितुण्डिकखराजवृकोष्ट्रसर्प-
ध्वान्तादयो मशकमत्कुणकृम्युलूकाः || २०||

फलदीपिका 2.21

सौम्यः समोऽर्कजसितावहितौ खरांशो-
रिन्दोहितौ रविबुधावपरे समाः स्युः |
भौमस्य मन्दभृगुजौ तु समौ रिपुर्ज्ञः
सौम्यस्य शीतगुररिः सुहृदौ सितार्कौ || २१||

फलदीपिका 2.22

सूरेद्विषौ कविबुधौ रविजः समः स्या-
न्मध्यौ कवेर्गुरुकुजौ सुहृदौ शनिज्ञौ |
जीवः समः सितविदौ रविजस्य मित्रे
ज्ञेया अनुक्तखचरास्तु तदन्यथा स्युः || २२||

फलदीपिका 2.23

आन्योन्यं त्रिसुखस्वखान्त्यभवगास्तत्कालमित्राण्यमी
टन्नैसर्गिकमप्यवेक्ष्य कथयेत्तस्यातिमित्राहितान् |
शौर्याज्ञे रविजो गुरुर्गुरुसुतौ भौमश्चतुर्थाश्टमौ
पुर्णं पश्यति सप्तमं च सकलास्तेष्वंध्रिवृद्ध्या क्रमात् || २३||

फलदीपिका 2.24

सूर्यादेरयनं क्षणो दिनमृतुर्मासश्च पक्षः शर-
द्विप्रौ शुक्रगुरू रविक्षितिसुतौ चन्द्रो बुधोऽन्त्यः शनिः |
प्राहुः सत्त्वरजस्तमांसि शशिगुर्वर्काः कविज्ञौ परे
ग्रीष्मादर्ककुजौ शशी शशिसुतो जीवः शनिर्भार्गवः || २४||

फलदीपिका 2.25

ताताम्बे रविभार्गवौ दिवि निशि प्राभाकरीन्दू स्मृतौ
तद्व्यस्तेन पितृव्यमातृभगिनीसंज्ञौ तदा तत्क्रमात् |
वामाक्षिन्दुरिनोऽन्यदक्षि कथितो भौमः कनिष्ठानुजो
जीवो ज्येष्ठसहोदरः शशिसुतो दत्तात्मजः सम्ज्ञितः || २५||

फलदीपिका 2.26

देहो देही हिमरुचिरिनस्त्विन्द्रियाष्यारपूर्वा
आदित्यद्विड्गुलिकशिखिनस्तस्य पीडाकराः स्युः |
गन्धः सौम्यो भृगुजशशिनौ द्वौ रसौ सूर्यभौमौ
रूपौ शब्दो गुरुरथ परे स्पर्शसंज्ञाः प्रदिष्टाः || २६||

फलदीपिका 2.27

क्षीणेन्द्वर्ककुजाहिकेतुरविजाः पापाः सपापश्च वित्
क्लीवाः केतुबुधार्कजाः शशितमःशुक्राः स्त्रियोऽन्ये नराः |
रुद्राम्बागुहविष्णुधातृकमलाकालाह्यजा देवताः
सूर्यादग्निजलाग्निभूमिखपयोवाय्वात्मकाः स्युर्ग्रहाः || २७||

फलदीपिका 2.28

गोधूमं तण्डुलं वै तिलचणककुलुत्थाढकश्याममुद्गा
निष्पावा माष अर्केन्द्वसितगुरुशिखिक्रूरविद्भृग्वहीनाम् |
भोगीनार्क्यारजीवज्ञशशिशिखिसितेष्वम्बराख्यं कलिङ्गं
सौराष्ट्रावन्तिसिन्धून्सुमगधयवनान्पर्वतान्कीकटांश्च || २८||

फलदीपिका 2.29

माणिक्यं तरणेः सुधार्यममलं मुक्ताफलं शीतगो-
र्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् |
देवेड्यस्य च पुष्परागमसुरामात्यस्य वज्रं शने-
र्नीलं निर्मलमन्ययोश्च गदिते गोमेधवैदूर्यके || २९||

फलदीपिका 2.30

ताम्रं कांस्यं धातुताम्रं त्रपु स्यात् स्वर्णं रौप्यं चायसं भास्करादेः |
वस्त्रं तत्तद्वर्णयुक्तं विशेषाज्जीर्णं मन्दस्याग्निदगधं कुजस्य || ३०||

फलदीपिका 2.31

भानोः कटुर्भूमिसुतस्य तिक्तं लावण्यमिन्दोरथ चन्द्रजस्य |
मिश्रीकृतं यन्मधुरं गुरोस्तु शुक्रस्य चाम्लं च शनेः कषायः || ३१||

फलदीपिका 2.32

भास्वग्दीष्पतिचन्द्रजक्षितिभुवां स्याद्दक्षिणे लाञ्छनं
शेषाणामितरत्र तिग्मकिरणात्कटयां शिरःपृष्ठयोः |
कक्षेऽसे वदने च सविथचरणे चिह्नं वयांस्यर्कतो
नेमे नाथ तटं नखं नग सनि ज्ञानाड्य नग्नाटनम् || ३२||

फलदीपिका 2.33

नीलद्युतिर्दीर्घतनुः कुवर्णः पामी सपाषण्डमतः सहिक्कः |
असत्यवादी कपटी च राहुः कुष्ठी परान्निन्दति बुद्धीनः || ३३||

फलदीपिका 2.34

रक्तोग्रदृष्टिविषवाग्रदेहः सशस्त्रः पतितश्च केतुः |
धूम्रद्युतिर्धूमप एव नित्यं व्रणाङ्किताङ्गश्च कृशो नृशम्सः || ३४||

फलदीपिका 2.35

सीसं च जीर्णवसनं तमसस्तु केतो-
र्मृद्भाजनं विविधचित्रपटं प्रदिष्टम् |
मित्राणि विच्छनिसितास्तास्तमसोर्द्व्योस्तु
भौमः समो निगदितो रिपवश्च शेषाः || ३५||

फलदीपिका 2.36

मूढोऽपि नीचरिपुगोऽष्टमषड्व्ययस्थो
दुःस्थः स्मृतो भवति सुस्थ इतीतरः स्यात् |
चन्द्रेव्ययायतनुषट्सुतकामसंस्थे
तोयाभिवृद्धिमिह शंसति वृद्धिकार्ये || ३६||

फलदीपिका 2.37

अन्तः सारसमुन्नतद्रुररुणो वल्ली सितेन्दू स्मॄतौ
गुल्मः केतुरहिश्च कण्टकनगौ भौमार्कजौ कीर्तितौ |
वागीशः सफलोऽफलः शशिसुतः क्षीरप्रसूनद्रुमौ
शुकेन्दू विधुरोषधिः शनिरसारागश्च सालद्रुमः || ३७||

← पिछला अध्याय अगला अध्याय →

पाठ का स्रोत और उपयोग अधिकार

संस्कृत विकिस्रोत के योगदानकर्ता · CC BY-SA 4.0 · सुरक्षित प्रति: 2026-10-11

विकिस्रोत से सुरक्षित इलेक्ट्रॉनिक पाठ; मूल मुद्रित संस्करण का OCR नहीं अध्याय और श्लोकों में विभाजन, नेविगेशन हटाया; पाठ की वर्तनी अपरिवर्तित।

CC BY-SA 4.0

अध्याय 2 · स्रोत संस्करण: https://sa.wikisource.org/w/index.php?title=%E0%A4%AB%E0%A4%B2%E0%A4%A6%E0%A5%80%E0%A4%AA%E0%A4%BF%E0%A4%95%E0%A4%BE/%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A5%8B%E0%A4%BD%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_(%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%AD%E0%A5%87%E0%A4%A6%E0%A4%83)&oldid=73760